विरामदिनानि

कार्यदिनसूचना Attendance

  • जालक्षेत्राद् आमन्त्रणम् प्रेषयिष्यते। app तन्त्रांशो ऽपि वर्तते।
  • प्रतिहोरम् इयद् इति कालमानेन वेतनं निश्चिनुमः प्रतिमासम्।

कार्यवेला/ Work days

  • साधारणापेक्षा - सप्ताहे ५ दिनानीति मानेन कार्यदिनानि स्युः। दिने च ८ होराणां कार्यवेला।

विरामदिनानि (अवर्तमान-व्यवस्था)/ Paid leaves (Inactive policy)

  • सप्ताहे २ दिनय् इति मानेन सप्ताहान्तदिनानि सङ्गृह्य युगपदेव विरामदिनानि भोक्तुं शक्यते (अनेन +एकादश्यादिव्रताचरणे ग्रामयात्रायाञ्च सौकर्यं स्यादिति धीः)। किञ्च, विशिष्टानुज्ञां विना ८ एव दिनानि तादृशानि सङ्गृहीतुं शक्यानि - न ततोऽधिकम्।
  • एतदन्तरा प्रतिमासं दिनमेकम् इति मानेन विरामदिनानि लभ्यन्ते। तानि सङ्गृह्य भोक्तुं शक्यम्। अथवा धनाय विक्रेतुम् अपि शक्यम्। किन्तु, विशिष्टानुज्ञां विना ८ एव दिनानि तादृशानि सङ्गृहीतुं शक्यानि - न ततोऽधिकम्।
  • भुज्यमानेषु सङ्गृहीत-विरामदिनेषु प्राक्सूचना देया, विपत्रेण चानुज्ञा लब्धव्या।
  • एतदन्तरा +एतेषूत्सवदिनेषु सप्ताहान्तादन्तरा वर्तमानेषु विरामदिनानि दीयन्ते, प्रत्युत्सवम् एकम् इति मानेन - दीपावलिः, नवरात्रि, गणेशोत्सवः। अन्येषूत्सवेषु विरामिदिनानि यथापेक्षं गृह्याणि - यतो जने जने प्रियोत्सवो भिन्नः।