6 Conflicts

निर्देश-समीक्रिया (द्रष्टुं नोद्यम्)
  • अधः XYZ इति यद् अस्ति, तस्य स्थाने स्वीयं github-नाम प्रयुङ्क्ताम्।
    • अथवैतत् प्रयुज्यतां यन्त्रम्:
  • Back to Git workflow

समस्याभिज्ञानम्

भवद्-आकर्षणाभ्यर्थने कदाचिद् एवं दृश्येत -

conflicting-files
conflicting-files

अथवा कदाचिद् sync fork इति नुदितय् एवं दृश्येत -

sync-fork discard-changes
sync-fork discard-changes

अस्यार्थः - मत्-प्रति–भवत्-प्रेषित-प्रत्योर् विवादे सति भवत्-परिष्करणान्य् अन्यानि यन्त्रेण तिरक्रियन्ते।
अत इयं समस्या मानुषप्रयासेण परिहरणीया।

परिहारः

तथा सति, सावधानं क्रमश एवं कार्यम् -

  • कासु सञ्चिकासु परिवर्तनं कृतम् इति विजानातु। तदर्थम्
    • आकर्षणाभ्यर्थनम् उद्घाटयेत् (“आकर्षणाभ्यर्थन-प्राप्तिः” इति वीक्षताम् अत्र)।
    • अस्मिन् चित्रे दर्शितया रीत्या “Files changed” इति नुदतु।
      files-changed review-changes
      files-changed review-changes
    • तत्र परिवर्तितास् सञ्चिकास् स्फुटास् स्युः।
      changed-file-list
      changed-file-list
  • भवत्कृत-परिवर्तनानि स्वसङ्गणके क्वचिद् रक्षतु।
  • browser मध्ये vscode इत्य् उद्घाटितं चेत्, तद् पिदधातु।
  • “sync fork” इति कृत्वा “discard commits” इति कीलकं नुदतु। तेनान्यैः कृतानि परिवर्तनानि लभिष्यन्ते। (अनेन साकम् प्राचीनाकर्षणाभ्यर्थने सति, पिहितम् भवति। )
  • पुनः vscode-गवाक्षम् पुनर् उद्घाटयतु।
  • यथास्थानं पाठशोधने ऽनुवर्तताम् (यथापेक्षं पूर्वं स्वसनणके रक्षितानि परिवर्तनानि प्रयुज्य)।
  • ततः नूतनम् आकर्षणाभ्यर्थनम् प्रेषयतु।