pada-separation

अस्मत्परिभाषा

  • रिक्ता पङ्क्तिः = empty line, obtained by pressing Enter key twice.
  • रिक्तस्थानम् = space, obtained by pressing “space bar” key.

पदम्

सुप्-तिङन्तम् पदम् इति पदसंज्ञा ऽवगन्तव्या। यथा रामः, हरिहरः, लोकेशः इति पदानि। हरिह, रा इति न पदे। पदमध्ये रिक्तावकाशो न स्यात्। यथा रा मः, हरि हरः इति न लेख्यम्।

कदाचित् पदमध्ये ऽनुचित रिक्तस्थानाभावो दृश्येत। यथा

मणिबन्धनिमग्नेनहस्तेनादायवैजलम् इत्य् अत्र

मणिबन्धनिमग्नेन हस्तेनादाय वै जलम्

इति स्यात्।
एवं रिक्तस्थानाभावे समीकार्यम्।

पदमध्ये रिक्तस्थानयोजने कदापि वर्णव्यत्यासः न कार्यः।
सन्धिविघागो नैव कार्यः। (म → म् अ इति तु न सन्धि-विभागः । यत्र व्याकरणशास्त्रोक्त-विभागः, तत्रैव “सन्धि-विभाग"संज्ञा।)

सन्धिर् न विभज्यः

सन्धिर् नाम व्याकरण-विधितो वर्णव्यत्यासः।
यथा “ह्यस्तु” इत्यस्य विभागे “ह्य् अस्तु” इति लेखनम् अभ्युपगततरम् (“ह्यस्तु” इत्यस्याप्य् अपेक्षया), न तु “हि अस्तु” इति। पूर्वत्र यकारोत्तरो ऽकारः “ह्यस्तु”, “ह्य् अस्तु” इत्येतयोः समानम् अवगम्यतय्, उत्तरत्र नेति व्यत्यासः।

कदाचिद् अत्र सन्धितो विकल्पस् स्यात्- किञ्चिच् छुश्रूषितम्, किञ्चिच् शुश्रूषितम् इति यथा।

समस्त-पदानि

समस्त-पदेषु रिक्तावकाशा न युज्यन्ते।

“लक्ष्मी चारुकुचद्वन्द्व कुङ्कुमाङ्कित वक्षसे सर्गस्थित्यन्त लीलाय वेङ्कट ब्रह्मणे नमः ॥”

इति रिक्तस्थानानि दृष्टानि चेत् -

“लक्ष्मी-चारु-कुच-द्वन्द्व-कुङ्कुमाङ्कित-वक्षसे सर्ग-स्थित्यन्त-लीलाय वेङ्कट-ब्रह्मणे नमः ॥”

इति समस्तपद-योजनं -चिह्नैः कार्यम्।

रामानुजः - अत्र सवर्णदीर्घ-सन्धिर् अस्ति, ततः -चिह्नस्यावकाशो नास्ति। एवम् अन्यत्र वृद्धि-सन्धि–गुण-सन्धिवद् द्वयोर् वर्णयोर् एकादेशो यत्र भवति।

(सुध्युपास्यः) इत्यत्र (सुध्य्-उपास्यः) इति कर्तुं युक्तम् - यतस् तत्र सन्धिविग्रहं विना -चिह्नयोजने ऽवकाशोऽस्ति।।

अत्यन्त-लम्ब-समस्त-पदेषु -चिह्नान्त-पङ्क्ति-भेदे विरोधो नास्ति (प्रत्युत प्रशस्तम्), यथा -

एटूर्-इम्मडि-तिरुमलै-लक्ष्मीकुमार-कोटिकन्यकादान-
श्री-देशिक-ताताचार्य-नन्दन–
मीमांसार्णव-मीमांसाकेसरि-पूर्वोत्तरतन्त्रप्रदीप-
देशिकदर्शनधुरन्धर-पण्डितराज-
तिरुमलैताताचार्य-न्यायमीमांसाशिरोमणि- प्राच्यविद्येश्वर-विरचितः।

उप-समस्त-पदानि

समस्तपदेषूपपदं किञ्चिद् यदि स्वयं समस्तपदम्, तस्य पार्श्वे –चिह्नम् प्रशस्तम्। यथा - ब्रह्म-हत्या–गो-वध–गुरु-तल्प-गमन–पापानि।

दोषाः

सहोत्-पन्न इत्येवम् उपसर्गे -चिह्नम् मा भूत्।

उपपदमध्ये -चिह्न-योजने कदापि वर्ण-व्यत्यासः न कार्यः।

सन्धिविघागो नैव कार्यः।
सन्धिर् नाम व्याकरण-विधितो वर्णव्यत्यासः।

नासमासे -चिह्नम् -
श्रोत्रियस्स्वयमाहरेत् एवं विद्यमाने सति - श्रोत्रियः-स्वयम्-आहरेत् इति न कार्यम् - न तत् समस्त-पदम्। श्रोत्रियस् स्वयम् आहरेत् इति स-रिक्त-स्थानं लेखितुं तूचितम्।

न तद्धितान्ते
यथा दौर्जन्यम् - तद्धितान्तशब्दोऽयम्, न समासान्तः - समास-घटनात् परं तद्धित-प्रत्यययोजनात्। अतो नात्र -चिह्नम्।