Tamil

अक्षरमाला

इदं कागदे प्रकाश्य स्वपार्श्वे स्थापयतु।

अन्तिमपङ्क्तित्रये दृश्यमाना वर्णा नूतनाः।
तत्र विशिष्यावदधातु।

अवधेयम् - द्राविड्यां वर्गीयव्यञ्जनेषु
कङचञटणतनपम एव वर्णा इतर-वर्गीय-व्यञ्जनस्थाने ऽपि प्रयुज्यन्ते।
तत्र तत्र देवनागरीकरणे ते ते वर्णा ऊहनीयास् स्युः।

Sometimes you may be asked to type tamiL script seen in the book images in devanAgarI.
ततो द्राविडभागान् पठित्वा तद्-अनुसारेण देवनागर्योट्टङ्कयतु जागरूकतया। तेन सुलभम् भवेत्।

वर्गीय-व्यञ्जनेषु परिवर्तनम्

द्राविड्याम् प्रत्येकस्मिन् द्राविड-पदे प्रथमेतरवर्णः कचटतप-स्थाने गजडदब भवति।

उदाहरणम्

(चुरुङ्गिच् चुरुङ्गि) (चुरुङ्किच्) - (जुरुङ्गिज्) इति भवति वा इति भ्रमः?

ननु प्रथमेतरवर्णे हि परिवर्तनम्, प्रथम-वर्णे न भवति।
अन्तिमवर्णस् तु सन्धि-जातः - चुरुङ्गि + चुरुङ्गि = चुरुङ्गिच् चुरुङ्गि , अतस् तत्र न भवति।

अन्ये ऽपवादाः -

संस्कृत-शब्देषु न द्राविड-व्यञ्जनपरिवर्तनविधिः - “वेदान्ति” इत्येव।
प्रत्ययेषु, द्विगुणितवर्णेषु च न व्यञ्जनपरिवर्तनविधिः - “वेदान्तिगळुक्कु” इत्येव।