नारदागमनम्
श्लोकः १॥
श्रियः पतिः श्रीमति शासितुं जगज्जगन्निवासो वसुदेवसद्मनि।
वसन् ददर्शावतरन्तमम्बरात्, हिरण्यगर्भाङ्गभुवं मुनिं हरिः।
पदच्छेदः–श्रियः, पतिः, श्रीमति, शासितुं, जगत्, जगन्निवासः, वसुदेवसद्मनि, वसन्, ददर्श, अवतरन्तं, अम्बरात्, हिरण्यगर्भाङ्गभुवं, मुनिं, हरिः।
प्रतिपदार्थः-जगन्निवासः-जगत्=जगतः, निवासः=निवासस्थानं, (जगत्(सर्वं)यस्मिन् वसति-सः-निवासस्थानभूतः; श्रियः=लक्ष्म्याः, पतिः=भर्ता; हरिः=श्रीमन्नारायणः,
जगत्=भुवनं, शासितुं=नियन्तुं, श्रीमति=शोभायुक्ते(सुसम्पन्ने), वसुदेवसद्मनि-वसुदेव=वसुदेवस्य, सद्मनि=गृहे, वसन्=निवसन्, अम्बरात्=आकाशात्, अवतरन्तं=
अधःआगच्छन्तं, हिरण्यगर्भाङ्गभुवं-हिरण्यगर्भ=ब्रह्मणःअङ्ग=शरीरात्, भुवं=जातं, मुनिं=यतिं(नारदं), ददर्श=अपश्यत्।
तात्पर्यम्–सर्वं जगत् यस्य निवासस्थानं भवति, तादृशः, लक्ष्मीपतिश्च हरिः(श्रीमान् नारायणः)लोकान् नियन्तुं वसुदेवस्य गृहे निवसन् गगनात् आगच्छन्तं ब्रह्मणः
कुमारं नारदनामानं मुनिम् अपश्यत्।
अत्र चरित्रम् एवम् अस्ति–श्रीमान् नारायणः लक्ष्म्याः भर्ता। सर्वं जगत् तस्य वासभूमिः। सः द्वारकापट्टणे भारतदेशे वसुदेवस्य गृहे निवसति। वसुदेवः तस्य पिता।
अतः वासुदेव इति व्यवह्रियते। नारदः ब्रह्मणः पुत्रः। सः त्रिलोकसञ्चारी। सः वार्ताहरश्च। सः वासुदेवं श्रीकृष्णं द्रष्टुम् आगच्छत्। नारदः मुनिः। तपश्शक्तिरस्ति तस्य।
गगने गन्तुं पूर्वकाले विमानानि न आवश्यकानि। तपश्शक्त्या एव मुनयः यत्र कुत्रापि गच्छन्ति स्म। नारदः जगतः कल्याणकारी। न कलहं करोति। कलहभोजन इव
बहिः दृश्यते। परन्तु, सम्यक् विचार्यमाणे सः सर्वेषां प्रियं करोति।
शब्दाः, समासाः, व्युत्पत्तयः, पौराणिककथनानि च सन्ति अत्र। पृच्छन्ति चेत् तान् अपि प्रेषयामि। अलङ्काराश्च सन्ति।
अत्र प्रश्नाः एवं भवन्ति—-वासुदेव इति नाम कथम् अभवत्? तस्य अर्थः कः? सः यथार्थतः कः?सः वसुदेवस्य गृहे किमर्थम् अस्ति? नारदः कः? सः कस्य पुत्रः?
जगन्निवास इति तस्य नाम कथम् आगतम्? सः कं अपश्यत्? सः कस्मात् आगच्छति? इत्यादयो प्रश्नास्सन्ति श्लोकेऽस्मिन्।
द्वितीयः - गतं तिरश्चीनमनूरुसारथेः
श्लोकः २॥
“गतं तिरश्चीनमनूरुसारथेः , प्रसिद्धमूर्ध्वज्वलनं हविर्भुजः।
पतत्यधो धाम विसारि सर्वतः, किमेतदित्याकुलमीक्षितं जनैः॥
पदच्छेदः—-गतं, तिरश्चीनम्, अनूरुसारथेः, प्रसिद्धम्, ऊर्ध्वज्वलनं, हविर्भुजः, पतति, अधः, धाम, विसारि, सर्वतः, किम्, एतत्, इति, आकुलितम्, ईक्षितं, जनैः।
प्रतिपदार्थः—अनूरुसारथेः=सूर्यस्य, गतं=गतिः(गमनं), तिरश्चीनं=तिर्यक् (विद्यमानम्भवति); हविर्भुजः=अग्नेः, ऊर्ध्वज्वलनं=उच्चै(उपरि)र्ज्वलनं, प्रसिद्धं=प्रख्यातम्;
धाम=तेजः, सर्वतः=सर्वासु दिक्षु, विसारि=प्रसारितं सत्, अधः=नीचैः(अधस्तात् भूमौ) पतति=पतितं दृश्यते। एतत्=इदं धाम, किम्=कीदृशम्, इति=वदन्तः,
आकुलं=व्याकुलं यथा तथा(व्याकुलतया)जनैः=द्वारकानगरस्थप्रजाभिः, ईक्षितं=दृष्टम्।
तात्पर्यम्—सूर्यस्य तेजः तिर्यक् प्रसरति। अग्निः ऊर्ध्वं ज्वलति। एतत् दृश्यमानं तेजः सूर्याग्नितेजोभ्यां विलक्षणतया अधस्तात्पतति। किमेतदिति व्याकुलतया
द्वारकानगरपौराः तदपश्यन्।
श्लो॥ ३.
चयस्त्विषामित्यवधारितं पुरा ततः शरीरीति विभाविताकृतिम्।
विभुर्विभक्तावयवं पुमानिति क्रमादमुं नारद इत्यबोधि॥
पदच्छेदः—चयः, त्विषाम्, इति, अवधारितं, पुरा, ततः, शरीरी, इति, विभाविताकृतिम्,
विभुः, विभक्तावयवं, पुमान्, इति, क्रमात्, नारदः, इति, अबोधि।
प्रतिपदार्थः–
विभुः=वस्तुतत्त्वावधारणसमर्थः, सः=श्रीकृष्णः, पुरा=प्रथमं, त्विषां=कान्तीनां, चयः=पुञ्जः, इति=इत्थमिति, अवधारितं=निश्चितम्। ततः=अनन्तरं, (समीपस्थे सति), विभाविताकृतिम्; विभावित=विमृष्टा, आकृतिः=संस्थानं(आकारस्थितिः), यस्य (सः) तं=नारदं, शरीरीति=चेतन इति(शरीरमस्यास्तीति), विभक्तावयवं=विभक्ताः अवयवाः यस्य (सः) तं=नारदं, पुमानिति=पुरुष इति, क्रमात्=क्रमेण (ततोऽपि समीपस्थे सति), अमुं=आगच्छन्तं व्यक्तिं, ,नारद इति=नारदमुनिरिति, अबोधि=बुद्धवान्=ज्ञातवान्।
तात्पर्यम्—श्रीकृष्णं प्रति नारदागमनं वर्णितमत्र। नारदे गगनात् आगच्छति सति तं प्रथमं तेजोराशिरिति, ,आकारे दृष्टे सति शरीरवानिति, अवयवेषु सुस्पष्टं दृष्टेषु सत्सु पुमानिति, अतिसन्निहिते सति नारद इति तमागच्छन्तं मुनिं श्रीकृष्णः ज्ञातवान्।
विशेषाः–अत्र काव्यलिङ्गमित्यलङ्कारः। समर्थनीयस्य अर्थस्य यत्र समर्थनं दृश्यते तत्र काव्यलिङ्गमित्यलङ्कारः। एतद्विधानं पदार्थयोर्वा वाक्यार्थयोर्वा भवति। नारदं शरीरीति समर्थने तस्य आकृति दर्शनं लिङ्गं=कारंणम्=हेतुः। शरीरीति पदार्थः। तन्निर्धारणे आकृतिविवेचनं कारणम्। एवं पुमानित्यर्थनिर्धारणे स्पष्टतया अवयवदर्शनं कारणम्। शरीरीति, पुमानिति अर्थद्वयमत्र आकृति, विस्पष्टावयवरूप अर्थद्वयेन समर्थितमिति कारणेन काव्यलिङ्गालङ्कारः। नारदस्य अवरोहणक्रमोऽत्र विस्मयसन्धायकमस्ति।
उत्कण्ठाजनकं च। अबोधि–इत्यत्र धातुः–“बुध”, अर्थस्तु-“अवगमनम्=ज्ञानम्। लुङ्।
लट्–“बुद्ध्यते” इति भवति। अत्रत्य क्रिया—“अबोधि” ७ श्लोकपर्यन्तम् अन्वेति। एवंविधान्वयविधानस्य “कुलक"मिति साङ्केतिकं नाम। अत्रैवं श्लोकोऽप्यस्ति।
यथा—
श्लो॥ द्वाभ्यान्तु युग्मकं, सन्दानितकं त्रिभिरिष्यते। कलापकं चतुर्भिश्च, पञ्चभिः कुलकं मतम्॥ इति।
पुनरलङ्कार एकवारं स्पष्टीक्रियते—-विभाविताकृति, विभक्तावयवमित्यादिना आकृतिविभावन, अवयवविभावनरूपपदार्थयोः
शरीरित्व, पुंस्त्वादिरूपपदार्थाभ्यां समर्थनमत्र दृष्टम्। शरीरित्वपुंस्त्वयोः निर्धारणे आकृतिविभावनावयवविभावनद्वयं हेतुर्भवति। पूर्वार्थद्वयं उत्तरार्थद्वयेन समर्थितञ्च।
चतुर्थः - नवानधोऽधो
श्लोकः॥ ४. नवानधोऽधो ब्रुहतः पयोधरान् समूढकर्पूरपरागपाण्डुरम्।
क्षणं क्षणोत्क्षिप्तगजेन्द्रकृत्तिना स्फुटोपमं भूतिसितेन शम्भुना॥
पदच्छेदः—–नवान्, अधः, अधः, ब्रुहतः, पयोधरान्, समूढकर्पूरपरागपाण्डुरम्, क्षणं, क्षणोत्क्षिप्तगजेन्द्रकृत्तिना,
स्फुटोपमं, भूतिसितेन, शम्भुना।
प्रतिपदार्थः—नवान्=नूतनान्=सद्यः सम्भूतसलिलान् = अतिनीलान्, ब्रुहतः=विपुलान्, पयोधरान्=मेघान्,
अधोऽधः=अधस्तात् अधस्तात्, (मेघानां समीपाधःप्रदेशे स्थितं) समूढकर्पूरपरागपाण्डुरं; समूढ=
पुञ्जीकृतः, (समूढः पुञ्जिते भुग्ने–इति विश्व इति नान्नि निघण्टौ) कर्पूर=कर्पूरस्य, पराग=चूर्णमिव,
पाण्डुरम्=धवं, क्षणं=मेघसमीपावस्थानक्षणे, क्षणोत्क्षिप्तगजेन्द्रकृत्तिना; क्षण=ताण्डवोत्सवेषु=
(निर्व्यापारस्थितौ कालविशेषोत्सवयोः क्षणः–इत्यमरनिघण्टौ—निर्व्यापारस्थितिः मेघस्य पक्षे,
कालविशेषोत्सवः परमशिवस्य पक्षे) उत्क्षिप्त=उपरि धारिता, गजेन्द्र=गजेन्द्रस्य, कृत्तिः=चर्म (येन) तेन =तादूशेन, (अजिनं चर्म कृत्तिः स्त्री—इत्यमरः), भूतिसितेन=भूति=भस्मना, सितेन=धवितेन,
(भूतिर्भस्मनि सम्पदि–इत्यमरः), शम्भुना=शिवेन, स्फुटोपमं=स्फुटा उपमा(साद्रुश्यं (यस्य) तं=स्फुट
शम्भूपमं—–(नारदं) अबोधि–इति क्रिया पूर्वतनश्लोकादध्याहार्या।
तात्पर्यम्—गगनात् आगच्छन्तं नारदं वर्णयति कविः। नारदः गगनादागच्छन् अस्ति। तस्य समीपे नवाः मेघाः
सन्ति। ते अतीव नीलाः द्रुश्यन्ते। शिवः गजचर्मधारी। भस्मना धवितोऽपि। नारदस्य शरीरमपि धवितमस्ति।
गजस्य चर्म नीलम्भवति। शिवः ताण्डवनाट्यसमये गजचर्मधारी भवति। एकत्र नैल्यं अन्यत्र धाव्यं द्रुष्ट्वा
नारदः गजचर्मधारी शिव इत्युत्प्रेक्ष्यते। “भूतिसितेन शम्भुना स्फुटोपमो नारद इति कथनेन साद्रुश्ये श्रूयमाणेऽपि
औपम्यस्यास्य प्रसिद्ध्यभावात् उत्प्रेक्षैव अलङ्कारः। कर्पूरचूर्णमिव नारदः पाण्डुर इति कथनेन उपमाप्यस्ति।
चारित्रकांशः——–शिवस्य गजासुरः भक्त इति, भक्तस्य मनोरथं पूरयितुं शिवः गजचर्मधारी अभवदिति पौराणिक
कथा। पयोधरा नाम जलदाः। निर्व्यापारस्थितौ मेघास्सन्तीति कथनेन वर्षोन्मुखमेघा इति तेषामतिनैल्यं सूच्यते च।
पञ्चमः - दधानमम्भोरुह-
श्लो॥ ५. दधानमम्भोरुहकेसरद्युतीर्जटाश्शरच्चन्द्रमरीचिरोचिषम्।
विपाकपिङ्गास्तुहिनस्थलीरुहो धराधरेन्द्रं व्रततीततीरिव॥
पदच्छेदः–दधानम्, अम्भोरुहकेसरद्युतीः, जटाः, शरच्चन्द्रमरीचिरोचिषम्, विपाकपिङ्गाः, तुहिनस्थलीरुहः,
धराधरेन्द्रं, व्रततीततीः, इव, —-।
प्रतिपदार्थः—-अम्भोरुहकेसरद्युतीः; (द्युति-शब्दः, द्वि.ब) अम्भोरुह=(अम्भसि रोहतीति अम्भोरुहः)पद्मस्य, केसर=
किञ्जल्कस्य, द्युतीः=प्रभाः(प्रभाशब्दस्य द्वि.बहु) प्रभा इव प्रभाः यासां ताः)जटाः=वेण्यः, (द्वि.बहु–वेणी शब्दस्य),
दधानम्=धारयन्तं, शरच्चन्द्रमरीचिरोचिषम्; शरत्=शरत्काले, चन्द्र=चन्द्रस्य, मरीचि=किरणानां, रोचिषम्=रोचिरिव
रोचिः (यस्य (सः) तं=ताद्रुशं=धवविग्रहं, (नारदं), विपाकपिङ्गाः; विपाक=परिणामेन=पक्वतया, पिङ्गाः=पिङ्गाः,
तुहिनस्थलीरुहः; तुहिनस्थली=तुषारभूमौ, रुहः=जनिताः, व्रततीततीः; व्रतती=लतानां, ततीः=समूहान्, (दधानम्–(अध्याहार्यमत्र)=धारयन्तम्, ) धराधरेन्द्रम् इव=(धरां=भूमिं, धरतीति-धराधरः=पर्वतः)तेषां पर्वतानामिन्द्रः=हिमवान्
, तम् इव=हिमवन्तमिव (स्थितमित्यध्याहार्यम्), (नारदं—अबोधि=ज्ञातवान्-इति अग्रिमश्लोकक्रियया अन्वयः।
तात्पर्यम्—–नारदः हिमवानिवास्तीति वर्ण्यते। हिमवत्पर्वतः तुषारेण आव्रुतो भवति। तुषारस्तु अतीव धवः।
तुषाराद्रौ अनेकाः लतास्सन्ति। ताः पक्वताङ्गताः। नारदः स्वयं भस्माङ्गरागेण शारदचन्द्रिका इव कान्त्या राजते। अपि च, सः पद्मकिञ्जल्ककान्तिसद्रुशाः पिशङ्गीः जटाः धारयन्नस्ति। जटाः अरुणितास्सन्ति। लता अपि
पक्वतया तथैव भवन्ति। अतः पिशङ्गीभिः लताभिः आव्रुतो तुषाराद्रिरिव पिशङ्गीभिर्जटाभिस्सहितो स्वयं
शरच्चन्द्रमरीचिकान्त्या नारदोऽस्ति। अतः नारदो हिमवानिवास्तीत्युत्प्रेक्ष्यते। अतोऽत्र उत्प्रेक्षालङ्कारः। औपम्य
गर्भितालङ्कारेषु उत्प्रेक्षाप्यन्यतमा भवति। अत्र उपमानम्–हिमवान्। उपमेयम्—-नारदः। इव-साद्रुश्यवाचकम्।
पिशङ्गत्वं, धाव्यं—उभयत्र समानधर्मौ। वस्तुतः उपमा भवेत्। परन्तु, “धराधरेन्द्रमिव स्थितमिति कथनेन
उपमानत्वं उपमेये सम्भाव्यते। अतः उत्प्रेक्षा भवति। किञ्च, तुषारस्थले लतानामुत्पत्तिरपि न सम्भवति प्रायशः।
इदमपपि कारणम्भवेत् तत्रोपमा न भवतीत्युक्तेः।
श्लो॥ ६. पिशङ्गमौञ्जीयुजमर्जुनच्छविं वसानमेणाजिनमञ्जनद्युति।
सुवर्णसूत्राकलिताधराम्बरां विडम्बयन्तं शितिवाससस्तनुम्॥
पदच्छेदः—-पिशङ्गमौञ्जीयुजम्, अर्जुनच्छविम्, वसानम्, एणाजिनम्, अञ्जनद्युति,
सुवर्णसूत्राकलिताधराम्बरां, विडम्बयन्तम्, शितिवाससः, तनुम्॥
प्रतिपदार्थः—पिशङ्गमौञ्जीयुजम्; पिशङ्ग=गोरोजनवर्णसद्रुश=गोरोजनं नाम–गोःगर्भे स्थितो कश्चन धातुः, तत्सद्रुश=धूिधूसरितवर्णसद्रुश, मौञ्जी=मुञ्जो नाम, त्रुणविशेषः–तेन निर्मितया मेखलया(मेखला नाम–उपनयनसमये कट्यां बद्धं सूत्रं)युजम्=युक्तम्, अर्जुनच्छविं=धवकान्तिं=धविमां, (वक्षो धवोऽर्जुनः–इत्यमरः), अञ्जनद्युति=अञ्जनवर्णं, एणाजिनं=कृष्णम्रुगस्य चर्म, वसानं=धारयन्तम्, (नारदं), सुवर्णसूत्राकलिताधराम्बराम्; सुवर्ण=स्वर्णमय, सूत्र=सूत्रेण=कनकमेखलया, आकलित=बद्ध, अधर=अधस्तात् ध्रुतं, अम्बरं=वस्त्रं=अन्तरीयकं (यस्याः तनोः)तां,
शितिवाससः=नीलाम्बरस्य=बलरामस्य(नीलाम्बरो रौहिणेयः तालाङ्को मुसली हली-इति बलरामस्य नामानि)
तनुं=शरीरं, विडम्बयन्तं=अनुकुर्वाणं (नारदम्) अबोधीति पूर्वतनक्रिया अध्याहार्या। (ज्ञातवान्)
तात्पर्यम्—–नारदस्य कट्यां मौञ्जी नान्नी मेखला =कटिसूत्रम्, अस्ति। तत् गोरोजनधातुरिव धूिधूसरितं
=गोधूम=गवेधुकधान्यवर्णरञ्जितमस्ति। कृष्णम्रुगस्य चर्म अपि ध्रुतवान् सः। तत् चर्म अञ्जनमिव नीलमस्ति।
एवंगुणविशिष्टो नारदः कट्यां सुवर्णसूत्रेण नीलाम्बरधारी बलराम इवास्ति।
विशेषाः—–अलङ्कारः उपमा। नारदस्य मौञ्जी बलरामस्य सुवर्णसूत्रेण उपमिता। तथा नारदस्य एणाजिनं (कृष्ण
म्रुगस्य चर्म बलरामस्य नीलाम्बरेण उपमितम्। धाव्यं नीलत्वं च समानधर्मौ। इवेति साद्रुश्यवाचकमेव नास्ति।
अतः वाचकलुप्तोपमा भवति। उपमायां अर्थप्राधान्येन वाचकलोपेन च आर्थी उपमा भवत्येषा। मुनेः बलरामस्य च
स्वरूपस्वभावौ कथितावत्र। जवर्णसवर्णयोराव्रुत्त्या व्रुत्त्यानुप्रासो नामा शब्दालङ्कारोऽप्यस्ति।
छविरित्यत्र छविरिव छविरिति, द्युतिरित्यत्रापि द्युतिरिव द्युतिरिति अर्थो वक्तव्यो भवति। गोरोजनं नाम कश्चन
धातुः। गोः गर्भे भवति। वैद्यशास्त्रोपयोगि च।
श्लो। ७.”
विहङ्गराजाङ्गरुहैरिवायतैः, हिरण्मयोर्वीरुहवल्लितन्तुभिः।
कृतोपवीतं हिमशुभ्रमु्च्चकैः घनं घनान्ते तडितां गणैरिव॥
(प्रतिपदार्थः)
विहङ्गराजाङ्गरुहैः इव=विहङ्गराज=पक्षिराजस्य गरुत्मतः, अङ्गरुहैः=रोमैः, इव=सदृशैः; आयतैः=दीर्घैः, हिरण्मयोर्वीरुहवल्लितन्तुभिः-हिरण्मय=स्वर्णमय
उर्वी=भूम्यां, रुह=जात, वल्ली=लतानां, तन्तुभिः=सूत्रैः, कृतोपवीत–कृत=निर्मित, उपवीतं=यज्ञोपवीतधारिणं(नारदं), घनान्ते=(वर्षाकालस्य अन्ते)शरत्काले, तडितां=विद्युतां, गणैः=समूहैः, (दृष्टम्–इति अध्याहार्यम्) हिमशुभ्रं= हिममिव, शुभ्रं=श्वेतं, उच्चकैः=उन्नतं, घनं=मेघम्, इव=वत्(श्रीकृष्णः दृष्टवान्–इत्यर्थः)
(तात्पर्यम्)
नारदः मेघः इव अस्ति। मेघस्तु शरत्कालमेघः। शरदि मेघः जलराहित्येन श्वेतः भवति। तडितां गणा नाम विद्युल्लताः। विद्युल्लताः स्वप्रकाशार्थं मेघं सर्वदा
निरीक्षन्ते। कुतः इति चेत्, मेघाः जलसहिताश्चेत्, तेषु मिथस्सङ्घर्षणेन अन्तः प्रविश्य स्वप्रकाशं दर्शयितुं शक्नुवन्ति। अतः तडितः मेघं पश्यन्ति। नारदस्य यज्ञोपवीत
मस्ति खलु। तत् लतातन्तुभिः निर्मितम्। तन्तवः स्वर्णमयास्सन्ति, गरुत्मतः रोमा इव दीर्घाः श्वेताश्च सन्ति। अत्र तन्तव एव विद्युल्लताः। ताः शरत्कालमेघसदृशं नारदमाश्रित्य स्थिताः। शरन्मेघ इव स्थितं नारदं श्रीकृष्णः दृष्टवान्। श्रीकृष्णः सदा नीलमेघसदृशः। शरत्कालमेघरूपिणः नारदस्य यज्ञोपवीते तन्तुरूपेण विद्युल्लताः
सन्ति। ताः स्वप्रकाशाय नीलमेघरूपिणं कृष्णमपि निरीक्षन्ते। कृष्णोऽपि विद्युल्लताप्रकाशनाय—अर्थात्—नारदानीतसमस्यां परिष्कर्तुं च निरीक्षते। एवमत्र उपकार्यो
पकारकभावः व्यज्यते ध्वनिरूपेण। (अत्र समस्या नाम शिशुपालवध एव–एतत्परिष्करणेन स्वावतारस्य प्रकाशश्च प्रयोजनञ्च भवतः)
एतद्विवरणस्य उपरि भवदभिप्रायं श्रावयन्तु।
अष्टमः - निसर्गचित्रोज्ज्वलसूक्ष्मपक्ष्मणा
श्लो॥
“निसर्गचित्रोज्ज्वलसूक्ष्मपक्ष्मणा लसद्बिसच्छेदसिताङ्गसङ्गिना।
चकासतं चारुचमूरुचर्मणा कुथेन नागेन्द्रमिवेन्द्रवाहनम्॥
(प्रतिपदार्थः)निसर्गचित्रोज्ज्वलसूक्ष्मपक्ष्मणा–(एकपदम्–तृतीयैकवचनम्) निसर्ग=स्वभावतः, चित्र=शबलित(नानावर्णचित्रित), सूक्ष्म=अत्यल्प, पक्ष्मणा=लोमेन(रोमैः), लसद्बिसच्छेदसिताङ्गसङ्गिना(एकपदम्–तृ–एकवचनम्)लसत्=प्रकाश
मान, बिस=मृणानास्य, छेद=खण्डेन, सित=श्वेत, अङ्ग=शरीरेण, सङ्गिना=सक्तेन; चारुचमूरुचर्मणा(तृतीयैकवचनम्)चारु=मनोहर, चमूरु=चमरीमृगस्य, चर्मणा=चर्मवता
कुथेन=पृष्ठास्तरणेन, (पृष्ठं नाम–अधोभागे–पीठस्थाने, आस्तरणम्=आसनम्)इन्द्रवाहनम्=इन्द्रस्य वाहनम्=ऐरावतः, इव=वत्(सदृशत्वेन)चकासतं=शोभन्तं(नारदं
दृष्टवान्–इति अध्याहार्यम्=योजनीयम्)
(तात्पर्यम्)अत्र नारदः ऐरावत इव वर्णितः। ऐरावतस्य वर्णः श्वेतः। नारदस्य वर्णः अपि मृणानाखण्डमध्यस्थतन्तूनां वर्णः इव श्वेतः। (जटाभिश्च), ऐरावतस्य पृष्ठभागे
नानावर्णचित्रित, सूक्ष्मतन्तुभिः रत्नैश्च स्थगितम् आस्तरणम् (आच्छादनं) भवति। नारदस्य पृष्ठभागे–(उपवेष्टुम्) तादृशम् आस्तरणम् अस्ति(तस्य नाम कुथा), किञ्च,
एषा कुथा चमूरुचर्मणा निर्मिता। चमूरुः नाम चमरीमृगः। चमरीमृगस्य चर्मणि केशाः श्वेताः भवन्ति। तैरेव चामराणि=विञ्जामराणि, निर्मीयन्ते–तैः वयं देवालयेषु देवाय
वीजयामश्च। एषा नारदस्य कुथा अपि ऐरावतस्य पृष्टे आस्तरणमिव अस्ति। एषा कुथा नारदस्य श्वेतशरीरेण सक्ता आसीत्-ऐरावतस्य शरीरेण सक्तम् पृष्ठास्तरणमिव।
अतः नारदः ऐरावतः इव श्रीकृष्णेन दृष्टोऽस्ति।
नवमः - अजस्रमास्फालितवल्लकीगुण-
श्लोकः॥
अजस्रमास्फालितवल्लकीगुणक्षतोज्ज्वलाङ्गुष्ठनखांशुभिन्नया।
पुरः प्रवाैरिव पूरितार्धया विभान्तमच्छस्फटिकाक्षमालया॥
(प्रतिपदार्थः) अजस्रम्=मुहुर्मुहुः=पदे पदे, आस्फालितवल्लकीगुणक्षतोज्ज्वलाङ्गुष्ठनखांशुभिन्नया(एकं समस्तपदं)आस्फालित=ताडित, वल्लकी=वीणायाः, गुण=
तन्त्रीणां, क्षत=सङ्घर्षणेन, उज्ज्वल=प्रकाशमान, अङ्गुष्ठ=ह्रस्वाङ्गुिसम्बन्धि, नख=नखस्य, अंशु=कान्तिभिः, भिन्नया=मिश्रया; पुरः=पुरोभागे, प्रवाैः=विद्रुमैः,
पूरितार्धया=सम्पूरितार्धया इव (स्थितया=विद्यमानया) अच्छस्फटिकाक्षमालया–अच्छ=स्वच्छ, स्फटिक=स्फटिकानां, अक्षमालया=जपमालया, विभान्तं=भास्वन्तं,
(नारदं–दृष्टवान्)
(तात्पर्यम्)
अस्मिन् श्लोके नारदस्य वीणावादनं वर्णितम्। नारदः पदे पदे अङ्गुष्ठेन वीणातन्त्रीं वादयति। अङ्गुष्ठस्य तन्त्र्या सह सङ्घर्षणेन अङ्गुष्ठस्य श्वेतो नखः रक्तो भूत्वा
तद्रक्तिमा नारदस्य स्फटिकाक्षमालायां प्रतिफलति। स्फटिकस्य वर्णः श्वेतः। नखानां रक्तिमायाः जपमालायाः स्फटिकेषु प्रतिफलनात् स्फटिकानि विद्रुमाः इव
प्रकाशन्ते। एवं वीणां वादयन्तं नारदं श्रीकृष्णः अपश्यत्।
अत्र अलङ्कारः “तद्गुणो"नामा। “तद्गुणः स्वगुणत्याग"इति तल्लक्षणम्। समन्वयस्तु एवम्–नखाः स्वभावतः श्वेताः। तेषां वीणातन्त्रीसंघट्टनेन तेषु रक्तिमा जाता। सा
रक्तिमा जपमालास्फटिकेषु प्रतिफलति। एवं प्रतिफलनेन स्फटिकानि विद्रुमानीव भान्ति। नखानां स्फटिकानां च तन्त्रीसंघट्टनेन श्वेतवर्णः त्यक्त आसीत्। तत्स्थाने
रक्तवर्ण आगतोऽस्ति। विद्रुमा इव भान्ति च। अतः तद्गुणालङ्कारः।
स्फटिकाक्षमालाधारणे विशेषस्त्वेवम्–“स्फटिको मोक्षदः परम्"इति शास्त्रोक्तिः। मोक्षार्थी स्फटिकाक्षमालया जपं करोति चेत् मोक्षं प्राप्नोति।
दशमः - रणद्भिराघट्टनया नभस्वतः
श्लोकः॥
रणद्भिराघट्टनया नभस्वतः पृथग्विभिन्नश्रुतिमण्डलैः स्वरैः।
स्फुटीभवद्ग्रामविशेषमूर्च्छनामवेक्षमाणं महतीं मुहुर्मुहुः॥
(प्रतिपदार्थः) नभस्वतः=वायोः, आघट्टनया=आघातेन, पृथक्=असङ्कीर्णं, रणद्भिः=ध्वनद्भिः, विभिन्नश्रुतिमण्डलैः-विभिन्न=भिन्नभिन्नतया व्यवस्थित, श्रुति=श्रुतीनां
(स्वरारम्भकावयवानां)मण्डलैः=समूहैः, स्वरैः=श्रुत्यारब्धानुरणनव्यापारैः, स्फुटीभवद्ग्रामविशेषमूर्च्छनां–स्फुटीभवत्=स्पष्टीकृत, ग्राम=स्वरसन्दोहरूप, विशेष=षड्जादि
स्वराणां, मूर्च्छनाम्=आरोहणावरोहणक्रमसम्पन्नां, महतीं=“महती"नान्नीं स्वस्य वीणां, मुहुर्मुहुः=पदे पदे, अवेक्षमाणं=पश्यन्तं(नारदं दृष्टवान्)
(तात्पर्यम्) नारदस्य वीणायाः नाम महती। तां सः वादयन् गगनात् आगच्छति। वीणातन्त्र्यः वायोः आघातेन स्वयमेव विना पुरुषप्रयत्नं ध्वनन्ति। तदद्भुतं पदे पदे
पश्यन्तं नारदं श्रीकृष्णः दृष्टवान्।
अत्र विशेषाः—स्वयमेव विविधस्वराणाम् आरोहणावरोहणादिभेदैः ध्वननं नारदस्य वीणायाः"महत्याः"प्रत्येकता।
वीणाः विविधास्सन्ति–नारदस्य वीणा महती।
सरस्वत्याः वीणा कच्छपी। तुम्बुरोः वीणा कावती। विश्वावसोः(विश्वावसुः इति कस्यचन गन्धर्वस्य नाम) वीणा बृहती। (वैजयन्ती निघण्टौ)
श्रुतिर्नाम—-स्वरारम्भकोऽवयवः शब्दः। स्वरो नाम श्रुत्यारब्धम् अनुरणनम्(अनुसृत्य रणनम्=ध्वननम्), ग्रामो नाम कुटुम्बिनां समूह इव, स्वराणां समूहः।
मूर्च्छना नाम क्रमात् स्वराणां सप्तानाम् आरोहणावरोहणम्।
स्वरास्सप्त—-षड्जः(स), ऋषभः(रि), गान्धारः(ग), मध्यमः(म), पञ्चमः(प), धैवतम्(द), निषाद(नि);
श्लो॥
श्रुतिभ्यः स्युः स्वराः षड्जर्षभगान्धारमध्यमाः।
पञ्चमो धैवतश्चाथ निषाद इति सप्त ते॥
ग्रामाः त्रयः—(स्वराणां सन्दोहः ग्राम इत्युच्यते)
श्लो॥“षड्जग्रामो भवेदादौ, मध्यमग्राम एव च।
गान्धार ग्राम इत्येतद् ग्रामत्रयमुदाहृतम्।
ग्रामकाः त्रयः सन्ति–ते तु,
श्लो॥
“नन्द्यावर्तोऽथ जीमूतः सुभद्रो ग्रामकाः त्रयः।
षड्जमध्यमगान्धाराः त्रयाणां जन्महेतवः॥”
स्वरो नाम–
शृत्यनन्तरभावी यः स्निग्धो अनुरणनात्मकःस्वनो रञ्जयति
श्रोतुः चित्तं स स्वर उच्यते। (सङ्गीतरत्नाकरे)
एतैः विशेषैः कविः सङ्गीतशास्त्रज्ञः इति ज्ञायते।
अत्र अलङ्कारद्वयमस्ति–
अतिशयोक्तिरेकः- पुरुषप्रयत्नमन्तरेण तन्त्रीषु स्वराविर्भावेन लोकातिक्रान्तो शिल्पसौष्ठवातिशयो वीणायाः प्रतीयते। द्वितीयस्तु विभावना नामा—कारणं विना कार्योत्पत्तिः यत्र वर्ण्यते तत्र विभावना भवति। पुरुषप्रयत्नरूपकारणं विनैव वीणायां
विविधस्वरोत्पत्तिकथनेन विभावना भवति।
एकादशः - निवर्त्य सोऽनुव्रजतः कृतानती
श्लोकः॥”
निवर्त्य सोऽनुव्रजतः कृतानती, नतीन्द्रियज्ञाननिधि र्नभःसदः।
समासदत्सादितदैत्यसम्पदः पदं महेन्द्रालयचारु चक्रिणः॥”
(प्रतिपदार्थः) अतीन्द्रियज्ञाननिधिः(कर्ता)–अतीन्द्रिय=इन्द्रियनिग्रहसम्पन्नानां, ज्ञान=ज्ञानस्य, निधिः=खनिः, सः=(सर्वार्थद्रष्टा)-नारदमुनिः, कृतानतीन्=कृतप्रणामान्,
अनुव्रजतः=अनुसृत्य आगतान्, नभःसदः=देवान्(नभसि=आकाशे, सीदन्ति=गच्छन्ति, इति नभःसदः), निवर्त्य=प्रतिनिषिध्य=प्रतिनिवर्त्य, सादितदैत्यसम्पदः–सादित=
विध्वस्तीकृताः, दैत्य=राक्षसानां, सम्पदः येन तस्य=दैत्यसम्पद्विनाशकस्य, चक्रिणः=श्रीकृष्णस्य, महेन्द्रालयचारु–महेन्द्र=देवेन्द्रस्य, आलय=निलयमिव, चारु=सुन्दरं,
पदं=स्थानं(श्रीकृष्णस्य निलयम्), समासदत्=प्राप्तवान्।
(तात्पर्यम्) प्रणामं कुर्वन्तः केचन देवाः नारदमनुगच्छन्ति। तान् सः प्रतिनिवृत्य इन्द्रभवनसदृशं श्रीकृष्णस्य भवनं प्राप्तवान्।
विशेषाः—
देवानां नारदानुगमनं देवलोकमर्यादा। सा भूलोकेऽपि दृश्यते। वयमपि अस्मद्गृहमागतान् कार्यार्थिनो वा अतिथीन् वा तेषां प्रतिनिवृत्तौ किञ्चिद्दूरं अनुगच्छामः खलु।
दैत्यसम्पद्विनाशकस्य-इति श्रीकृष्णस्य विशेषणेन तस्य अवतारप्रयोजनं सूचितम्। “महेन्द्रालयचारु” इति भवनस्य विशेषणेन इन्द्रभवनादागतो मुनिः
तत्सदृशमेव भवनं प्राप्तवानिति कथनं बहु समुचितमस्ति।
श्लोके “नती नती” इति विना व्यवधिं द्वयोः व्यञ्जनयुग्मयोः आवृत्या “छेकानुप्रासो नामा शब्दालङ्कारः। एकस्य व्यञ्ज्नस्य(हलः) पुनःपुनः आवृत्तिः भवेत् चेत् वृत्यानुप्रासो नामा शब्दालङ्कारो भवति। श्लोके नकारस्य सकारस्य च पुनः पुनः आवृत्तिर्भवति। अतः वृत्त्यनुप्रासोऽप्यस्ति।
अत्रेदमवधेयम्—
अस्मिन् सर्गे तृतीयश्लोके “अबोधि” इति एकैव क्रिया तदुपरि सप्तानां श्लोकानामपि अन्वेति। एतद्विधानं कुलकमित्युच्यते। पञ्चभिर्वा ततः परं वा श्लोकैः
एकैव क्रिया अन्वेति चेत् कुलकमित्येव वक्तुं शक्यते।
द्वादशः - पतत्पतङ्गप्रतिमस्तपोनिधिः
श्लोकः॥”
पतत्पतङ्गप्रतिमस्तपोनिधिः
पुरोऽस्य यावन्न भुवि व्यलीयत।
गिरेस्तटित्वानिव तावदुच्चकैः
जवेन पीठादुदतिष्ठदच्युतः॥
(प्रतिपदार्थः)पतत्पतङ्गप्रतिमः–पतत्=पतन्, पतङ्ग=सूर्येण, प्रतिमः=सदृशः, तपोनिधिः(तपसि निधिः) नारदमुनिः, अस्य=हरेः, पुरो भुवि=पुरप्रदेशे, यावत् न व्यलीयत=
यावत् न अतिष्ठत्, तावत्=तत्रान्तरे, अच्युतः=हरिः, गिरेः=पर्वतात्, तटित्वान् इव=मेघः इव, उच्चकैः=उन्नतात्, पीठात्=आसनात्, जवेन=वेगेन, उदतिष्ठत्=उत्थित आसीत्।
(तात्पर्यम्) नारदः सूर्यसदृशोऽस्ति। सः गगनात्पतति। तस्य चरणयोः भूस्पर्शात् प्रागेव श्रीकृष्णः स्वस्मात् आसनात् शीघ्रं उत्थितोऽस्ति।
अत्र शास्त्रीयकारणमस्त्येवम्–
श्लो॥”
ऊर्ध्वं प्राणा ह्युत्क्रामन्ति यूनः स्थविर आयति(आगते),
प्रत्युत्थानाभिवादाभ्यां पुनस्तान् प्रतिपद्यते॥
इति शास्त्रम्।
वयसि वा ज्ञाने वा कोऽपि वृद्धः गृहमागच्छति
चेत् युवा तं पश्यन्नेव उत्तिष्ठेत्। नो चेत् तस्य प्राणाः स्वयमेव तस्य शरीरात् बहिर्गच्छन्ति। युवा प्रत्युत्थाय अभिवादनं कुर्याद्यदि तस्य प्राणाः पुनरायान्ति तम्।
एतच्छास्त्रमनुसृतवान् श्रीकृष्णः।
पतत्पतङ्ग इत्यत्र सूर्यस्य कदापि पतनासम्भवात् सूर्यः पतन्निव नारदमुनिरस्तीति उत्प्रेक्ष्यते। अतः अत्र उत्प्रेक्षालङ्कारः। हरिः गिरेः तटित्वानिव” इत्यत्र मेघेन
हरिः उपमीयते। कृष्णस्य नीलमेघरूपत्वात् औपम्यं समुचितम्।
श्लोकः——–१३
श्लो॥ अथ प्रयत्नोन्नमितानमत्फणैः
धृते कथञ्चित्फणिनां गणैरधः।
न्यधायिषातामभिदेवकीसुतं
सुतेन धातुश्चरणौ भुवस्तले॥
पदच्छेदः–अथ, प्रयत्नोन्नमितानमत्फणैः, धृते, कथञ्चित्, फणिनां, गणैः, अधः,
न्यधायिषाताम्, अभिदेवकीसुतं, सुतेन, धातुः, चरणौ, भुवः, तले।
(पूर्वतोऽनुवर्तमानसन्दर्भः)–नारदः इन्द्रस्य दौत्यं निर्वर्तयितुं दिवः भुवमागत्य द्वारकापट्टणे श्रीकृष्णस्य
दर्शनं कृतवान्। श्रीकृष्णोऽपि प्रत्युत्थाय स्वागतं व्याहृतवान्। इतोऽनुवर्तते प्रस्तुतश्लोकांशः।
प्रतिपदार्थः-अथ=श्रीकृष्णस्य प्रत्युत्थानस्य पश्चात्, धातुः=ब्रह्मणः, सुतेन=पुत्रेण(नारदेन), प्रयत्नोन्नमिता-
नमत्फणैः; प्रयत्न=प्रयत्नेन, उन्नमित=ऊर्ध्वम् उत्थापित, आनमत्=अवनमित, फणैः=फणावद्भिः (फणाः येषां ते, तैः) फणिनां=सर्पाणां, गणैः=समूहैः, अधः=अधःप्रदेशे(नीचैः), कथञ्चित्=अतिकष्टेन, धृते=स्थापिते, भुवस्तले
=भूपृष्टे,
अभिदेवकीसुतं; देवक्याः सुतं=श्रीकृष्णम्, अभि=लक्षीकृत्य, (पुरतः),
चरणौ=पादौ, (नारदस्य), न्यधायिषाताम्=निहितौ=स्थापितौ।
(तात्पर्यम्)आगन्तुकं नारदं समीपतो दृष्ट्वा श्रीकृष्णः सिंहासनात् उत्थाय तस्मै स्वागतम् उक्तवान्। तदा नारदः स्वस्य चरणौ श्रीकृष्णाभिमुखं भूमौ निहितवान्।
विशेषाः– पाताे सर्पराट् आदिशेषः तिष्ठति। सः भूमिं फणसहस्रैः वहते। भूमेः उपरि श्रीकृष्णः अस्ति। कृष्णस्य कुक्षौ चतुर्दशभुवनान्यपि सन्ति। श्रीकृष्ण एव भारभूतः। बहु भारं वहते सर्पराट्। श्रीकृष्णस्य आसनादुत्थानेन आदिशेषस्य नम्राः फणाः ईषत् उन्नमिताः अभवन्। श्रीकृष्णेन सह आदिशेषोऽपि नारदाय
स्वागतं व्याहर्तुं स्वस्य शिरांसि उच्चैःकृतवान्। यदा नारदः भूमौ चरणौ निक्षिप्य श्रीकृष्णस्य स्वागतं स्वीकृत्य उपविष्टवान् तदा श्रीकृष्णोऽपि सिंहासने उपविष्टवान् आसीत्। एवमत्र श्रीकृष्णनारदयोः उत्थान
प्रत्युत्थानाभ्याम् नारदस्य पादन्यासभारेणापि आदिशेषस्य शिरसि फणानाम् अपि उन्नमनावनमने भवतः। अवनमनेन पुनरुन्नमनं कष्टसाध्यमपि आदिशेषः सहिष्णुरभवदित्यर्थः। अत्र सन्दर्भे अतिथिविषये उत्थानप्रत्युत्थानादिकं परम्परातः आगता भारतीयमर्यादा इति कश्चन संस्कृतिसम्बन्धी विषयोऽत्र संस्कृताध्ययनं जीवजीवातवे भवतीति निरूपयति।
अलङ्कारः–असम्बन्धेऽपि सम्बन्धोऽस्तीत्युक्तिरूप अतिशयोक्तिः अत्रास्ति। नारदस्य गौरवार्थं उत्थानप्रत्युत्थानादिकं दर्शितमत्र। आदिशेषस्य फणोन्नमनावनमनाभ्याम् सम्बन्धोऽत्र नास्तीति कारणम्।
आदिशेषस्य कथा पुराणेष्वस्ति। अतः ग्रन्थकर्तुः पौराणिकविज्ञानमपि ज्ञायते।
व्याकरणांशाः—-“न्यधायिषाताम्” इत्यत्र धातुः “धाञ्” धारणमर्थः। कर्मण्यर्थे-लुङ्। नि, उपसर्गः।
क्रियायाः रूपाणि यथा(प्र.पु)—अधायिष्ट (ए), अधायिषातां (द्वि.व), अधायिषत (ब.व)
कर्मणि प्रयोगः—धातुः सुतेन (तृ.ए.व)चरणौ (प्र.वि)न्यधायिषाताम्(निहितौ) (भूतार्थे-लुङ्-प्र.पु.द्वि.व)
छन्दः—वंशस्थं नाम वृत्तम्। लशणम्–श्लो॥“जतौ तु वंशस्थमुदीरितं जरौ”
श्लो॥ १४.
तमर्घ्यमर्घ्यादिकमादिपूरुषः, सपर्यया साधु स पर्यपूपुजत्।
गृहानुपैतुं प्रणयादभीप्सवो भवन्ति नापुण्यकृतां मनीषिणः॥
पदच्छेदः——तम्, अर्घ्यम्, अर्घ्यादिकम्, आदिपूरुषः, सपर्यया, साधु, सः, पर्यपूपुजत्, गृहान्, उपैतुम्, प्रणयात्, अभीप्सवः, भवन्ति, न,
अपुण्यकृतां, मनीषिणः।
प्रतिपदार्थः—-आदिपूरुषः= पुराणपुरुषः, सः=श्रीकृष्णः, अर्घ्यम्=पूजार्हम्, तं=नारदं, अर्घ्यादिकं=पूजार्हद्रव्यादिकं(पत्रं, पुष्पं, फलं, तोयमित्यादिकम्),
सपर्यया=पूजया, साधु=समुचितं यथा तथा, पर्यपूपुजत्=परिपूजितवान्।
मनीषिणः=सत्पुरुषाः, अपुण्यकृतां=ये पुण्यं न कुर्वन्ति तेषां, गृहान्=गेहान्, उपैतुम्=प्राप्तुम्, प्रणयात् = प्रेण्णा, अभीप्सवः=इष्टवन्तः, न भवन्ति=न सन्ति।
तात्पर्यम्——
पुराणपुरुषः श्रीकृष्णः देवर्षिं नारदं पूजाद्रव्यादिभिः विध्युक्तरीत्या सम्यक् पूजितवान्।
सत्पुरुषाः कदापि पुण्यं ये न कुर्वन्ति तेषां गृहान् प्रति गन्तुं नोत्सहन्ते।
विशेषाः———
देवर्षिः नारदः अतिथिरूपेण श्रीकृष्णं द्रष्टुमागतवान्। श्रीकृष्णोऽपि अर्घ्यपाद्यादिभिः समुचितरीत्या नारदं पूजितवान्। एषा भारतीयानाम्
परम्परागता अतिथिमर्यादा। एषोऽत्र कश्चन ज्ञातव्यांशः। किञ्च, देवर्षिः सत्पुरुषः। श्रीकृष्णोऽपि पुण्यात्मा। भक्तानां कृते बहु पुण्यकार्याणि
कृतवान् सः। सत्पुरुषाः सर्वदा सत्पुरुषाणां गृहान् प्रत्येव गच्छन्ति। नान्यत्र।
अत्र अलङ्कारोऽस्ति——तस्य नाम अर्थान्तरन्यासः। अस्मिन्नलङ्कारे सामान्य इति विशेष इति द्वौ अर्थौ भवतः। एकतरेण अन्यतरस्य समर्थनं
भवत्यत्र। सत्पुरुषेण सत्पुरुषस्य अतिथिसत्कारः सामान्यधर्मः। संस्कृतेः धर्मः आचर्यमाणो दृश्यते। एषः एकत्र विशिष्य=विशेष
रूपेण उदाहृतोऽस्ति=प्रदर्शितोऽस्ति। नारदः मनीषी=सत्पुरुषोऽत्र। सः पुण्यात्मनः श्रीकृष्णस्य गृहं गतः पूजितश्च। सामान्यतो विद्यमान
धर्मः प्रत्येकतः एकत्र कथमाचरितोऽस्तीति उदाहरणरूपेण प्रदर्श्य निरूपितोऽस्ति। एतदेव समर्थनम्।
श्लो॥ १५.
न यावदेतावुदपश्यदुत्थितौ जनस्तुषाराञ्जनपर्वताविव।
स्वहस्तदत्ते मुनिमासने मुनिश्चिरन्तनस्तावदभिन्यवीविशत्॥
पदछेदः——-न, यावत्, एतौ, उदपश्यत्, उत्थितः, जनः, तुषाराञ्जनपर्वतौ, इव,
स्वहस्तदत्ते, मुनिम्, आसने, मुनिः, चिरन्तनः, तावत्, अभिन्यवीविशत्॥
प्रतिपदार्थः—
उत्थितौ=उत्तिष्ठन्तौ, एतौ=मुनिकृष्णौ(मुनिं नारदं श्रीकृष्णञ्च), जनः=(तत्रत्य)जनसमूहः,
तुषाराञ्जनपर्वतौ इव=हिमालय, अञ्जनपर्वतौ इव, यावत् न उदपश्यत्=यावत् न उत्प्रेक्षितवान्,
तावत्=तदभ्यन्तरे, चिरन्तनः=प्राचीनः, मुनिः=श्रीकृष्णः, स्वहस्तेन=स्वकीयहस्तेन, दत्ते=प्रदत्ते,
आसने=सिंहासने, मुनिम्=मुनिं नारदम्, अभिन्यवीविशत्=स्वाभिमुखेन उपवेशितवान्॥
तात्पर्यम्——
नारदः भस्माङ्गरागेण पिशङ्गीभिः जटाभिश्च हिमालय इव दृश्यते। श्रीकृष्णस्तु नीलवर्ण-च्छायया अञ्जनपर्वत इव दृश्यते। तौ मुनिकृष्णौ यावदुत्थितौ तावत् =तत्समये=तदभ्यन्तरे
तौ मुनिकृष्णौ तत्रत्यजनानां हिमवदञ्जनपर्वतौ इव दृष्टिपथमागतौ।
विशेषाः——–भगवान् श्रीमान् नारायणः पुरा बदरिकारण्ये तपसि स्थितवान्। अतः सः मुनिरित्युच्यते। तदा
अर्जुनोऽपि “नर” इति नान्ना तेन सह आसीत्। एतौ उभौ अपि नरनारायणमुनी इति व्यवहृतौ।
तयोः नामभ्यां अद्यापि द्वौ पर्वतौ तत्र स्तः। पुराणेषु एषा कथा प्रसिद्धा अस्ति। तदा एव श्रीमन्ना
रायणः नररूपधारिणे अर्जुनाय प्रथमम् अष्टाक्षरीमन्त्रमुपदिष्टवान्। अत एव बदरीक्षेत्रस्य अष्टाक्षरी
क्षेत्रमिति च नामान्तरमस्ति। अत्र श्लोके नारदश्रीकृष्णयोः हिमवदञ्जनपर्वताभ्यां सादृश्यकथनात्
इव इति सादृश्यवाचकशब्दस्य सत्वेन च उपमालङ्कारोऽस्ति। औपम्यम् अप्रसिद्धमपि वर्णसादृ
श्यमस्ति। मुनिकृष्णौ हिमवदञ्जनपर्वतौ इव उत्प्रेक्षितौ स्तः इति भावयामश्चेत् उत्प्रेक्षा भवति।
व्याकरणांशाः–“अभिन्यवीविशत्"इत्यत्र “अभि, नि, “इति द्वौ उपसर्गौ स्तः। “विश"धातुः। “अवीविशत्"इति रूपं
लुङि प्रथमपुरुषैकवचनम्। पूर्वतनश्लोके “पर्यपूपुजत्"इत्यत्र “परि"उपसर्गः। “अपूपुजत्"इति भूत
काले लुङि रूपं प्रथमपुरुषैकवचनम्। काव्येषु एवं प्रौढानि क्रियारूपाणि दृश्यन्ते।
प्रयोगः— “यावत्—तावत्”—–यावदध्यापकः कक्ष्यां प्रविशति तावत् छात्राः उत्थाय तिष्ठन्ति=उत्तिष्ठन्ति (वा)।
लोकमर्यादा——श्रीकृष्णः स्वस्य अभिमुखमेव मुनिं नारदं सिंहासनान्तरे उपवेशितवान्।
संस्कृताध्ययनेन लोकस्य संस्कृतिः ज्ञायते। अत एवोक्तम्–“Sanskrit is “Education for life”
श्लोकः॥ १६.
महामहानीलशिलारुचः पुरो निषेदिवान् कंसकृषः स विष्टरे।
श्रितोदयाद्रेरभिसायमुच्चकै रचूचुरच्चन्द्रमसोऽभिरामताम्॥
पदच्छेदः————महामहानीलशिलारुचः, पुरः, निषेदिवान्, कंसकृषः, सः, विष्टरे,
श्रितोदयाद्रेः अभिसायम्, उच्चकैः, अचूचुरत्, चन्द्रमसः, अभिरामताम्॥
प्रतिपदार्थः——-महामहानीलशिलारुचः; महा=महत्याः, महानील=“महानील"मिति नान्न्याः, शिलायाः=
पाषाणस्य, रुचः=रुगिव रुक् यस्य=कान्तिमतः, कंसकृषः=श्रीकृष्णस्य, पुरः=अग्रे, उच्चकैः=
उन्नते, विष्टरे=आसने, सः=नारदः, अभिसायं=सायङ्कालाभिमुखं, श्रितोदयाद्रेः=उदयाद्रिम्
आश्रितस्य, चन्द्रमसः=चन्द्रस्य, अभिरामताम्=शोभां, अचूचुरत्=चोरितवान्॥
तात्पर्यम्——–नारदः श्रीकृष्णस्य पुरतः आसने उपविष्टवान्। श्रीकृष्णः महानीलरत्नमिव नीलिमया भासते।
नारदः धविन्ना सायङ्कालाभिमुखं=रात्र्य्भिमुखम् उदयाद्रौ स्थितो चन्द्र इव राजते।
विशेषाः———अलङ्कारद्वयमस्ति। १.उपमा, २.निदर्शना इति। तौ यथा——-रात्रौ समीपस्थे सति शनैश्शनैः
अन्धकारः व्याप्नोति। सोऽन्धकारः महानीलसदृशोऽस्ति। श्रीकृश्णस्य शरीरकान्तिः कृष्णः=नीलः
न सामान्यतो नीलः। स महानीलः। श्रीकृष्णस्य नीलिमा सायङ्कालाभिमुखकालत्वेन=समीपस्थ
रात्रिकालत्वेन उपमीयते। तथैव भस्माङ्गरागवतः नारदस्य धविमा चन्द्रस्य कान्त्या च
उपमीयते। उदयाद्रिरत्र आसनम्भवेत्। एवमत्र उपमानोपमेयत्वसद्भावात् उपमालङ्कारोऽस्ति।
निदर्शना तु, सदृशयोः वाक्यार्थयोः अभेदारोपेण भवति। यथा–अत्र श्लोके प्रथमवाक्यं तु, "
श्रीकृष्णः महानीलरत्नमिव कान्तिमान्=कृष्णवर्णवान्। एतत्कृष्णवर्ण एव अन्धकारोऽत्र। उभयोः
अभेदो वर्णितः। एवं नारदः भस्माङ्गरागेण पिशङ्गीभिर्जटाभिश्च चन्द्र एवेति निर्णीयते।
चन्द्रकान्तिं चोरितवानिति कथनेन नारदस्य कान्त्यतिशयो कथ्यते। नारदचन्द्रसम्बन्धिकान्त्यो
रुभयोरपि अभेदकथनात् निदर्शना। अत्र श्लोके एवं वाक्यार्थौ द्वौ। तयोःअभेदारोपोऽस्ति।
अत्र अलङ्कारद्वयस्य सत्वात् अङ्गाण्ग्गीभावेन सङ्कर इति कथ्यते।
किञ्च, चन्द्रे स्थिता अभिरामता नारदे न सम्भवति। अतः चन्द्रस्य अभिरामतासदृशी अभिरामता
इति ज्ञेयम्भवति। एवं श्रीकृष्णस्य कान्तिविषयेऽपि महानीलसदृशकान्तिरिति ज्ञेयम्। अपि च
अन्धकारस्य श्रीकृष्णस्य वर्णेन सम्बन्धो नास्ति। तथा नारदस्य कान्तिविषयेऽपि चन्द्रकान्त्या
सम्बन्धो नास्ति। अतः असम्भवद्वस्तुसम्बन्धरूपो निदर्शनाभेद इति च वदन्तीममलङ्कारम्।
अचूचुरत्——-चुर–स्तेये, इति चुर धातुरत्र। चौर्यमर्थःधातोः। “लुङ्"रूपमिदम्। परमैपदधातुः। लट्–चोरयति, लिट्
चोरयामास, लुट्–चोरयिता, लृट्–चोरयिष्यति। लोट्–चोरयतु, चोरयतात्, लङ्—अचोरयत्,
विधिलिङ्—चोरयेत्, आशीर्लिङ्—-चौर्यात्, लुङ्—अचूचुरत्, लृङ्—अचोरयिष्यत्।
शास्त्रीयांशाः—-महानीलानां लभ्यमानस्थलानि—–सिंहदेशे लभ्यन्ते—-“सिंहस्याकरोद्भूता महानीलास्तु ते
स्मृताः” इति भगवान् अगस्त्यः। अगस्त्यस्य नान्ना काचित्संहिता अगस्त्यसंहिता इति प्रसिद्धा
अस्ति। प्राचीना ऋषय एव शास्त्रज्ञाः।
श्लोकः॥ १७.
विधाय तस्यापचितिं प्रदेदुषः प्रकाममप्रीयत यज्वनां प्रियः।
ग्रहीतुमार्यान्परिचर्यया मुहुर्महानुभावा हि नितान्तमर्थिनः॥
पदच्छेदः———–
विधाय, तस्य, अपचितिं, प्रसेदुषः, प्रकामम्, अप्रीयत, यज्वनां, प्रियः,
ग्रहीतुम्, आर्यान्, परिचर्यया, मुहुः, महानुभावाः, हि, नितान्तम्, अर्थिनः।
प्रतिपदार्थः———यज्वनां=याजकानां=यागकर्तॄणां, प्रियः=हितैषी, (श्रीकृष्णः), प्रसेदुषः=प्रसन्नस्य, तस्य=मुनेः
नारदस्य, अपचितिं=पूजां, विधाय=कृत्वा, प्रकामम्=अतीव, अप्रीयत=प्रीतोऽभवत्।
महानुभावाः=महात्मानः, आर्यान्=पूज्यान्, परिचर्यया=सेवया, मुहुः=पुनः, ग्रहीतुम्=वशीकर्तुम्,
अर्थिनःहि=अर्थिनो हि=अभिलाषवन्तो हि (भवन्ति)।
तात्पर्यम्———–ये यज्ञं कुर्वन्ति ते श्रीकृष्णस्य प्रियतमा भवन्ति। “यज्ञो वै विष्णुः” इति वेदो वदति। यज्ञस्य फलप्रदाता विष्णुरेव। स एव श्रीकृष्णोऽत्र। सः प्रसन्नचित्तं नारदं संपूज्य तृप्तोऽस्ति। जगति महात्मानः आर्यान् परिचर्यया=पूजया सेवितुमभिलषन्तीति सामान्यतो लोके परि दृश्यमानो =अनुभूयमानो विषयः।
एतदर्थं “श्रीकृष्णः नारदं संपूजितवा” नित्यर्थान्तरम् एकत्र उदाहरणं दर्शयित्वा समर्थयति। एवमर्थोऽर्थान्तरेण समर्थितश्चेत् अर्थान्तरन्यासो नाम अलङ्कारो भवति। किञ्च, प्रसन्नचित्ताय कृता पूजा एव प्रीतिं जनयतीति सत्यमेकं विदितं भवत्यत्र। अत्र नारदः प्रसन्नचित्तोऽस्ति। अत एव तस्मै कृता पूजा श्रीकृष्णं प्रीणयति। “तद्विद्धि प्रणिपातेन परिप्रश्नेन सेवया” इत्यपि वेदोक्तिरस्त्येव। अतिथिपूजाविषये ज्ञातव्यांश एकोऽस्त्यत्रेति ज्ञेयम्भवति।
प्रसन्नचित्ताय कृता पूजैव प्रीणने शक्ता भवतीति ज्ञायते।
श्लो॥ १८.
अशेषतीर्थोपहृताः कमण्डलोर्निधाय पाणावृषिणाऽभ्युदीरिताः।
अघौघविध्वंसविधौ पटीयसीर्नतेन मूर्ध्ना हरिरग्रहीदपः॥
पदच्छेदः——
अशेषतीर्थोपहृताः, कमण्डलोः, निधाय, पाणौ, ऋषिणा, अभ्युदीरिताः,
अघौघविध्वंसविधौ, पटीयसीः, नतेन, मूर्ध्ना, हरिः, अग्रहीत्, अपः॥
प्रतिपदार्थः—
अशेषतीर्थोपहृताः; अशेष=समस्त, तीर्थ=पुण्यनदीभ्यः, उपहृताः=आनीताः, कमण्डलोः=उदकपात्रात्,
(उद्धृत्य), पाणौ=हस्ते, निधाय=निक्षिप्य, ऋषिणा=नारदेन, अभ्युदीरिताः=मन्त्रिताः, अघौघविध्वंसविधौ; अघ=
पापानां, ओघ=समूहस्य, विध्वंसविधौ=विनाशनकृत्ये, पटीयसीः=समर्थतराः, अपः=जलानि, नतेन=विनम्रेन,
मूर्ध्ना=शिरसा, हरिः=हरेः अवताररूपी श्रीकृष्णः, अग्रहीत्=स्वीकृतवान्।
तात्पर्यम्–नारदः समस्तपुण्यतीर्थेभ्यः जलानि स्वेन कमण्ड्लुना आनीतवान्। तानि जलानि समस्तपापानि
विनाशयितुं समर्थानि। तानि जलानि स्वकीयकमण्दलादुद्धृत्य पाणिना तान्यभिमन्त्र्य श्रीकृष्णस्य शिरसि
प्रोक्षितवान्। सोऽपि नतेन शिरसा तानि गृहीतवान्।
विशेषाः——नतशिरस्केन श्रीकृष्णेन मन्त्रपूतजलस्वीकारः तस्य नम्रतां सूचयति। पुण्यनदीतीर्थोदकानि
अतीव पावनानीति च ज्ञायते। अनेकेषां ऋषीणां स्नानेन नदीजलानि पावनानि भवन्ति। न केवलं ऋषीणां स्नानेन। पुण्यात्मनां स्नानैश्च। प्रत्युत, तानि जलानि ऋषिणा अभिमन्त्रितानि च। अतः जलानामत्र पावनत्व
मधिकं वर्तते। पुण्यनदीजलानां पापप्रक्षानशक्तिरस्तीति ज्ञेयमत्र।
श्लो॥ १९.
स काञ्चने यत्र मुनेरनुज्ञया नवाम्बुदश्यामवपुर्न्यविक्षत।
जिगाय जम्बूजनितश्रियः श्रियं सुमेरुश्रुङ्गस्य तदा तदासनम्॥
पदच्छेदः—
सः, काञ्चने, यत्र, मुनेः, अनुज्ञया, नवाम्बुदश्यामवपुः, न्यविक्षत।
जिगाय, जम्बूजनितश्रियः, श्रियं, सुमेरुश्रुङ्गस्य, तदा, तदासनम्॥
प्रतिपदार्थः—-
नवाम्बुदश्यामवपुः; नव=नूतन, अम्बुद=मेघ इव, श्याम=नीलवर्णरञ्जित, वपुः=शरीरवान्, सः=श्रीकृष्णः,
मुनेः=नारदस्य, अनुज्ञया=आज्ञया, काञ्चने=स्वर्णमये, यत्र=आसने, न्यविक्षत=उपविष्टवान्, तत् आसनं=तत्
सिंहासनं, तदा=तत्समये=श्रीकृष्णस्य उपवेशनसमये, जम्बूजनितश्रियः; जम्बू=जम्बूफलैः, जनित=उद्भूत, श्रियः=
श्रीरिव श्रीः यस्य (शोभावतः), सुमेरुश्रुङ्गस्य; सुमेरु=मेरुपर्वतस्य, श्रुङ्गस्य=शिखरस्य, श्रियं=शोभां, जिगाय=
अजयत्=जितवान्=जितवत्।
तात्पर्यम्——
श्रीकृष्णस्य शरीरं नीलमेघ इव श्यामवर्णेन रञ्जितमस्ति। सः नारदस्य अनुज्ञया सुवर्णसिंहासने उपविष्टवान्।
तदा तद्दृश्यं मेरुपर्वतशिखरस्य शोभामतिशेते। इति। “मेरुः सुमेरुः हेमाद्रिः” इति अमरनिघण्टौ मेरुः सुवर्णमयो पर्वत इति प्रसिद्धिः। श्रीकृष्णस्य सिंहासनमपि सुवर्णमयम्। इदं मेरोः शिखरमिव दृश्यते। मेरुपर्वतस्य शिखरे
जम्बूफलानि सन्ति। तानि श्यामानि=नीलानि=नीलवर्णरञ्जितानि। श्रीकृष्णस्य शरीरमपि श्यामं=नीलं भवति।
अत्र श्रीकृष्णशरीरस्य श्यामवर्णेन रञ्जितं तस्य सुवर्णसिंहासनं जम्बूफलरञ्जित सुवर्णाद्रेः=मेरोः शिखरमिव शोभत इति कथनेन अत्र उपमालङ्कारोऽस्ति। मेरुपर्वतशिखरस्य शोभां जिगाय इति कथनेन श्रीकृष्णेन सहितं
सिंहासनं मेरोश्शिखरादपि शोभायामतिशेते-इत्यर्थः।
अनुप्रासनामक शब्दालङ्कारोऽप्यस्ति। यथा—अत्र श्लोके
“जिगाय, जम्बू, जनित"इति पदेषु, जवर्णः पदे पदे आगतोऽस्ति। एवं श्रियः श्रियमित्यत्र, श्रुङ्गस्य, इत्यत्र शवर्णस्य
पदे पदे आवृत्तिर्भवति। एवं नवर्णस्याप्यस्ति। अतः वृत्त्यनुप्रासो नामा
शब्दालङ्कारः।
व्याकरणांशाः—-
“न्यविक्षत” इत्यत्र"नि"उपसर्गः। “विश"धातुः, प्रवेशनमर्थः। “लुङ्”। “न्यविक्षत’। नि+अविशत।
उभयपदी। विशति-परस्मैपदी, “विशते"आत्मनेपदी। लट्, प्र.पु.ए.व.।
श्लोकः॥ २०.
स तप्तकार्तस्वरभास्वराम्बरः कठोरताराधिपलाञ्छनच्छविः।
विदिद्युते बाडबजातवेदसः शिखाभिराश्लिष्ट इवाम्भसां निधिः॥
पदच्छेदः—–
सः, तप्तकार्तस्वरभास्वराम्बरः, कठोरताराधिपलाञ्छनच्छविः, विदिद्युते, बाडबजातवेदसः, शिखाभिः, आश्लिष्टः, इव,
अम्भसां, निधिः॥
प्रतिपदार्थः—
तप्तकार्तस्वरभास्वराम्बरः; तप्त=अग्निना तप्त=पुटपाकशोधित, कार्तस्वर=सुवर्णमिव, भास्वर=प्रकाशमान,
अम्बरः=अम्बरं यस्य तादृशः=पीताम्बरः, कठोरताराधिपलाञ्छनच्छविः; कठोर=सम्पूर्ण, ताराधिप=चन्द्रस्य,
लाञ्छन=चिह्नस्य, छविः=कानिरिव कान्तिः यस्य तादृशकान्तिमान्, सः=श्रीकृष्णः, बाडबजातवेदसः=बडबा
नान्नः अग्नेः(बडबाग्नेः), शिखाभिः=ज्वालाभिः, आश्लिष्टः=आलिङ्गितः=व्याप्तः, अम्भसां निधिः इव=समुद्र इव
विदिद्युते=बभौ=प्रकाशितवान्॥
तात्पर्यम्——-
श्रीकृष्णेन धारितं वस्त्रं स्वर्णस्य कान्त्या पीतं भासते। (पीताम्बरः)चन्द्रस्य लाञ्छनमिव श्रीकृष्णस्य वक्षसि एकं
चिह्नमस्ति। तदेव श्रीवय्त्स इत्युच्यते। (श्रीवत्सलाञ्छनः)एवंगुणविशिष्टः श्रीकृष्णः बडबाग्निज्वालाभिः परिव्याप्तो समुद्र इव प्रकाशते।
विशेषाः—–
अत्र उपमालङ्कारोऽस्ति। वस्त्रस्य कान्तिः पुटपाकशोधितसुवर्णस्य कान्त्या श्रीवत्सस्य कान्तिः चन्द्रस्य लाञ्छनस्य कान्त्या, भासमानत्वात् औपम्यं दृश्यते। श्रीकृष्णोऽत्र बडबाग्निज्वालाभिः व्याप्तेन समुद्रेणापि
उपमीयते। एवं बहुत्र उपमा दृश्यतेऽत्र।
चारित्रकांशाः—–
समुद्रे स्थितोऽग्निः बडबाग्निरित्युच्यते। तेनैव नियन्त्रितो समुद्रः वेलां नातिक्रामति।
चन्द्रः हरिणलाञ्छनः। श्रीकृष्णः श्रीवत्सलाञ्छनः। “समुद्र इव गाम्भीर्ये” श्रीरामोऽस्तीति वाल्मीकिः वक्ति।
श्रीकृष्णस्य समुद्रेण औपम्ये गाम्भीर्यमेव कारणमिव भाति। चन्द्रस्य “कठोर"इति विशेषणमस्त्यत्र। “कठोर”
इत्यस्य “क्लेशेन जीवती"त्यर्थो ऽमरकोशे दृश्यते। राहुकेतुभ्यां चन्द्रस्य क्लेशो भवत्येव। “कठोर"इत्यस्य “पूर्णत्व"मत्र विवक्ष्यते। पूर्णचन्द्रोऽपि न केवलं राहुकेतुभ्यां विरहिजनैरपि क्लिश्यते। अतः कविना प्रयुक्तं “कठोर”
पदं सार्धकम्भवतीत्यभिप्रायः। कृतस्वर नान्ना खनिरस्ति। तत्रोत्पद्यमानत्वात् सुवर्णस्य कार्तस्वर इति नामास्ति। कार्तस्वरम् पुटपाकशोधितमिति कथनेन स्वर्णकारवृत्तिः पुरा वर्ततेति ज्ञायते। चन्द्रः ताराणामधिपश्च।
व्याकरणांशः—-
विदिद्युते——“वि” उपसर्गः। “द्युत” धातुः। दीप्तिरर्थः। विशेषेण दिद्युते=विदिद्युते। लिट्।
लट्—द्योतते, लिट्–दिद्युते, लुट्—द्योतिता, लृट्-द्योतिष्यते, लोट्–द्योततां, लङ्–अद्योतत, विधिलिङ्–द्योतेत, आशीर्लिङ्—द्योतिषीष्ट, लुङ्—अद्योतत्, अद्योतिष्ट, लृङ्—अद्योतिष्यत। (प्र.पु.ए.व.)
श्लोकः॥ २१.
रथाङ्गपाणेः पटलेन रोचिषामृषित्विषः संवलिता विरेजिरे।
चलत्पलाशान्तरगोचरास्तरोस्तुषारमूर्तेरिव नक्तमंशवः॥
पदच्छेदः—–
रथाङ्गपाणेः, पटलेन, रोचिषाम्, ऋषित्विषः, संवलिताः, विरेजिरे, चलत्पलाशान्तरगोचराः, तरोः, तुषारमूर्तेः, इव,
नक्तम्, अंशवः।
प्रतिपदार्थः—-
रथाङ्गपाणेः; रथाङ्गं नाम चक्रम्। तत् पाणौ=हस्ते, यस्य तस्य=श्रीकृष्णस्य, रोचिषां=तेजसां, पटलेन=समूहेन,
संवलिताः=मििताः, ऋषित्विषः=ऋषेः नारदस्य, त्विषः=तेजांसि, नक्तं=रात्रौ, तरोः=वृक्षस्य, चलत्पलाशान्तर
गोचराः; चलत्=चलतां, पलाश=पत्राणाम्, आन्तर=मध्ये=गोचराः=दृश्यमानाः, तुषारमूर्तेः; तुषारः=हिमं, मूर्तिः=
शरीरं यस्य, तस्य=चन्द्रस्य, अंशवः इव = किरणानि इव, विरेजिरे=चकासिरे।
तात्पर्यम्—— श्रीकृष्णस्य तेजांसि नारदस्य तेजोभिः मिितानि सन्ति। तानि रात्रौ वृक्षस्य पर्णमध्येषु इतस्ततश्चलितचन्द्रकिरणानीव दृश्यन्ते।
विशेषाः—
उत्प्रेक्षालङ्कारोऽस्त्यत्र। ।श्रीकृष्णनारदयोः मिथः सम्मिितानि तेजांसि रात्रौ वृक्षपर्णमध्ये विराजमानानि- चन्द्रकिरणानीव ऊह्यन्ते। संवलितानि तेजांसि वृक्षपर्णमध्ये पतितानि चन्द्रकिरणानीव सम्भाव्यन्ते। उपमेयस्य
उपमानत्वेन सम्भावनमत्रास्ति। औपम्यमूलकेषु उत्प्रेक्षापि अन्यतमा। “इव"पदस्य सत्वेन औपम्यं भासते एव।
परन्तु, तावता उपमा न भवितुमर्हति। वृक्षपर्णमध्ये दृश्यमान चन्द्रकिरणधर्मः नारदश्रीकृष्णतेजसोः सम्भाव्यते।
विराजिरे—-
“राजृ” धातुः। दीप्तिरर्थः। उभयपदी। “राजति, राजते च” प्र.पु.ए.व। लिट्–आत्मनेपदी–रेजे-रेजाते-रेजिरे
(विरेजिरे=विशेषेण रेजिरे) कवेः प्रकृतिपरिशीलनादृष्टिरत्र व्यज्यते।
श्लो॥ २२
प्रफुल्लतापिञ्छनिभैरभीशुभिः शुभैश्च सप्तच्छदपांशुपाण्डुभिः।
परस्परेण च्छुरितामलच्छवी तदेकवर्णाविव तौ बभूवतुः॥
पदच्छेदः——-
प्रफुल्लतापिञ्छनिभैः, अभीशुभिः, शुभैः, च, सप्तच्छदपांशुपाण्डुभिः, परस्परेण, छुरितामलच्छवी, तदेकवर्णौ, इव,
तौ, बभूवतुः।
प्रतिपदार्थः—— प्रफुल्लतापिञ्छनिभैः; प्रफुल्ल= विकसित, तापिञ्छ=तमालपुष्पेण, निभैः=समानैः, सप्तच्छदपांशुपाण्डुभिः; सप्तच्छद=सप्तपर्णवृक्षस्य, पांशु=परागवत्, पाण्डुभिः=धवैः, शुभ्रैः च=श्वेतैश्च, ,अभीशुभिः=कान्तिभिः, परस्परेण=मिथः, छुरितामलच्छवी; छुरित=रूषित=मिश्रित, अमल=निर्मल, छवी=छविः=कान्तिः ययोः=कान्ति मन्तौ, तौ=श्रीकृष्णनारदौ, तदा=तस्मिन् समये=उभयोः मेनसमये, एकवर्णौ इव=एकवर्णेन सहितौ इव, बभूवतुः=आस्ताम्।
तात्पर्यम्——
तमालपुष्पस्य वर्णः नीलः। श्रीकृष्णोऽपि मेघ इव श्यामः। अर्थात् तमालपुष्पस्य वर्ण इव नीलः। सप्तच्छदो नामा
सप्तपर्णकदीवृक्षः। तस्य पर्णेषु परागो भवति। परागः धवो भवति। भस्माङ्गरागेण नारदोऽपि श्वेतोऽस्ति।
यदा श्रीकृष्णनारदौ मिितौ स्तः तदा उभयोः वर्णौ नीलश्वेतावपि मिथः मेनेन एकवर्णाविव गङ्गायमुने इव दृश्येते।
अलङ्कारस्तु उत्प्रेक्षा। नारदश्रीकृष्णौ एकत्र मेनेन तयोः श्वेतनीलवर्णौ मिित्वा एकेन वर्णेन गङ्गायमुने इव
सम्भाव्येते। उपमानभूतयोः गङ्गायमुनयोः श्वेतत्वनीलत्वरूपधर्मद्वयस्य उपमेयभूतयोः नारदकृष्णयोः सम्बावनेन उत्प्रेक्षालङ्कारः। उपमानधर्मस्य उपमेये दृश्यमानत्वात् उपमेयं उपमानमिव यत्र ऊह्यते=सम्भाव्यते, तत्र उत्प्रेक्षेति बोद्धव्यम्।
श्लोकः॥ २३.———-
युगान्तकालप्रतिसंहृतात्मनो जगन्ति यस्यां सविकासमासन्।
तनौ ममुस्तत्र न कैटभद्विषः तपोधनाभ्यागमसम्भवा मुदः॥
पदच्छेदः—-
युगान्तकालप्रतिसंहृतात्मनः, जगन्ति, यस्यां, सविकासम्, आसन्, तनौ, ममुः, तत्र, न, कैटभद्विषः,
तपोधनाभ्यागमसम्भवाः, मुदः।
प्रतिपदार्थः–
युगान्तकालप्रतिसंहृतात्मनः; युगान्तकाले=प्रयकाले, प्रतिसंहृतात्मनः=आत्मनि उपसंहृताः
आत्मानः=जीवाः येन (सः) तस्य=जीवानाम् उपसंहरणं=लयं, स्वस्मिन् कृतवतः, कैटभद्विषः=हरेः
(श्रीकृष्णस्य), यस्यां तनौ=यस्मिन् शरीरे, जगन्ति=लोकाः, सविकासम्=विकासेन सह, आसन्=
अतिष्ठन्, तत्र=तस्मिन् शरीरे, तपोधनाभ्यागमसम्भवाः; तपोधन=मुनेः नारदस्य, अभ्यागम=
आगमनेन, सम्भवाः=जनिताः, मुदः=सन्तोषाः, न ममुः=न तौल्यम् अवहन्=न सदृशाः=अतिरि-
च्यन्ते स्म।
तात्पर्यम्—-
श्रीकृष्णः हरेः अवतारः। तस्य उदरकुहरे सर्वे जीवाः प्रयकाले सविकासं=सानन्दं तिष्ठन्ति। तैः जीवैः सोऽपि (हरिः=कृष्णः) आनन्दितो भवति। परन्तु, स आनन्दः नारदागमनजनितानन्देन तुल्यो न भवति। नारदस्य आगमनमेव श्रीकृष्णाय अधिकां तृप्तिं ददातीत्यर्थः। अर्थात्—चतुर्दश
भुवनस्थजीवान् स्वस्य उदरकुहरे धारयन्नपि सः श्रीकृष्णः तृप्तिं न प्राप्नोतीति, नारदागमनेन
ततोऽप्यधिकां तृप्तिं प्राप्नोतीत्यर्थः।
विशेषाः—-
सन्तोषः(मुत्) अन्तस्सम्बन्धी विषयः। प्रयकाले चतुर्दशभुवनस्थजीवानां स्वोदरकुहरे रक्षणेन
तुष्यति श्रीकृष्णः। अत्र रक्षणविषयकसम्बन्धोऽस्ति श्रीकृष्णस्य सन्तोषाय। नारदविषये तादृश
सम्बन्धो नास्ति। तथापि नारदागमनेनैव तस्य ततोऽप्यधिकः सन्तोषो भवतीति कथनेन अत्र
सम्बन्धाभावेऽपि सम्बन्धकथनरूपा अतिशयोक्तिरलङ्कारः।
किञ्चात्र शास्त्रीयविषयः कश्चन अस्ति। श्रीकृष्णः कैटभद्विट् (कैटभद्विषः–इति श्रीकृष्णस्य विशेषणेन) इति
कथितम्। अतः श्रीमन्नारायणस्य अवतार एव श्रीकृष्ण इति ज्ञायते। श्रीमान् नारायणः प्रयकाले चतुर्दश
भुवनस्थजीवान् स्वोदरकुहरे निक्षिप्य सृष्ट्यारन्भे पुनस्तान् जीवान् भूम्यां विसृजति। “तोयेन जीवान् व्यससर्ज भूम्याम्” इति उपनिषत्सूक्तिरत्र प्रमाणम्। मार्कण्डेयेन ऋषिणा धर्मराजाय कथनमपि प्रमाणान्तरम्।
मार्कण्डेयः चिरञ्जीवी खलु। चिर्ञ्जीवी मार्कण्डेयः प्रये श्रीमन्नारायणस्य उदरकुहरे निवसति। पृष्टोऽयं धर्मराजेन “प्रये कुत्र तिष्ठति भवा"निति प्रश्नस्य “नारायणस्य उदरे स्थितोऽस्मी"त्युत्तरं दत्तवान्।
एवमत्र स्थितेन प्रसङ्गेन जीवात्मानः नित्या इति, परमात्मा अस्तीति, शरीराणि अनित्यानीति तत्त्वत्रयं ज्ञाप्यते। सृष्टिस्थितिलयकर्ता श्रीमान् नारायण एवेति च ज्ञायते श्लोकार्थेनात्र। कैटभो नामा राक्षसः। तस्य संहर्ता
श्रीकृष्णः। सः कैटभद्विट्-इत्युच्यते। द्विट् नाम शत्रुरित्यर्थः।
व्याकरणांशः—–
ममुः—“मा” धातुः। मानमर्थः। मानं नाम “तोलनम्”। लट्–माति, लिट्(भूतकालः)-ममौ,
लुट्–माता, लृट्–मास्यति, लोट्–मातु, लङ्–अमात्, विधिलिङ्–मायात्, आशीर्लिङ्—-मेयात्, लुङ्–अमासीत्,
लृङ्—अमास्यत्। (प्र.पु.ए.व)
श्लो॥ २४.
निदाघधामानमिवातिदीधितिं मुदा विकासं मुनिमभ्युपेयुषी।
विलोचने बिभ्रदधिश्रितश्रिणी सपुण्डरीकाक्ष इति स्फुटोऽभवत्॥
पदच्छेदः—निदाघधामानम्, इव, अतिदीधितिं, मुदा, विकासं, मुनिम्, अभ्युपेयुषी, विलोचने, बिभ्रत्, अधिश्रितश्रिणी, सः, पुण्डरीकाक्षः, इति, स्फुटः, अभवत्॥
प्रतिपदार्थः—- निदाघधामानम् इव; निदाघ=उष्णं, धाम=स्थानं (यस्य सूर्यस्येति भावः) सः-सूर्यः, तम् इव=सूर्यमिव, अतिदीधितिं; अति=अत्यन्तं, दीधितिं=कान्तिमन्तं, मुनिं=नारदं, अभि=लक्षीकृत्य, मुदा=सन्तोषेण, विकासं=विकसनं=सन्तोषं=आनन्दं, उपेयुषी=उपगते=प्राप्ते, (प्राप्य स्थिते), अधिश्रितश्रिणी; अधिश्रिता=प्राप्ता, श्रीः=लक्ष्मीः=शोभा=कान्तिः (याभ्यां–लोचनाभ्यामित्यर्थः–ते=तथोके), विलोचने=नेत्रे, (नेत्रद्वयं), बिभ्रत्=धारयन्=वहन्, सः=हरिः, (कृष्णः), पुण्डरीकाक्षः इति=पुण्डरीकाक्ष इति नामा=पद्मलोचन इति नामा, स्फुटः अभवत्=विदितोऽभवत्।
तात्पर्यम्—–
सूर्य इव नारदमुनिः अधिकेन तेजसा प्रकाशते। तं श्रीकृष्णः स्वस्य नेत्रे विशाले कृत्वा सानन्दं द्रुष्टवान्। अत्रेदमवधेयम्—हरिरेव श्रीकृष्णोऽत्र। हरेः पुण्डरीकाक्ष इति नाम अस्ति। तन्नाम कथमन्वर्थं जातमिति
कथ्यतेऽत्र। श्रीकृष्णोऽत्र नारदं नेत्रे विशाले कृत्वा पश्यति। नारदः उष्णरश्मिरिवास्ति=सूर्य इवास्ति। उष्णरश्मौ
औष्ण्यमस्ति खलु। तेन औष्ण्येन श्रीकृष्णे नारदं पश्यति सति तस्य नेत्रे तदेकदीक्षया दर्शनकारणेन अरुणे जाते।
पुण्डरीकं नाम पद्मम्। पद्मं यदा सूर्य आगत इति विकसत्यानन्देन तदा तत्पद्मम् अरुणितं=रञ्जितं =रक्तं भवति।
एषा रक्तिमा अनुरागस्य चिह्नमपि भवति। अत्रैवं ज्ञेयम्भवति। श्रीकृष्णस्य नारदसूर्यदर्शनेन पुण्डरीकाक्षत्वमन्वर्थं
जातमिति।
विशेषाः—
नारदः सूर्य इवास्तीति कथनेन उपमालङ्कारः। श्रीकृष्णस्य नेत्रे अपि पुण्डरीकेण उपमिते। किञ्चात्र
काव्यलिङ्गोऽप्यलङ्कारः। यथा—पद्मं सूर्योदयेन विकसितम्भवति। एष विकासः तस्य पद्मस्य आनन्दः। पद्मे
सहजतया श्रीरस्ति=शोभा=कान्तिरस्ति। एवं श्रीकृष्णस्य नेत्रयोरपि सहजतया पद्मे इव् श्रीरस्ति। सा श्रीः=कान्तिः
उभयत्र सूर्यदर्शनेन पद्मे रञ्जिता यथा भवति तथा नारदमुनिदर्शनेन श्रीकृष्णस्य नेत्रगतश्रीरपि रञ्जिता सती
श्रीकृष्णः पुण्डरीकाक्ष इति अन्वर्थो भवितुमर्हतां सम्पादयति।
काव्यलिङ्गस्य समन्वय एवम्भवति—–
“मुदा विकासप्राप्तिरभवदिह” विकासस्य मुत्=सन्तोषः कारणम् भवति।
सूर्यः पद्मे सन्तोषं जनयति। तेन सन्तोषेण पद्मं विकसितम्भवति। नारदोऽपि श्रीकृष्णे सन्तोषं जनयति। तेन तस्य
नेत्रे विकसिते स्तः। विकास एव श्रीः। विकास इति पदार्थस्य सन्तोष इति पदार्थः कारणम्भवत्यत्र। पद्मस्य वा
श्रीकृष्णस्य वा विकासस्य उभयत्र सन्तोषोऽस्तीत्यनेन हेतुना समर्थनं द्रुश्यतेऽत्र। पदार्थद्वयमेवमस्त्यत्र। एकेन
अन्यस्य समर्थनमप्यस्ति। अतः काव्यलिङ्गमलङ्कारः। समर्थनीयस्य पदार्थस्य पदार्थान्तरेण समर्थनं काव्यलिङ्गमित्युच्यते। एवं वाक्यार्थस्य वाक्यान्तरेणापि भवति। अलङ्कारद्वयेनात्र अङ्गाङ्गीभावेन सङ्कर
इति वदन्ति। अङ्गि प्रधानं काव्यलिङ्गम्। तस्य अङ्गत्वेन उपमा भविता। व्रुत्त्यनुप्रासोऽप्यस्ति। “उपमा कािदासस्य भारवेरर्थगौरवं, दण्डिनः पदलालित्यं माघे सन्ति त्रयो गुणा"इत्याभाणकस्याप्युदाहरणं भवितुमर्हत्येष श्लोक इति भावये। औपम्यमस्ति। पुण्डरीकाक्ष इत्यत्र अर्थगौरवं भाति। कानिचित्पदानि ललितान्यपि सन्ति।
श्लोकः॥ २५.
सितं सितिन्ना सुतरां मुनेर्वपुर्विसारिभिः सौधमिवाथ लम्भयन्।
द्विजाविव्याजनिशाकरांशुभिः शुचिस्मितां वाचमवोचदच्युतः॥
पदच्छेदः—–
सितं, सितिन्ना, सुतरां, मुनेः, वपुः, विसारिभिः, सौधम्, इव, लम्भयन्, द्विजावीव्याजनिशाकरांशुभिः,
शुचिस्मितां, वाचम्, अवोचत्, अच्युतः॥
प्रतिपदार्थः—-
अथ=उभयोः(श्रीकृष्णनारदयोः)उपवेशनानन्तरं, अच्युतः=श्रीकृष्णः, विसारिभिः=विशेषेण प्रसरद्भिः,
द्विजाविव्याजनिशाकरांशुभिः; द्विज=दन्तानां, (दन्त, विप्र, अण्डजाः–द्विजा इत्युच्यन्तेऽत्यमरनिघण्टौ), आवि=
पङ्क्तिरेव, व्याज=व्याजीकृत, निशाकर=चन्द्रस्य, अंशुभिः=किरणैः=कान्तिभिः, सितं=धवितं, मुनेः=नारदस्य वपुः=शरीरं, सौधमिव=प्रासादमिव, सितिन्ना=धाव्येन, लम्भयन्, =व्यापारयन्=धवितं कारयन्, शुचिस्मितां=
शुभ्रहासयुतां, वाचं=गिरं=वाणीं, अवोचत्=उवाच=उक्तवान्।
तात्पर्यम्——
श्रीकृष्णनारदौ उपविष्टौ स्तः स्वे स्वे आसने। तदा नारदं प्रत्युवाच श्रीकृष्णः मन्दस्मितपूर्वकम्।
तत्समये तौ (श्रीकृष्णनारदौ) कथम्भूतौ स्तः इति वर्ण्यतेऽत्र। धवशरीरी नारदः सौधमिव, श्रीकृष्णस्य दन्तावी
चन्द्र इव वर्ण्येते। चन्द्रस्य कान्तिः सौधोपरि पतति चेत् सौधम् अतीव धवितम्भवति। श्रीकृष्णः स्वेन शुभ्रस्मितेन स्वस्य दन्ताव्याः कान्तिं नारदस्य उपरि प्रसारयति। एतद्द्रुश्यं सौधं सुधया लेपयति कश्चिदिति
ज्ञापयति।
विशेषाः—
द्विजशब्दस्य दन्त इति चन्द्र इति च अर्धद्वयमस्ति। दन्ताविरत्र दन्तपङ्क्ति र्न भबति, किन्तु, सा चन्द्र एवेति निश्चीयते। दन्ताव्यां दन्तत्वम् अपह्नुत्य (आच्छाद्य) चन्द्रत्वम् आरोप्यते। अत्र उपमेयम् दन्तावी।
उपमेयधर्मः दन्तत्वं तत्र निषिद्ध्यते। उपमानम् चन्द्रः। अस्य धर्मः चन्द्रत्वं उपमेये दन्ताव्याम् आरोप्यते।
दन्तपङ्क्तिरत्र वर्णनीयो विषयः। एष एव प्रकृतमिति, उपमेयमिति च उच्यते। चन्द्रस्तु, उपमानमिति, अप्रकृतमिति
च कथ्यते। उपमेयधर्मनिषेधः उपमानधर्मारोपः यत्र द्रुश्येते तत्र शुद्धापह्नुत्यलङ्कारो भवति।
नारदः, शरीरधाव्यरूपधर्मेण सौधमिव(सुधालिप्तो प्रासाद इव) उपमितोऽस्ति। अतः उपमाप्यस्ति।
असम्बन्धरूपातिशयोक्तिरप्यस्ति। यथा—श्रीकृष्णस्य दन्तपङ्क्तिकान्तिः शुचिस्मितञ्च नारदरूपप्रासादे सुधां
लेपयित्वा अतीव तद्धवितं कारयतीतुक्तिः अतिशयोक्तिर्भवति। सुधालेपनं चेतनधर्मः। स्मितस्य वा दन्तपङ्क्तेर्वा
नारदस्य धवीकरणे सम्बन्धो नास्ति। असम्बन्धेऽपि सम्बन्धो वर्णितः।
एवमत्र अलङ्कारत्रयमस्ति। त्रयाणां प्रत्येकतः व्यक्तित्वसद्भावेन तिलतण्डुलवत् संस्रुष्टिरिति वदन्ति। किञ्चात्र,
अनेकेषां वर्णानामाव्रुत्त्या व्रुत्त्यनुप्रासरूपो शब्दालङ्कारोऽप्यस्ति। यथा—सितं सितिन्ना, सुतरामित्यत्र, विसारिभिः
सौधमिवेत्यत्र, द्विजाविव्याज—इत्यत्र, निशाकरांशुभिः शुचिस्मितामित्यत्र, वाचमवोचदच्युतः-इत्यत्र च ज्ञेयम्।
पदलालित्यमपि द्रुश्यते। अर्थगौरवमप्यस्ति। अर्थगौरवं नाम अर्थे गुरुत्वसम्पादनम्। सौधमित्यत्र, द्विज-इत्यत्र
अर्थे गुरुत्वं द्रुश्यते।
श्लोकः॥ २६.
हरत्यघं संप्रति हेतुरेष्यतः शुभस्य पूर्वाचरितैः कृतं शुभैः।
शरीरभाजां भवदीयदर्शनं व्यनक्ति कालत्रितयेऽपि योग्यताम्॥
पदच्छेदः——
हरति, अघं, संप्रति, हेतुः, एष्यतः, शुभस्य, पूर्वाचरितैः, कृतं, शुभैः,
शरीरभाजां, भवदीयदर्शनं, व्यनक्ति, कालत्रितये, अपि, योग्यताम्॥
प्रतिपदार्थः—-
भवदीयदर्शनं; भवदीय=भवतः सम्बन्धि, दर्शनं=साक्षात्कारः, शरीरभाजां=(शीर्यते इति शरीरं–शरीरं भजते=प्राप्नोति इति शरीरभाक्, –तेषां)शरीरधारिणां=द्रष्ट्रूणां, कालत्रितये अपि=(कालस्य त्रितयं–ष.त.स—तस्मिन्)=भूतभविष्यद्वर्तमानकालेष्वपि, योग्यतां=पवित्रतां
व्यनक्ति=गमयति=प्रापयति। संप्रति=वर्तमानकाले=इदानीं, (दर्शनकाले) अघं=पापं, हरति=परिहरति। एष्यतः=भाविनः, शुभस्य=श्रेयसः, हेतुः=
कारणम्(भवतीत्यर्थः)। पूर्वाचरितैः; पूर्व=पूर्वस्मिन् जन्मनि, आचरितैः=अनुष्ठितैः, शुभैः=सुकृतैः, कृतं=लब्धम् (एतद्दर्शनम्)।
तात्पर्यम्—– श्रीकृष्णः नारदं वदत्येवम्—– “हे मुने! भवतां दर्शनं कालत्रयेऽपि शुभं ददाति। अद्य दर्शनसमये मम पापम् अपनुदति। भविष्यति काले भवतः दर्शनं मम श्रेयस्करं भवति। गते जन्मनि कृतेन पुण्येन अद्य भवतः दर्शनं प्राप्तवान्। एवं भवद्दर्शनं मे शुभङ्करोति। “इति।
विशेषाः—-
अलङ्कारस्त्वत्र काव्यलिङ्गम्। यथा—-
यत्र हेतुः वाक्यगतत्वेन वा(वाक्यरूपेण वा), पदगतत्वेन वा(पदरूपेण वा) प्रतिपाद्यते तत्र
काव्यलिङ्गमित्युच्यते। समन्वयो यथा—–कालत्रये मुनीनां दर्शनं योग्यमित्यस्य श्लोकस्य पूर्वचरणे प्रोक्तवाक्यत्रयगताः अर्थाः एव—–प्रथमे
वर्तमाने काले अघस्य हरणं, भविष्यति काले श्रेयस्सम्पादनं, सञ्चितरूपेण जन्मान्तरशुभप्राप्तिश्च—हेतवो भवन्ति=कारणानि भवन्ति।
दर्शनं कार्यं कारणञ्च भवति। अघहरणकारणेन, श्रेयस्सम्पादनेन, सञ्चितरूपपुण्यप्राप्त्या च कालत्रये दर्शनं कार्यम्भवति। दर्शनेन पूर्वोक्तार्थाः
सिद्ध्यन्तीत्युक्ते दर्शनं कारणम्भवति। तेन अर्थाः —अघहरणं, श्रेयः, सञ्चितपुण्यं च —कार्याणि लभ्यन्ते। एवमत्र मिथः कार्यकारणभावोऽपि
द्रुश्यते। किञ्च, ललितानि वाक्यान्यत्र सन्ति। महापुरुषसन्दर्शनं कथमुपयोगि भवतीति च श्रीकृष्णस्य वचोभिः ज्ञायते। संस्कृतपठनेन
भाषणमर्यादां जानीमः। मुनेर्दर्शनं कालत्रयेऽपि विश्वश्रेयसे भवतीति च जानीमः। अत एव संस्कृतं जीवजीवातवे भवतीति सूक्तिरन्वर्था भवति।
व्याकरणांशाः—“व्यनक्ति”—वि पूर्वक अञ्जू धातुः। वि+अनक्ति=व्यनक्ति(प्र.पु.एक्)“अञ्जू–व्यक्तिश्लक्ष्णगतिकान्तिषु”–(योग्यतां) गमयति=
व्यञ्जयति=प्रापयति–(दर्शनम्)।
श्लोकः॥ २७.
जगत्यपर्याप्तसहस्रभानुना न यन्नियन्तुं समभावि भानुना।
प्रसह्य तेजोभिरसंख्यतां गतैरदस्त्वया नुन्नमनुत्तमं तमः॥
पदच्छेदः——-
जगत्यपर्याप्तसहस्रभानुना, न, यत्, नियन्तुं, समभावि, भानुना, प्रसह्य, तेजोभिः, असंख्यतां,
गतैः, अदः, त्वया, नुन्नम्, अनुत्तमं, तमः।
प्रतिपदार्थः——
जगत्यपर्याप्तसहस्रभानुना; जगति=लोके (सर्वत्र), अपर्याप्तसहस्रभानुना; अपर्याप्त=अपरिच्छिन्नाः,
सहस्रं=सहस्रसङ्ख्याताः=अनेके, भानवः=अंशवः(किरणानि), यस्य (सूर्यस्य), (तेन=ताद्रुशेन) भानुना=सूर्येण, यत् तमः=यत् अन्धकारं, (मोहात्मकं), नियन्तुं=निवारयितुं, न समभावि= न शेके (न शक्तं), अनुत्तमं=(अविद्यमानमुत्तमं) अधिकं, अदः=एतत् (तमः)मोहात्मकम् अन्धकारम्, असङ्ख्यतां गतैः=सङ्ख्यातुम् अशक्तताम् गतैः=असङ्ख्येयैः, तेजोभिः=कान्तिभिः, प्रसह्य=बलात्, =बलात्कारेण=बलेन, त्वया=भवता (नारदेन), नुन्नम्=छिन्नम्=परिह्रुतम्=अपास्तम्=निवर्तितम्।
तात्पर्यम्—–
श्रीकृष्णः नारदम् वदत्येवम्——“हे मुने! सूर्यः स्वस्य किरणसहस्रैः अज्ञानान्धकारं(मोहो नाम अज्ञानम्) निवर्तयितुं न शक्नोति। केवलमन्धकारमेव निवर्तयति। अन्धकारनिवर्तने तस्य शक्तिः परिमितैव। सः
पर्वतगुहासु स्थितमन्धकारं निवर्तयितुं न शक्नोत्येव। त्वं तु, तस्मात् सूर्यात् अधिकया शक्त्या तव दर्शनेन
अज्ञानरूपमन्धकारं निवर्तयसि। श्लाघ्यदर्शनो भवा"निति।
विशेषाः—-
अधिकालङ्कारोऽस्त्यत्र। तल्लक्षणं यथा—उपमेयोपमानयोः मध्ये उपमेयस्य उपमानादपि आधिक्यं
यत्र कथ्यते तत्र अधिकालङ्कारो भवति। समन्वयो यथा—अत्र नारदसूर्ययोः उपमेयोपमानत्वम्। उपमेयम्-नारदः।
उपमानम्–सूर्यः। परन्त्वत्र, प्रसिद्धोपमानादपि (सूर्यादपि) उपमेयस्य-(नारदस्य) आधिक्यकथनात्समन्वयः।
नारद इत्यस्य—- “नारम्=अज्ञानं, द्यति=खण्डयति” इति व्युत्पत्तिः। (दो-अवखण्डने—इति धातुपाठे)
श्लो॥ २८.
कृतःप्रजाक्षेमकृता प्रजास्रुजा सुपात्रनिक्षेपनिराकुलात्मना।
सदोपयोगेऽपि गुरुस्त्वमक्षयो निधिः श्रुतीनां धनसंपदामिव॥
पदच्छेदः–
कृतः, प्रजाक्षेमकृता, प्रजास्रुजा, सुपात्रनिक्षेपनिराकुलात्मना, सदा, उपयोगे, अपि, गुरुः, त्वम्, अक्षयः, निधिः,
श्रुतीनां, धनसंपदाम्, इव।
प्रतिपदार्थः–
प्रजाक्षेमकृता; प्रजा=जनानां, अपत्यानां च, क्षेमकृता=क्षेमं करोतीति-क्षेमकृत्–तेन=कुशलकारिणा, (प्रजा स्यात्सन्ततौ जने–इत्यमरः), सुपात्रनिक्षेपनिराकुलात्मना; सुपात्र=योग्यपुरुषे कटाहादि द्रुढभाजने च, निक्षेप=
निक्षेपेण निधानेन च(न्यासेन), निराकुलात्मना; निराकुल=(न विद्यते आकुलं यस्य सः-निराकुलः) आकुलरहितः,
आत्मा यस्य सःनिराकुलात्मा–तेन (त्रु.वि.एक)=स्वस्थचित्तेन, प्रजास्रुजा; प्रजां=जनान्, स्रुजतीति–प्रजास्रुक्-तेन
=ब्रह्मणा, पुत्रवता च, त्वम्=भवान्(श्रीकृष्णः), धनसंपदाम् इव=धनानां ऐश्वर्याणा च इव, श्रुतीनां=वेदानां,
सदोपयोगे अपि=सदा=सर्वदा=नित्यं, उपयोगे अपि=दानेन भोगेन च व्यये सत्यपि, अक्षयः=(न क्षयः=अक्षयः)
क्षयरहितः=नाशरहितः=शाश्वतः, गुरुः=उपदेष्टा (सम्प्रदायप्रवर्तकः) असि इति अध्याहार्यम्।
तात्पर्यम्——-
ब्रह्मा प्रजाः(लोकान्) स्रुजति। प्रजानां क्षेमं पश्यति। क्षेममिच्छन् तान् ज्ञानिनःकर्तुं योग्यान् महर्षीनपि स्रुष्ट्वा तेषु श्रुतीन् निक्षिप्तवान्। महर्षयः तान् श्रुतीन् परम्परागतानकुर्वन्। ब्रह्मैव लोके जनकोऽपि स्वस्य सन्तत्यै
धनं संपच्च दत्त्वा दानभोगाभ्यां व्यये सत्यपि परम्परया अनुभोक्तुं निधिरूपेण निक्षिपति।
अत्र ब्रह्मणः पुत्रः नारदः। स महर्षिश्च। वेदवित् शास्त्रविच्च। वेदाः तस्मिन्निक्षिप्ताः। सः उपदेष्टा। उपदेशः परम्परया अनुवर्तते एव अक्षयरूपेण। सः सम्प्रदायप्रवर्तकश्च। सम्यक्प्रदीयते परम्परया इति सम्प्रदायः। श्रुतयोऽपि महर्षिभिः परम्परया बोध्यन्ते एव। “गुरुर्ब्रह्मा” इत्युच्यते एव। नारदः तस्य उत्सङ्गात् जातत्वेन पुत्रोऽभवत्।
गुरुपुत्रोऽपि गुरुरेव प्राचीनसम्प्रदाये। नारदः सम्प्रदायप्रवर्तक इति, तस्य पिता ब्रह्मा तस्मै श्रुतीन् निक्षिप्तवानिति=अनुग्रुहीतवानिति, एवं निधिं निक्षिप्य ब्रह्मा स्वस्थचित्तो तिष्ठतीति लोकेऽप्येषा पद्धतिः पित्रा सन्तत्यै अनुस्रियते इति नारदं द्रुष्ट्वा श्रीकृष्णः प्रोवाच।
विशेषाः—
अर्थद्वयमस्ति। प्रकृतमप्रकृतञ्च। अर्थद्वयेऽपि श्लेषोऽस्ति। “प्रजाक्षेमकृत्, प्रजास्रुक्, निक्षेपः, गुरुः"इति
पदानि श्लिष्टानि। ब्रह्मादयः प्रकृतार्थाः। पित्रादयः अप्रकृतार्थाः। अत्र श्लेषालङ्कारोऽस्ति। नानार्थसंश्रयः अनेकार्थ
गोचरः शब्दविन्यासः श्लेष इति तल्लक्षणम्। “प्रजाक्षेमकृत्, प्रजास्रुक्, गुरुः, निधिः"इत्यादि
पदानि द्व्यर्थकानि। “श्रुतीनां धनसम्पदामिव” इत्यत्र धनं सम्पच्च श्रुतिभिरुपमीयेते। अतः उपमाप्यस्ति।
न्यायशास्त्रे समूहालम्बनज्ञानमिव श्रुतिसम्प्रदायद्वारा धर्माधर्मविवेचनेन जगत्प्रतिष्ठानिर्वाहकाः नारदादिगुरव
एवेति तत्त्वं ज्ञायतेऽत्र।
आकांक्षा यथा—श्लोके क्रिया यद्वा तदर्थकपदमन्वेष्टव्यम् प्रथमम्–अत्र ताद्रुशः “कृतः” अस्ति। कृतः कः? त्वम्,
(नारदः) त्वमित्यस्य विशेषणानि —त्वं कीद्रुशः? निधिः, निधिः कथम्भूतः-अक्षयः। पुनः कीद्रुशः-गुरुः। अक्षयः
कथम्? सदा उपयोगेऽपि। केषामिव? धनसम्पदामिव। केषां? श्रुतीनाम्। निधिः अक्षयः केन कृतः? प्रजास्रुजा।
कथम्भूतेन? प्रजाक्षेमकृता। पुनः कीद्रुशेन? सुपात्रनिक्षिप्तनिराकुलात्मना। एवं क्रियमाणे श्लोकः तदर्थश्च कण्ठस्थो भवति। प्रत्युत भाषापाटवमपि लभ्यते।
श्लो॥२९—–”
विलोकनेनैव तवामुना मुने कृतः कृतार्थोऽस्मि निबर्हितांहसा।
तथापि शुश्रूषुरहं गरीयसीर्गिरोऽथवा श्रेयसि केन तृप्यते॥”
(पदच्छेदः)–
विलोकनेन, एव(अ+ए=ऐ-वृद्धिसन्धिः), तव+अमुना(अ+अ=आ, सवर्णदीर्घसन्धिः), मुने(मुनि शब्दस्य सबोधनप्रथमैकवचनम्), कृतः,
कृतार्थः(कृत+अर्थः, स.दी.सं)अस्मि(विसर्गसन्धिः(विसर्गः(ः)ओ भवति), निबर्हितांहसा(निबर्हित+अंहसा-स.दी.सं),
तथा, अपि(स.दी.सं) शुश्रूषुः, अहं(विसर्गस्य “र्” भवति), गरीयसीः, गिरः, अथवा, श्रेयसि, केन, तृप्यते।
प्रतिपदार्थः—
मुने=हे ऋषे, निबर्हितांहसा-निबर्हित=ध्वंसित, अंहसा=पापवता, अमुना=अनेन, तव=भवतः, विलोकनेन=दृष्ट्या, एव=मात्रेण, (लेशेन)
कृतार्थः=सफलमनोरथः, अस्मि=भवामि, तथा+अपि=सफलमनोरथोऽपि, (तव-अध्याहार्यम्)गरीयसीः=श्रेष्ठाः, गिरः=वचांसि, शुश्रूषुः=
श्रोतुम् इच्छुः(इच्छावान्), अस्मि=भवामि। अथवा=तथाहि=तत् युक्तम् एव, श्रेयसि=शुभस्य विषये, केन=केन मनुजेन, तृप्यते=तृप्तिर्भवेत्।
(न कोऽपि संतृप्तो भवति-कृतार्थतायाः परिमित्यभावेन-मनोरथानां वृद्धेः कारणतः)
तात्पर्यम्—-
श्रीकृष्णः मुनिं वदत्येवम्, “हे मुने (नारद) पुण्यात्मनः तव दर्शनेन पुनीतोऽस्मि। अस्माकं श्रेयस्कामो भवान्। भवतः वचांसि श्रोतुमिच्छामि।
श्रेयसि विषये न कस्यापि “अलमेतावता"इति तृप्तिर्नभवति। "
विशेषः—
येन केनापि भाषणस्य प्रारम्भे कथमुपक्रमेत्, इति भाषणरीतिं सूचयति श्लोकोऽयम्। विनम्रतापूर्वकं प्रियभाषणं कथं कुर्यादिति जानीमोऽत्र।
श्रीकृष्णः प्रियभाषी इति, विनम्र इति ज्ञायते। नारदः पुण्यपुरुषः इति, श्रेयोभिलाषी इति च ध्वन्यते।
श्लो॥३०—-”
गतस्पृहोऽप्यागमनप्रयोजनं वदेति वक्तुं व्यवसीयते यया।
तनोति नस्तामुदितात्मगौरवो गुरुस्तवैवागम एष धृष्टताम्॥”
पदच्छेदः–
गतस्पृहः, अपि, आगमनप्रयोजनं, वद, इति, वक्तुम्, व्यवसीयते, यया, तनोति, नः, ताम्, उदितात्मगौरवः, गुरुः, तव, एव, आगमः, एषः, धृष्टताम्।
प्रतिपदार्थः—
गतस्पृहोऽपि=वीतस्पृहोऽपि=(स्पृहायाः(नारदस्य)असत्वेपि(मुनिरिति कारणतः), आगमनप्रयोजनं=आगमनस्य कारणं, वदेति=कथयेति, वक्तुं=प्रष्टुम्,
यया=यया प्रवृत्त्या, व्यवसीयते=उद्यम्यते=प्रयत्नः क्रियते(मया=श्रीकृष्णेन), नः=अस्माकम्, तां=तादृशीं, धृष्टतां=(पृच्छनरूपां साहसिकीं)प्रवृत्तिं, उदितात्मगौरवः-उदितं=उत्पन्नं=उक्तं वा, आत्मनः=मम(श्रीकृष्णस्य)गौरवं=गुरुत्वं, (येन=नारदेन, सः=तादृशः), गुरुः=श्लाघ्यः=गौरवप्रदः, तव=भवतः(नारदस्य),
एषः=अयं, आगम एव=आगमनमेव, तनोति=विस्तारयति=उत्प्रेरयति।
तात्पर्यम्—-
श्रीकृष्णः नारदम् एवं प्रत्युवाच, “मुनिरिति कारणतः भवान् निस्पृहोऽस्ति। (स्पृहा नाम इच्छा। रागरहितस्य मुनेः यस्मिन्कस्मिन्नपि विषये वा कापि इच्छा
न भवति। )
इच्छारहितं त्वां “आगमनस्य कारणं=(प्रयोजनं वा )प्रष्टुम् नोचितम्। तदा पृच्छनं साहसिकी प्रवृत्तिः। मामादृत्य(मयि आदरेण)आगतोऽस्ति भवान्।
अतः आदरपूर्वकः भवतः आगम एव मामिदं कारणं प्रष्टुं प्रेरयति। "
विशेषः—- अत्र श्रीकृष्णस्य भाषणे उचितानुचितपूर्विका प्रसङ्गरीतिः श्लाघ्या अस्ति। येन केनापि वा प्रसङ्गः एवं करणीय इति शिक्षयत्येतद्भाषणम्।
कृष्णस्तुतिः
श्लो ३१॥”
इति ब्रुवन्तं तमुवाच स व्रती
न वाच्यमित्थं पुरुषोत्तम! त्वया।
त्वमेव साक्षात्करणीय इत्यतः
किमस्ति कार्यं गुरुयोगिनामपि॥
पदच्छेदः—-
इति, ब्रुवन्तं, तं, उवाच, सः, व्रती, न, वाच्यम्, इत्थं, पुरुषोत्तम, त्वया, त्वम्, एव, साक्षात्करणीयः, इति, अतः, किम्, अस्ति, कार्यं, गुरु, योगिनाम्, अपि।
प्रतिपदार्थः—इति=वीतरागिणः(नारदस्य) आगमनं विस्मयजनकं सत् स्वस्मै गौरवास्पदमेवेति, (पूर्वश्लोकोक्तरीत्या), ब्रुवन्तं=भाषमाणं, तं=श्रीकृष्णं, व्रती=मुनिः,
सः=(आगन्ता)नारदः, “पुरुषोत्तम ! हे पुरुषश्रेष्ठ ! (श्रीकृष्ण), त्वया=भवता, इत्थं=एवंरीत्या, न वाच्यम्=न वक्तव्यम्। योगिनामपि=विगतस्पृहाणां मुनीश्वराणामपि
त्वमेव=भवानेव, साक्षात्करणीयः=प्रत्यक्षीकरणीयः। अतः=एतस्मात् कार्यात्, परं=अतीत्य, गुरु=अधिकं, कार्यं=करणीयं, किमस्ति=किम्भवति। (न किमप्यस्ति)”
इति=एवं, उवाच=उक्तवान्।
तात्पर्यम्—-
नारदः श्रीकृष्णमेवं वदति—-“हे ! श्रीकृष्ण ! विगतस्पृहाणां भवत्सकाशं प्रति आगमनं निष्प्रयोजनमिति मा वदतु। अतीव विरक्ता मुनयोऽपि
भवन्तं साक्षात्कर्तुमिच्छन्ति सदा। अतः मादृशामपि एतदतीत्य किमधिकं कार्यमस्ति भवता? पुरुषोत्तमदर्शनमेव प्रयोजनमस्माकमि"त्यवदत्।
विशेषाः—-योगिनो नाम कपिल सनत्कुमारादिमुनयः। ते सर्वे विगतस्पृहा एव। तथापि पुरुषोत्तमस्य श्रीकृष्णस्य साक्षात्कारमभिलषन्त्येव। तदेव प्रयोजनमत्र
नारदस्यापीत्युक्तम्।
अत्र श्लोके नारदस्य वाक्यानां निशितपरिशीलनेन श्रीकृष्णदर्शनात् परं-अतीत्य किमस्तीत्यत्र किञ्चिदधिकं प्रयोजनं =देवकार्यनिर्वहणरूपं(शिशुपाल
वधोपायः) अस्तीत्यपि व्यज्यते “परमित्यनेन”।
श्लो॥(३२)”
उदीर्णरागप्रतिरोधकं जनैरभीक्ष्णमक्षुण्णतयाऽतिदुर्गमम्।
उपेयुषो मोक्षपथं मनस्विनस्त्वमग्रभूमिर्निरपायसंश्रया॥”
पदच्छेदः—— उदीर्णरागप्रतिरोधकं, जनैः, अभीक्ष्णम्, अक्षुण्णतया, अतिदुर्गमम्, उपेयुषः, मोक्षपथं, मनस्विनः, त्वं, अग्रभूमिः, निरपायसंश्रया। "
प्रतिपदार्थः—-
उदीर्णरागप्रतिरोधकं–उदीर्ण=उद्रिक्त, राग=विषयाभिलाष एव, प्रतिरोधकं=बाधकं, अभीक्ष्णं=निरन्तरं, अक्षुण्णतया=अनभ्यस्तत्वेन=अनभ्यासेन,
अतिदुर्गमं=अतीव गन्तुमशक्यं, मोक्षपथं=मोक्षमार्गं, उपेयुषः=प्राप्तुकामस्य, मनस्विनः=विदुषः, त्वं=भवान्(श्रीकृष्णः), निरपायसंश्रया=अपायरहित
आश्रयणीया, अग्रभूमिः=अग्रे गन्तव्यस्थानम्=प्राप्तिस्थानम्। (असि=भवसि, इति अध्याहार्यम्।
तात्पर्यम्——
योगिनामपि श्रीकृष्णस्य साक्षात्कार एव प्रयोजनमिति यदुक्तं तदेव प्रकारान्तरेण दृढयत्यस्मिन् श्लोके। संसारचिन्तानिमग्नानां मोक्षार्थिनां विदुषां
अतीव दुर्गमं पुनरावृत्तिरहितं प्राप्तिस्थानं भवान्(श्रीकृष्णः) एव। एवं पलायितानां/ पलायिनां भीरूणां चोराणामपि जनसंचाररहितं दुर्गमं वनं प्राप्य
तत्र कस्यचित् धीरपुरुषस्य शरण्यं प्राप्तिस्थानम्भवति। एवं अन्ततः यस्यकस्यचिदपि वा विषयाभिलाषिणः पुनरावृत्तिरहितं स्थानं प्राप्तुं भवानेव
(श्रीकृष्ण एव) गतिरिति भावः।
श्रुतयोऽपि “स च न पुनरावर्ततेऽति, “तमेव विदित्वाऽतिमृत्युमेति नान्यः पन्था विद्यतेऽयनाय"इति वदन्त्येव।
यथा कस्यचित्, कुतश्चित्संकटान्निर्गतस्य केनचित्कान्तारेण गतस्य किञ्चिन्निर्बाधस्थानप्राप्तिरभयाय कल्पते तथा मुमुक्षोरपि भवानेव(श्रीकृष्णः)
एव शरण्यमिति पूर्वोक्तमेव द्रढयन् नारदः श्रीकृष्णं प्रत्युवाच।
विशेषः——- जीवितस्य लक्ष्यं वेदान्तार्थमपि श्लोकोऽयं सूचयति।
श्लोकः(३३)
“उदासितारं निगृहीतमानसैः गृहीतमध्यात्मदृशा कथञ्चन।
बहिर्विकारं प्रकृतेः पृथग्विदुः पुरातनं त्वां, पुरुषं पुराविदः॥”
पदच्छेदः—- उदासितारं, निगृहीतमानसैः, गृहीतं, अध्यात्मदृशा, कथञ्चन, बहिः, विकारं, प्रकृतेः, पृथक्, विदुः, पुरातनं, त्वां, पुरुषं, पुराविदः। "
प्रतिपदार्थः–
पुराविदः=पूर्वज्ञाः कपिलादयो महर्षयः, त्वां=भवन्तं, निगृहीतमानसैः=निबद्धचित्तैः योगिभिः, अध्यात्मदृशा=आत्मज्ञानेन, कथञ्चन गृहीतम्=साक्षात्कृतम्,
उदासितारं=उदासीनं, प्रकृतौ=पञ्चभूतात्मकप्रकृतौ, बहिर्विकारं=महदादिविकारेभ्यो बहिः, पृथक्=भिन्नं, पुरातनं=पुराणं, पुरुषं=पुरुषमिव, विदुः=ज्ञातवन्तः।
तात्पर्यम्—
कपिलादिमहर्षयः त्वां अनादिं प्रकृतेः परः प्रधानो पुरुष इति वदन्ति। ते सर्वे आत्मनि समाधिचित्तेन त्वां जानन्ति। अत्र श्रुतयोऽपि, “मूलप्रकृतिः अविकृतिरिति,
महदाद्याः प्रकृतिविकृतयस्सप्त इति, षोडशकश्च विकारो न प्रकृतिः, न विकृतिरिति, सः पुरुष एवेति, स एव विज्ञानघन इति च वदन्ति। अतः भवानेव अस्माकं
साक्षात्करणीयोऽसि। इति नारदः श्रीकृष्णं प्रोवाच।
विशेषः—–
अत्र साङ्ख्यमतं प्रतिपादितम्। कपिलःसाङ्ख्यमतस्य प्रवक्ता। भगवान् निर्गुण इति प्रकृतौ प्रवृत्तेः सत्वेऽपि प्रकृत्या अस्पृष्टो भवन् त्रिगुणातीतो पुरुष इति
समाधिचित्तेन योगिभिरेव स द्रष्टुं शक्यतेऽति, स विकाररहित इति, स एव साक्षात्करणीय इति च तन्मतस्य सारांशः।
श्लोकः॥(३४)–”
निवेशयामासिथ हेलयोद्धृतं फणाभृतां छादनमेकमोकसः।
जगत्त्रयैकस्थपतिस्त्वमुच्चकैरहीश्वरस्तम्भशिरस्सु भूतलम्। "
पदच्छेदः—-”
निवेशयामासिथ, हेलया, उद्धृतं, फणाभृतां, छादनं, एकं, ओकसः, जगत्त्रयस्थैकपतिः, त्वम्, उच्चकैः, अहीश्वरस्तम्भशिरस्सु, भूतलम्”
प्रतिपदार्थः—
जगत्त्रयैकस्थपतिः=लोकत्रयस्य एकैकशिल्पी, त्वं=भवान्, हेलया=लीलया, उद्धृतं=फणाभृतां=फणिनां=सर्पाणां, ओकसः=सद्मनः=निलयस्य(पाताळस्य),
एकं=एकैकं, छादनं=आवरणरूपं, भूतलम्=भूमिं, उच्चकैः=उन्नतेषु, अहीश्वरस्तम्भशिरस्सु–अहीश्वर=(अहीनां ईश्वरः)आदिशेषस्य, स्तम्भ=स्तम्भरूप,
शिरस्सु=मूर्धसु=अग्रेषु, निवेशयामासिथ=निवेशितवान्(असि)।
तात्पर्यम्—–
वराहावतारे लोकत्रयाधिपतिरूपेण लीलया भूतलमुद्धृत्य आदिशेषस्य फणासहस्रस्तम्भे निवेशितवान् भवान्। इति नारदः श्रीकृष्णं सगुणरूपेण तस्य
अवतारवैभवादीनि प्रस्तोतुमुपचक्रमे। (षड्भिः श्लोकैः)
विशेषाः——
भूतलं पाताळस्य आच्छादनरूपमावरणम्भवतीति भौगोळिकविषयोऽत्रास्ति। अत्र चरित्रमप्यस्ति। वराहावतारचरित्रं वर्ण्यते। पुरा हिरण्याक्षनामकराक्षसेन
भूमिः कट इव वेष्टिता समुद्रे पातिता। तदा श्रीमान् नारायणः वराहरूपं धृत्वा भूमिमुद्धृत्य आदिशेषस्य फणाग्रेषु स्थापितवान्। भूतलमादिशेषो स्वस्य
फणासहस्रस्तम्भे धरतीति च चरित्रमस्ति। श्रीमान् नारायण एव जगत्त्रयस्य स्थपतिरूपेण वर्णितोऽस्तीति कारणतः स एव स्रष्टा इति, वराहरूपधारणेन
सः सगुणोऽपीति ज्ञायते। अत्र अलङ्कारः रूपकम्। भगवान् नारायणःस्थपतिरिति वर्णितः। स्थपतिकार्यम् आवरणोद्धरणं भगवति आरोपितम्।
३५ श्लोकः॥
“अनन्यगुर्व्यास्तव केन केवलः पुराणमूर्तेर्महिमावगम्यते।
मनुष्यजन्मापि सुरासुरान्गुणैः भवान् भवच्छेदकरैः करोत्यधः॥”
पदच्छेदः—- अनन्यगुर्व्याः, तव, केन, केवलः, पुराणमूर्तेः, महिमा, अवगम्यते, मनुष्यजन्मा, अपि, सुरासुरान्, गुणैः, भवच्छेदकरैः, करोति, अधः। "
प्रतिपदार्थः–
अनन्यगुर्व्याः=असाधाराणगुरुरूपिणः, तव=भवतः, पुराणमूर्तेः=अमानुषस्वरूपस्य, केवलः=सर्वतोमुखः-महिमा=शक्तिः, केन अवगम्यते?=न केनापि
ज्ञायते। मनुष्यजन्मा अपि=मनुष्यजन्मधारी अपि, भवान्=त्वं, भवच्छेदकरैः=संसारनिवर्तकैः, गुणैः=लक्षणैः, सुरासुरान्=देवान् असुरानपि, अधः करोति=
नीचैः करोति=अतिक्रामति।
तात्पर्यम्— “भवान् महामहिमोपेतवान्। मानुष एव ते महिमा दुरवगाहोऽस्ति। अमानुषस्तु इतोऽपि दुरवगाहः। संसारनिवर्तने भवान् देवासुरानतिशेते।
विशेषः——
श्रीकृष्णस्य मानुषं जन्मैव महदद्भुतमिति वर्णितम्। संसारनिवर्तकगुणैः सः देवासुरादीनतिशेते। “सुरासुरा"नित्यत्र पदे पदे व्यञ्जनद्वयस्य आवृत्या
छेकानुप्रासो नाम शब्दालङ्कारः।
श्लो॥३६ ——-
“लघूकरिष्यन्नतिभारभङगुराममूं किल त्वं त्रिदिवादवातरः।
उदूढलोकत्रितयेन साम्प्रतं गुरुर्धरित्री क्रियतेतरां त्वया॥”
पदच्छेदः —–
लघूकरिष्यन् , अतिभारभङ्गुराम्, अमूं , किल , त्वं , त्रिदिवात् , अवातरः , उदूढलोकत्रितयेन , साम्प्रतं , गुरुः , धरित्री , क्रियतेतरां , त्वया।
"
प्रतिपदार्थः —-
“त्वम् = भवान् , अतिभारेण = ऊर्जेन स्वरूपेण , भङ्गुरां = भज्यमानां , अमूं = भुवं , लघूकरिष्यन् = भाररहितां कर्तुं किल , त्रिदिवात् = स्वर्गात्= अवातरः = अवतीर्णोऽसि।
साम्प्रतं = सम्प्रति , उदूढलोकत्रितयेन =( कुक्षौ ) लोकत्रयवहनेन , त्वया = भवता , धरित्री = भूमिः , गुरुः = भारवती / पूज्या, क्रियतेतराम् = अतिशयेन क्रियते।
तात्पर्यम् ——-
नारदः कृष्णमेवमुवाच , “त्वं भारसहितां ( पापात्मभिः ) भूमिं भाररहितां कर्तुं स्वर्गात् अवतीर्णोऽसि।
सम्प्रति कुक्षौ लोकत्रयवहनेन धरित्री गुरुः कृता —-
अर्थात् पूज्या कृता इत्यर्थः।
विशेषाः ———
भुवो भारस्य लघुकर्ता कथं गुरुकर्ता अभवत्? इत्यत्र विरोधः अस्तीति भासते।
अतः विरोधाभासालङ्कारः।
अस्य परिहरणमेवं क्रियते।
अत्र गुरुशब्दस्य “पूज्या"इति अर्थं वदेम चेत् कुक्षौ लोकत्रयं निक्षिप्य रक्षणेन पूज्या कृता इत्यर्थेन विरोधः परिह्रियते।
भुवो भारो नाम राक्षसानामुपद्रवभारः।
तान् हत्वा भारं लघु कर्तुमिच्छतीत्यर्थः।
लोकत्रयवहनेन भूमिः भारवती जाता इति कथनेन विरोधे जाते गुरुशब्दस्य पूज्या इत्यर्थमुक्त्वा विरोधं परिहरामः।
श्लो॥३७ —-
“निजौजसोज्जासयितुं जगद्द्रुहामुपाजिहीथा न महीतलं यदि।
समाहितैरप्यनिरूपितस्ततः पदं दृशः स्याः कथमीश! मादृशाम्।
पदच्छेदः — निजौजसा , उज्जासयितुं , जगद्द्रुहाम् , उपाजिहीथाः, न , महीतलं , यदि , समाहितैः , अपि , अनिरूपितः , ततः , पदं , दृशः , स्याः , कथम् , ईश, मादृशाम्”
प्रतिपदार्थः – निजौजसा = स्वतेजसा , जगद्द्रुहाम् = लोकद्रोहिणां कंसादीनां , उज्जासयितुं = हिंसितुं , महीतलं = भूतलं , नोपाजिहीथा यदि = नावतरेश्चेत्, ततः = तर्हि , समाहितैरपि = समाधिनिष्ठैरपि= अनिरूपितः = अनुगृहीतः( त्वं = भवान्) ईश! = देव! मादृशाम् = चर्मचक्षुषाम् , दृशः = दृष्टेः , पदं = गोचरः, कथं = केन प्रकारेण , स्याः = भवसि? ( न भवसि - इत्यर्थः)
तात्पर्यम् —
लोकद्रोहिणां कंसादीनां संहाराय स्वर्गात् नागतोऽसि यदि योगिभिरनुगृहीतो भवान् मादृशां चर्मचक्षुषां कथं दृष्टिगोचरो भवति? ( न भवत्येव) पृथिव्यां अवतारितवानिति कारणेनैव मादृशां भवदीयसाक्षात्कारो भवति।
अतः भवदीयसाक्षात्कार एव मम अत्रागमनस्य प्रयोजनम्।
नान्यदिति नारदः कृष्णमुवाच।
श्लो ३८ –
“उपप्लुतं पातुमदो मदोद्धतैः त्वमेव विश्वम्भर! विश्वमीशिषे।
ऋते रवेः क्षायितुं क्षमेत कः क्षपातमस्काण्डमलीमसं नभः॥”
पदच्छेदः — उपप्लुतं , पातुं , अदः , मदोद्धतैः , त्वं , एव , विश्वम्भर , विश्वं , ईशिषे , ऋते , रवेः , क्षायितुं , क्षमेत , कः , क्षपातमस्काण्डमलीमसं , नभः।
प्रतिपदार्थः - “विश्वम्भर! हे विश्वरक्षक! मदोद्धतैः = मदेन गर्वितैः ( कंसादिराक्षसैः ), उपप्लुतं = पीडितं , अदः = एतद्विश्वं , पातुं = रक्षितुं , त्वमेव = भवानेव, ईशिषे = शक्तोऽसि।
क्षपातमस्काण्डमलीमसं – क्षपा = रात्र्याः , तमः = तमसां ( अन्धकाराणां ), काण्ड = वर्गैः ( समूहैः ), मलीमसं = मलिनं , नभः = गगनं, क्षायितुं = प्रक्षायितुं , रवेः ऋते = सूर्यं विना , कः = को वा अन्यः , क्षमेत = शक्नुयात्? ( न कोऽपि – इत्यर्थः)
तात्पर्यम् —
नारदः श्रीकृष्णमेवं वदति —-
“हे विश्वरक्षक! ( श्रीकृष्ण!) भवान् विश्वम्भरः - विश्वं बिभर्ति।
कंसादिदानवैः पीडितम् इदं विश्वं रक्षितुं भवानेव शक्तोऽसि।
नान्यः।
यः बिभर्ति स एव रक्षको भवेत्।
अन्धकारेण मलिनं गगनं क्षायितुं = शोधयितुं = निवारयितुं सूर्य एव समर्थःखलु।
विशेषाः —–
अत्र श्लोके अन्धकारो नाम अज्ञानमित्यप्यर्थो भवति।
भगवान् अस्माकम् अज्ञानमपि निवारयति खलु।
राक्षसानामपि शिक्षणेन = हननेन तेषाम् अज्ञानं निवर्त्य तान् सर्वान् स्वं - आत्मानं प्रापयति।
सूर्यमण्डलवर्ती च श्रीमान् नारायण एव।
तस्मात् याज्ञवल्क्यो नाम महर्षिः शुक्लयजुर्वेदमधीतवानिति बृहदारण्यकोपनिषदि प्रोक्तम्।
अत्र अलङ्कारोऽप्यस्ति प्रतिवस्तूपमा नान्ना।
सामान्यधर्मस्य वाक्यद्वये पृथक् पृथक् शब्दैः निर्देशेन प्रतिवस्तूपमा भवति।
अत्र वाक्यद्वयमस्ति।
उभयत्र “ईशिषे , क्षमेत"इति शक्तत्वमिति एक एव धर्मः पृथक् पृथक् शब्दैः वाक्यद्वये निर्दिष्टोऽस्ति।
प्रतिवस्तूपमा नाम – प्रतिवस्तु - प्रतिवाक्ये – उपमासमानधर्मः अस्यामस्तीति कारणतः अलङ्कारोऽयं सार्थको भवति।
वस्तुवाक्यं श्रीकृष्णः विश्वं रक्षितुं ( ईशिषे) समर्थः , इति , प्रतिवस्तुवाक्यं सूर्यः मलिनं गगनं क्षायितुं ( क्षमेत ) समर्थः - इति वाक्यम्।
भगवान् कंसादीनां मदं क्षायित्वा विश्वं रक्षितुं समर्थः"इति एकम् उपमेयवाक्यम्।
सूर्यः गगनस्य मालिन्यं क्षायितुं समर्थः इति अपरं वाक्यम्।
एवं वाक्यद्वयमस्ति।
उभयत्र शक्तत्वमिति , एक एव धर्मः ( अर्थः) भिन्न भिन्न पदाभ्यां ( ईशिषे , क्षमेत) प्रोक्तोऽस्ति।
३९ श्लोकः —-
“करोति कंसादिमहीभृतां वधाज्जनो मृगाणामिव यत्तव स्तवम्।
हरेर्हिरण्याक्षपुरस्सरासुरद्विपद्विषः प्रत्युत सा तिरस्क्रिया॥”
पदच्छेदः —– करोति , कंसादिमहीभृतां , वधात् , जनः , मृगाणां , इव , यत् , तव , स्तवम् , हरेः , हिरण्याक्षपुरस्सरासुरद्विपद्विषः , प्रत्युत , सा , तिरस्क्रिया”
प्रतिपदार्थः —
जनः = लोकः , मृगाणामिव = जन्तूनामिव , कंसादिमहीभृतां = कंसप्रभृतीनां राज्ञां , वधात् = हननात् , तव = भवतः , स्तवं = स्तोत्रं , करोति।
( इति ) यत्= यत् कर्म = क्रिया , सा = तत्कर्म वा , सा क्रिया वा , हिरण्याक्षपुरस्सरासुरद्विपद्विषः – हिरण्याक्षपुरस्सर = हिरण्याक्षप्रभृति , असुरद्विप = राक्षसनामक गजानां , द्विषः = शत्रोः , हरेः = अवताररूपहरेः तव / सिंहस्य च , प्रत्युत = वैपरीत्येन = आधिक्येन , तिरस्क्रिया = तिरस्कार एव = अवमान एव।
तात्पर्यम् —–
नारद एव श्रीकृष्णं पुनः वदत्येवम् —
“कंसादिराक्षसाः क्षुद्रमृगतुल्याः।
तेषां हननेन जनाः त्वां स्तुवन्ति।
परन्तु , गजघातिनः सिंहस्य मृगवधवर्णनमिव एष स्तवः भवतः अवमान एव।
गजघाती सिंहः क्षुद्रमृगान् हन्ति चेत् तत् हननं तस्य अवमान एव।
एवं हिरण्याक्षप्रभृति महासुराणां हन्तुः तव ( श्रीकृष्णस्य वराहावतारे) कंसप्रभृति क्षुद्रनृपाणां वधः अवमान एव।
( एवं कथनेन शिशुपालादि महासुरास्सन्तीति सूच्यते च)
अलङ्कारः —
अत्र रूपकालङ्कारोऽस्ति।
स च श्लिष्टोऽस्ति परम्परया।
अतः श्लिष्टपरम्परितरूपकमित्युच्यते।
अत्र हरिर्नाम विष्णुः ( कृष्णः) सिंहश्च।
असुरा एव द्विपाः = गजाः।
असुराः उपमेयम्।
गजाः उपमानम्।
हरिवत् हरिः इत्यत्र – विष्णुः ( कृष्णः ) उपमेयम्।
द्वितीयोऽर्थः - “सिंहः उपमानम्।
कंसादिनृपाः मृगाः ( क्षुद्राः ), हिरण्याक्षादि महासुराः गजाः।
कंसादिनृपेषु मृगत्वमारोपितम्।
हिरण्याक्षादिमहासुरेषु द्विपत्वमारोपितम्।
विष्णौ सिंहत्वमारोपितम्।
एवं रूपकानां परम्परया तेषु श्लेषस्य सत्वेन श्लिष्टपरम्परितरूपकालङ्कारोऽस्त्यत्र श्लोके।
४० श्लोकः —-
“प्रवृत्त एव स्वयमुज्झितश्रमः क्रमेण पेष्टुं भुवनद्विषामसि।
तथापि वाचालतया युनक्ति मां मिथस्त्वदाभाषणलोलुपं मनः।
"
पदच्छेदः —- प्रवृत्तः , एव , स्वयम् , उज्झितश्रमः , क्रमेण , पेष्टुंम् , भुवनद्विषां , असि , तथा , अपि , वाचालतया , युनक्ति , मां , मिथः , त्वदाभाषणलोलुपं , मनः”
प्रतिपदार्थः –
( त्वम् - अध्याहार्यम् )= भवान् ( श्रीकृष्णः ), उज्झितश्रमः ( सन् )= श्रमरहितस्सन् = विना श्रमं , क्रमेण = क्रमशः , भुवनद्विषां = लोकस्य शतॄणां= दुष्टानां , पेष्टुम् = मर्दितुं = हन्तुं , स्वयं = स्वस्य इच्छया , प्रवृत्तः असि = सिद्ध एव असि।
तथापि = तादृशस्थितौ सत्वेऽपि , मिथः = रहसि = एकान्ते, त्वदाभाषणलोलुपं – त्वत् = त्वया , आभाषण = सल्लापे , लोलुपं = लुब्धं = आसक्तं , मनः =( मे ) चित्तं, मां = मा , वाचालतया युनक्ति = वाचालं करोति।
( अधिकं वक्तुं प्रेरयति)
तात्पर्यम् –
" - हे भगवन्! लोकत्रये दुष्टशिक्षणाय त्वमुद्युक्त एवासि।
तथापि एकान्ते त्वया सह सल्लापाय उत्सुकोऽस्मि।
“इति नारदः श्रीकृष्णमुवाच।
विशेषाः —– अद्यावधि श्लोकाः ( नारदश्रीकृष्णयोर्मध्ये) भाषणविषये कथं कथं वदेदिति, मर्यादा कीदृशीति, कथनपद्धतिः का इति च सूचितवन्तः।
श्लो। ४१।
“तदिन्द्रसन्दिष्टमुपेन्द्र! यद्वचः क्षणं मया विश्वजनीनमुच्यते।
समस्तकार्येषु गतेन धुर्यतामहिद्विषस्तद्भवता निशम्यताम्।
"
प्रतिपदार्थः —
“उपेन्द्र! भगवन्!( श्रीकृष्ण ), इन्द्रसन्दिष्टं = इन्द्रेण प्रेषितं , विश्वजनीनं = विश्वाय हितकरं , यत् वचः = या वाक्,
, क्षणं = अविलम्बेन , मया = नारदेन।
उच्यते = कथ्यते, तत् वचः = सा वाक् , अहिद्विषः =( अहिं = वृत्रासुरं , द्वेष्टि - इति , अहिद्विट् - तस्य ) इन्द्रस्य , समस्त-
कार्येषु = सर्वकार्येषु , धुर्यतां = धुरन्धरत्वं = भारं , गतेन = वहता , भवता = त्वया , निशम्यताम् = श्रूयताम्।
तात्पर्यम् ——
नारदः श्रीकृष्णं वदति – “हे उपेन्द्र != श्रीकृष्ण , लोकहितं सन्देशं भवते प्रेषितवानिन्द्रः।
इन्द्रस्य समस्तकार्याणि भवानेव पश्यति।
अतः
तत्सन्देशं विना विलम्बं श्रुणोतु।
विशेषाः ——-
वृत्रासुरस्य “अहिः"इति नामाप्यस्ति।
“सर्पे वृत्रासुरेऽप्यहिः"इति वैजयन्तीनिघण्टौ।
इन्द्रस्य अनुज इति कारणेन उपेन्द्र इति कृष्णस्य
नाम।
“विश्वजनीन"मिति पदं बहु परिचितं भारतदेशस्य।
एतत्पदं भारतीयसंस्कृतेः वैशिष्ट्यं पुरातनत्वं च सूचयति।
इन्द्रस्य कार्यभारं
तस्य अनुजः कृष्णः निरन्तरं वहन्नस्तीति ज्ञायते च।
श्लो। ४२।
“अभूदभूमिः प्रतिपक्षजन्मनां भियां तनूजस्तपनद्युतिर्दितेः।
यमिन्द्रशब्दार्थनिषूदनं हरेर्हिरण्यपूर्वं कशिपुं प्रचक्षते॥”
प्रतिपदार्थः —
प्रतिपक्षजन्मनां = शात्रवजनितानां , भियां = भयानां , अभूमिः = अविषयः = अगोचरः - अर्थात् - निर्भीकः , तपनद्युतिः = सूर्य इव दुर्भरतेजश्शाली,
दितेः = दितिर्नाम कश्यपप्रजापतेः ज्येष्ठा भार्या – तस्याः , तनूजः = पुत्रः , अभूत् = आसीत् , हरेः = इन्द्रस्य ,, इन्द्रशब्दार्थनिषूदनं =( “इदि"धातोः परमैश्वर्यमित्यर्थः , इन्दतीति - इन्द्रः - परमैश्वर्यवान् - इत्यर्थः ), इन्द्रशब्दार्थो नाम - परमैश्वर्यं - तन्निवर्तकं , यं = पूर्वोक्तदितेः तनूजं , हिरण्यपूर्वं = “हिरण्य"शब्दपूर्वकं , कशिपुं = कशिपुनामकं ( हिरण्यकशिपुनामधेयं) प्रचक्षते + ब्रुवन्ति।
तात्पर्यम् —
नारदः शिशुपालवधप्रस्तावनात्प्राक् तस्य पूर्वजन्मवृत्तान्तं श्रीकृष्णाय कथयति —
“इन्द्रस्य शत्रुः निर्भीकःहिरण्यकशिपुर्नाम दैत्य एको
पुरा आसीत्।
सः इन्द्रस्य ऐश्वर्यं अपहर्तुमिच्छति स्म।
सः सूर्य इव महान् तेजस्वी आसीत्।
“इति
श्लो। ४३।
“स मत्सरेणासुर इत्युपेयुषा चिराय नान्नः प्रथमाभिधेयताम्।
भयस्य पूर्वावतरस्तरस्विना मनस्सु येन द्युसदां न्यधीयत॥”
प्रतिपदार्थः –
“समत्सरेण = अन्यशुभद्वेषसहितेन , असुर इति नान्नः , चिराय = चिरकालेन , प्रथमाभिधेयताम् + उपेयुषा = सार्थकतां प्राप्नुवता , तरस्विना=
बलवता , येन = हिरण्यकशिपुना , द्युसदां = देवानां , मनस्सु = हृदयेषु , भयस्य = भीतेः , पूर्वावतरः = प्रथमप्रवेशः , न्यधीयत = निहितः।
तात्पर्यम् —-
“सः हिरण्यकशिपुः अन्यान् द्वेष्टि स्म।
सः असुर इति अन्वर्थः अभवत्।
सः अतीव बलवान्।
अस्मादेव प्रथमं देवानां भयमासीच्च।
"
इति नारदः श्रीकृष्णं कथयति ।
श्लो॥ ४४ .—
“दिशामधीशांश्चतुरो यतः सुरानपास्य तं रागहृताः सिषेविरे।
अवापुरारभ्य ततश्चला इति प्रवादमुच्चैरयशस्करं श्रियः॥”
प्रतिपदार्थः — श्रियः = सम्पदः , दिशाम् अधीशान् = दिक्पालकान् , चतुरः = इन्द्रयमवरुणकुबेरान् चतुरः , अपास्य = त्यक्त्वा , तं = हिरण्यकशिपुं , रागहृताः= अनुरागेण आकृष्टाः , यतः = यदा प्रभृति ,( श्रियः वीरप्रियाः इति कारणतः ) सिषेविरे = सेवितवत्यः , ततः आरभ्य = तदा प्रभृति , अयशस्करं = अप- कीर्तिकरं, “चलाः” = चञ्चलाः इति , उच्चैः = अधिकं , प्रवादं = अपवादं , अवापुः = प्रापुः।
तात्पर्यम् –
नारद एव वदत्येवम् - “श्रियः सदा वीरमेवाश्रयन्ति।
हिरण्यकशिपुः वीरः अभवत्।
सः देवान्सर्वान् जितवान्।
अतः श्रियः दिक्पालान् त्यक्त्वा हिरण्यकशिपोः ऐश्वर्येण तस्मिन् अनुरागेण च आकृष्टाः हिरण्यकशिपुमाश्रित्य सन्ति।
अत एव तदा आरभ्य श्रियः चञ्चला अभवन्।
विशेषः —- श्रियः सदा वीरप्रिया इति ज्ञायते।
श्लो॥ ४५ .– पुराणि दुर्गाणि निशातमायुधं बलानि शूराणि घनाश्च कञ्चुकाः।
स्वरूपशोभैकफलानि नाकिनां गणैर्यमाशङ्क्य तदादि चक्रिरे॥
प्रतिपदार्थः – नाकिनां = सुराणां , गणैः = समूहैः , यं = यं हिरण्यकशिपुं , आशङ्क्य = बाधक इत्यालोच्य , तदादि = तदा प्रभृति , स्वरूपशोभैकफलानि = स्वरूपेणैव शोभामयानि , पुराणि = पट्टणानि , दुर्गाणि =( प्राकार , परिखादिभिः ) दुर्गमानीव , आयुधं = खड्गादिकं , निशातं = निशितं , बलानि = रथगजतुरग- पदातिदलानि , शूराणि = शौर्यवन्ति , कञ्चुकाः = कवचाः , घनाश्च = दृढाश्च चक्रिरे = चक्रुः ( देवाः)
तात्पर्यम् —-
हिरण्यकशिपुं दृष्ट्वा देवास्सर्वे भीतास्सन्तः स्वकीयानि सहजशोभामयानि पट्टणानि प्राकारपरिखादिभिः दुर्गाणि , आयुधानि निशातानि, चतुरङ्गबलानि शूराणि , कवचानि दृढानि चक्रुः।
( शत्रोः दण्डयात्रासमये वयमपि एवंविध सन्नाहान् कुर्मः एव खलु)
श्लो॥ ४६. स सञ्चरिष्णुः भुवनान्तरेषु यां यदृच्छयाऽशिश्रियदाश्रयः श्रियः।
अकारि तस्यै मुकुटोपलस्खलत्करैस्त्रिसन्ध्यं त्रिदशैर्दिशे नमः॥”
प्रतिपदार्थः — भुवनान्तरेषु = अन्येषु लोकेषु , सञ्चरिष्णुः = सञ्चरणशीली सन् , श्रियः = लक्ष्म्याः , आश्रयः = आश्रितः , सः = हिरण्यकशिपुः , यदृच्छया = स्वेच्छया, यां = दिशं , अशिश्रियत् = आश्रितवान् , तस्यै दिशे = तस्मै दिग्भागाय , त्रिसन्ध्यम् = कालत्रये प्रतिदिनं , मुकुटोपलस्खलत्करैः = शिरसि बद्धाञ्जलिभिः , त्रिदशैः = देवैः , नमः = नमस्कारः , अकारि = कृत आसीत्।
तात्पर्यम् — “यदा हिरण्यकशिपुः लोकेषु सञ्चरति तदा तत्रत्य देवास्सर्वे तस्य दिशमनुसृत्य तस्यै दिशे शिरसि बद्धाञ्जलिभिः नमस्कुर्वन्ति स्म।
विशेषाः —-
तिस्रो दशाः ( बाल्य , ्कौमार , यौवनानि ) येषां सन्ति ते त्रिदशाः = देवाः।
देवानां मौलिरत्नेषु तेषां कराः स्खलन्तीति कथनेन ते अतीव भीता श्च।
(
पदच्छेदः प्रतिपदार्थविवरणे एव भवतीति पृथक् न लिखितोऽस्ति)
श्लो\।
४७ “सटाच्छटाभिन्नघनेन बिभ्रता नृसिंह! सैंहीमतनुं तनुं त्वया।
स मुग्धकान्तास्तनसङ्गभङ्गुरैरुरोविदारं प्रतिचस्करे नखैः॥”
प्रतिपदार्थः — “नृसिंह !( नरसिंहरूपधारिन् ) श्रीकृष्ण !, अतनुं = विस्तीर्णां , सैंहीं = सिंहरूपिणीं , तनुं = शरीरं , सटाच्छटाभिन्नघनेन – सटा = केसराणां , छटा = समूहैः , भिन्न = छिन्न, ( उत्क्षिप्त ), घनेन = मेघेन , बिभ्रता = संयुतेन ( अभ्रङ्कषविग्रहेण ), त्वया = भवता , सः = दैत्यः ( हिरण्यकशिपुः ), मुग्धकान्तास्तनभङ्गुरैः – मुग्ध = सुकुमार , कान्ता= स्त्रियः , स्तन = कुचयोः , सङ्ग = सङ्गेनापि , भङ्गुरैः = कुटिलैः ( कठिनैः ), नखैः = कररुहैः , उरोविदारं = वक्षः विदार्य , प्रतिचस्करे = हतः।
तात्पर्यम् —– “भगवन्! भवानेव अभ्रङ्कषविग्रहेण नृसिंहरूपेण तं हिरण्यकशिपुनामानं दैत्यं कुटिलैः नखैः वक्षः विदार्य हतवान् / मारितवान्।
विशेषाः ——-
नारदः श्रीकृष्णस्य नृसिंहावतारमत्र स्मारितवान्।
हिरण्यकशिपुरपि तेनैव हतः इत्युक्तवान्।
नृसिंहस्य नखेषु काठिन्यं मुग्धकान्तास्तनस्पर्शेनापि न परिवर्तितमिति चमत्कृतम्।
अभ्रङ्कषविग्रहत्वेन तस्य उग्ररूपत्वमपि ध्वन्यते।
श्लो॥ ४८. “विनोदमिच्छन्नथ दर्पजन्मनो रणेन कण्ड्वास्त्रिदशैः समं पुनः।
स रावणो नाम निकामभीषणं बभूव रक्षः क्षतरक्षणं दिवः॥”
प्रतिपदार्थः — अथ = ततः ( पुनर्जन्मनि ), सः = हिरण्यकशिपुः , त्रिदशैःसमं = देवैस्सह , रणेन = युद्धेन , दर्पजन्मनः = गर्वेण जातायाः , कण्ड्वाः = कण्डूतेः ( भुजकण्डूतेः ), विनोदं= अपनोदं ( निवारणं ), इच्छन् = अभिलषन् , दिवः = स्वर्गस्य , क्षतरक्षणं= नष्टभागस्य रक्षकं , निकामभीषणं = अतीवभयङ्करं , रावणो नाम = रावणनामा , रक्षः= राक्षसः , बभूव = अभवत्।
तात्पर्यम् —- “स हिरण्यकशिपुरेव पुनर्जन्मनि देवैस्सह रणकण्डूतिवाञ्छया नष्टं सर्वं पुनर्वशमानेतुं रावणो नाम राक्षसोऽभवत्।
श्लो॥४९ .– “प्रभुर्बुभूषुर्भुवनत्रयस्य यः शिरोऽतिरागाद्दशमं चिकर्तिषुः।
अतर्कयद्विघ्नमिवेष्टसाहसः प्रसादमिच्छासदृशं पिनाकिनः॥
प्रतिपदार्थः – “यः = रावणः , भुवनत्रयस्य = लोकत्रयस्य , प्रभुः = स्वामी , बुभूषुः = भवितुमिच्छुः , अतिरागात् = अत्युत्साहात् , दशमं शिरः = दशसङ्ख्याकं शिरः , चिकर्तिषुः= छेत्तुमिच्छुः , इष्टसाहसः = साहसप्रियः , इच्छासदृशं = इच्छानुरूपं , पिनाकिनः = महेश्वरात् , प्रसादं = वरं , विघ्नमिव = प्रतिबन्धकमिव , अतर्कयत् = उत्प्रेक्षितवान्।
तात्पर्यम् —-
रावणः लोकत्रयस्य सर्वाधिकारं प्राप्तुं परमशिवं प्रति तपः कुर्वन् स्वस्य दशमं शिरःशिवस्य प्रीत्यै खण्डितुमुद्युक्तः तत्कार्यं विघ्नमिव चिन्तितवान्।
( परन्तु, सपदि शिवः अभिलषितसर्वाधिपत्यरूपवरं ददौ –( शिवप्रीणनाय अग्नौ नव शिरांसि आहुतीकृत्य दशमस्य आहुति समये शिवात् वरं प्राप्तवानिति पुराणे)
श्लो॥ ५०. “समुत्क्षिपन्यः पृथिवीभृतां वरं वरप्रदानस्य चकार शूलिनः।
त्रसत्तुषाराद्रिसुता ससम्भ्रमस्वयंग्रहाश्लेषसुखेन निष्क्रयम्॥”
प्रतिपदार्थः — “यः = रावणः , पृथिवीभृतां = पर्वतानां , वरं = श्रेष्ठं ,( कैलासपर्वतं ), समुत्क्षिपन् = उच्चैर्नेतुमिच्छन् , शूलिनः = शिवस्य( वरदानस्य ,) त्रसत्तुषाराद्रिसुता = भयग्रस्तायाः पार्वत्याः , ससम्भ्रमस्वयंग्रहाश्लेषसुखेन = सम्भ्रमसहित , स्वयमेव कृत शिवस्य आलिङ्गनसौख्येन , निष्क्रयं चकार = प्रत्युपकारनिर्गतिं चकार = प्रत्युपकारं कृतवान्।
तात्पर्यम् —- रावणः परमशिवात् लब्धस्य त्रिलोकाधिपत्यरूपवरस्य कैलासाद्रिं समुत्क्षिपन् पार्वत्याः आलिङ्गनसुखरूपप्रत्युपकारं कृतवान्।
श्लो॥ ५१. “पुरीमवस्कन्द लुनीहि नन्दनं मुषाण रत्नानि हरामराङ्गनाः।
विगृह्य चक्रे नमुचिद्विषा बली य इत्थमस्वास्थ्यमहर्दिवं दिवः॥”
प्रतिपदार्थः – यः = यो , बली = बलवान् ,( रावणः ) नमुचिद्विषा = इन्द्रेण , विगृह्य = विरुध्य , पुरीं = अमरावतीं , अवस्कन्द = आक्रमणं करोतु , नन्दनं = नन्दनवनं, लुनीहि = छेदयतु , रत्नानि = मणिप्रभृतीनि , मुषाण = अपहरतु , अमराङ्गनाः = देवतास्त्रियः , हर = हरतु , इत्थं = इति , अहर्दिवं = रात्रिंदिवं , दिवः = स्वर्गस्य अस्वास्थ्यं = अनारोग्यं ,= उपद्रवं , चक्रे = चकार।
तात्पर्यम् —- बलवान् रावणः इन्द्रं विरुध्य अमरावतीमाक्रमितुं , नन्दनवनं छेत्तुं , रत्नानि देवतास्त्रियश्च अपहर्तुं, सैनिकानादिश्य अहश्च रात्रिश्च दिवि कल्लोलं कल्पितवान्।
विशेषाः ——-
नमुचिर्नाम कश्चन राक्षसः।
तस्य द्विट् = शत्रुः , इन्द्रः।
माघे दण्डिनः पदलालित्यस्य उदाहरणं भवितुमर्हत्ययं श्लोकः।
श्लो॥ ५२ . " सलीलयातानि न भर्तुरभ्रमोर्न चित्र मुच्चैःश्रवसः पदक्रमम्।
अनुद्रुतः संयति येन केवलं बलस्य शत्रुः प्रशशंस शीघ्रताम्॥”
प्रतिपदार्थः —
संयति = युद्धे , येन = रावणेन , अनुद्रुतः = अनुधावितः , बलस्य शत्रुः = इन्द्रः , अभ्रमोः भर्तुः = ऐरावतस्य , सलीलयातानि = मन्दयानानि , न प्रशशंस= न श्लाघितवान्।
उच्चैश्श्रवसः = उच्चैश्रवो नामक अश्वस्य चित्रं पदं = चित्रविचित्रपदगमनं, न प्रशशंस = न श्लाघितवान्।
केवलं शीघ्रतां= शीघ्रगामित्वमेव प्रशशंस।
तात्पर्यम् —–
रावणकृतसंक्षोभेण इन्द्रस्य मतिश्चलिता।
सः स्वस्य वाहनानि ऐरावतं वा , उच्चैश्रवसं वा प्रशंसितुमशक्तोऽभवत्।
विशेषाः —-
इन्द्रस्य गजस्य नाम ऐरावतः।
तस्य भार्यायाः नाम अभ्रमुः।
इन्द्रस्य अश्वस्य नाम उच्चैश्रवाः।
एतद्वाहनद्वयं क्षीराब्धिमथने लब्धम्।
रावणः इन्द्रमनुधावन् कल्लोलं सृष्टवान्।
श्लो॥५३. “अशक्नुवन् सोढुमधीरलोचनः सहस्ररश्मेरिव यस्य दर्शनम्।
प्रविश्य हेमाद्रिगुहागृहान्तरं निनाय बिभ्यद्दिवसानि कौशिकः॥”
प्रतिपदार्थः — अधीरलोचनः = अस्थिरदृष्टिः , कौशिकः =- इन्द्रः , उलूकश्च , सहस्ररश्मेः इव = सूर्यस्य इव , दर्शनं = दृष्टिं , सोढुं = धर्तुं = वोडुं , अशक्नुवन् = अशक्तः हेमाद्रिगुहागृहान्तरं – हेमाद्रि = हिमाद्रेः , गुहा = गुहा एव , गृह = गृहस्य , अन्तरं = अन्तः , प्रविश्य = प्राप्य , बिभ्यत्त् = भीतभीतस्सन् , दिवसानि= दिनानि , निनाय = यापितवान्।
तात्पर्यम् —–
सूर्यात् उलूकः यथा भीतस्सन् गुहायां तिष्ठति तथा इन्द्रोऽपि रावणात् भीतः हिमवत्पर्वतस्य गुहायां तिष्ठति।
रावणात् इन्द्रः अतीव भीतो भवतीत्यर्थः।
इन्द्रः उलूकेन उपमितः।
रावणः सूर्येण उपमितः।
इव इति उपमावाचकमस्ति।
अतः उपमालङ्कारः।
कौशिक इति पदस्य उलूक इति , इन्द्र इति अर्थद्वयेन श्लेषालङ्कारोऽप्यस्ति।
उलूकः दिवा नेत्राभ्यां द्रष्टुं न शक्नोति।
अतः तस्य दिवाभीत इति नाम सार्थकम्।
इन्द्रस्य नेत्राणि सहस्रम्।
अतः तस्य दृष्टिः अस्थिरा।
उलूकस्य दृष्टिरपि न स्थिरा।
दिवा स न पश्यति।
रात्रावेव पश्यति।
उभावपि भीतावेव।
श्लो॥५४ .– “बृहच्छिलानिष्ठुरकण्ठघट्टनात् विकीर्णलोलाग्निकणं सुरद्विषः।
जगत्प्रभोरप्रसहिष्णु वैष्णवं न चक्रमस्याक्रमताधिकन्दरम्॥”
प्रतिपदार्थः — “बृहच्छिलानिष्ठुरकण्ठघट्टनात् – बृहत् = गुरुतर , शिला = शिला इव = पाषाणमिव , निष्ठुर = कठिन , कण्ठ = कण्ठे , घट्टनात् = घर्षणात् ; विकीर्ण= विक्षिप्त , लोल = चञ्चल , अग्नि = अग्नेः , कणं = कणसदृशं , अप्रसहिष्णु = सोढुमशक्यं , वैष्णवं = विष्णुसम्बन्धि , चक्रं = सुदर्शनचक्रं , जगत्प्रभोः= जगदधिपतेः , अस्य = एतस्य , सुरद्विषः = देवशत्रोः रावणस्य , अधिकन्धरम् = ग्रीवायाः उपरि , न आक्रमत = न अतिष्ठत्।
तात्पर्यम् ——
विस्फुलिङ्गै कणकणायमानं विष्णोः सुदर्शनचक्रं रावणस्य कण्ठे नाद्यापि अपतत्।
अर्थात् – रावणस्य दुरागतानि विष्णोः दृष्टौ नाद्यापि पतितानीत्यर्थः।
श्लो॥ ५५ . “विभिन्नशङ्खः कलुषीभवन्मुहुः मदेन दन्तीव मनुष्यधर्मणः।
निरस्तगाम्भीर्यमपास्तपुष्पकं प्रकम्पयामास न मानसं न सः॥”
प्रतिपदार्थः —
सः = रावणः , मदेन = दर्पेण ,( गजपक्षे) दानेन च , दन्तीव = गज इव , विभिन्नशङ्खः = विघट्टितशङ्खनिधिः , विघट्टितशङ्खश्च, कलुषीभवत्= कलुषितं भवत् , निरस्तगाम्भीर्यं = निरस्तीकृतगाम्भीर्यं , अपास्तपुष्पकं = ध्वंसितपुष्पं , ध्वंसितपुष्पकं च , मनुष्यधर्मणः = कुबेरस्य मानसं = चित्तं , मानसं सरश्च , मुहुः = पदे पदे, न प्रकम्पयामास न = न क्षुभितवानिति न।
( क्षुभितवानेव)
तात्पर्यम् —– यथा गजः मदजलेन मानससरोवरं क्षोभयन् पुष्परहितंशङ्खरहितं अगाधतारहितं च करोति तथा रावणः अधिकारगर्वेण कुबेरस्य मनः गाम्भीर्यरहितं , शङ्खनिधिं शङ्खरहितं , पुष्पकविमानं पुष्परहितं च कुर्वन् क्षोभयति।
विशेषाः ——-
शङ्खनिधिर्नाम नव निधिषु एका निधिः।
कुबेरस्य विमानं पुष्पकमित्युच्यते।
कुबेरस्य पुष्पकविमानं रावणःअपाहरत्।
तस्य शङ्खनिधि मपि अपहृत्य कुबेरं निर्वीर्यमकरोत्।
कुबेरस्य मानससरोवरमपि स्वायत्तमकरोत्।
रावणः मददन्तिना उपमितः।
इव इति उपमावाचक- मस्ति।
रावण , मददन्तिनोः सादृश्यमप्यस्ति।
अतः अत्र उपमालङ्कारः।
अत्र मद , शङ्ख , पुष्पक , गाम्भीर्य , मानस पदानि अर्थे श्लिष्टानि।
अतः श्लेषालङ्कारोऽपि।
श्मश्रू प्रभृति चिह्नानि मनुष्यधर्माः।
एतेषां कुबेरे सत्वात्त् कुबेरः मनुष्यधर्मा इत्युच्यते।
श्लो॥५६ .—
“रणेषु तस्य प्रहिताः प्रचेतसा सरोषहुङ्कारपराङ्ग्मुखीकृताः।
प्रहर्तुरेवोरगराजरज्जवो जवेन कण्ठं सभयाः प्रपेदिरे॥”
प्रतिपदार्थः –
रणेषु = युद्धेषु , प्रचेतसा = वरुणेन , प्रहिताः = प्रेषिताः , उरगराजरज्जवः =( उरगराजाः रज्जव इव ) नागपाशाः , तस्य = रावणस्य , सरोषहुङ्कार- पराङ्ग्मुखीकृताः; सरोष = कोपसहित , हुङ्कार = हुङ्कारेण , पराङ्ग्मुखीकृताः = परावर्तिताः , जवेन = वेगेन , प्रहर्तुः = वरुणस्य , कण्ठमेव = गलमेव, सभयाः = भीताः , प्रपेदिरे = प्रापुः॥
तात्पर्यम् —-
रावणः वरुणेन युद्धमकरोत्।
युद्धे वरुणः रावणस्य उपरि नागपाशान् प्रेषितवान्।
रावणः तान् पाशान् रोषेण वरुणस्य उपर्येव परावर्तितवान्।
ते नागपाशाः पुनरागत्य वरुणस्य कण्ठं गृहीतवन्तः।
श्लो॥ ५७ .– “परेतभर्तुर्महिषोऽमुना धनुर्विधातुमुत्खातविषाणमण्डलः।
हृतेऽपि भारे महतस्त्रपाभरादुवाह दुःखेन भृशानतं शिरः॥”
प्रतिपदार्थः — अमुना = रावणेन , धनुः = शार्ङगं , विधातुं = निर्मातुं , उत्खातविषाणमण्डलः ; उत्खात = उत्पाटित , विषाण = श्रुङ्गयोः , मण्डलः = वलयः, परेतभर्तुः= यमस्य , महिषः = वाहनं , भारे हृतेऽपि = भारे नष्टेऽपि , महतः = अधिकात् , त्रपाभरात् = लज्जाभारात् , भृशानतं; भृश = अतीव , आनतं = नम्रं , शिरः= मूर्थानं , दुःखेन = परितापेन , उवाह = धृतवान्।
तात्पर्यम् —–
रावणः शार्ङ्गं धनुः निर्मातुं यमस्य वाहनस्य महिषस्य श्रुङ्गौ उत्पाटितवान्।
अनेन कर्मणा महिषः लज्जितः दुखेन स्वस्य शिरः अवनतमकरोत्।
श्रुङगोत्पाटनेन महिषस्य भारे नष्टेऽपि महिषः भारं वहतीति कथनं विरुद्ध्यते।
अतः विरोधाभासो नाम अलंकारोऽस्ति।
एतत्परिहारस्तु , एवम् —
विषाणभारस्य अभावेऽपि शिरोऽवनमनेन त्रपाभारोऽस्तीति कथनेन विरोधः परिह्रियते।
यमस्य पराभवस्सूचितोऽस्ति।
श्लो॥ ५८. – “स्पृशन् सशङ्कः समये शुचावपि स्थितः कराग्रैः असमग्रपातिभिः।
अघर्मघर्मोदकबिन्दुमौक्तिकैः अलञ्चकारास्य वधूरहस्करः॥”
प्रतिपदार्थः –
अहस्करः = सूर्यः , शुचौ समये = ग्रीष्मर्तौ आषाढमासे , स्थितोऽपि = विद्यमानोऽपि , असमग्रपातिभिः = असम्पूर्णतया पतद्भिः , कराग्रैः = किरणैः, सशङ्कः = साशङ्कं , स्पृशन् = स्पर्शं दर्शयन् , अस्य = रावणस्य , वधूः = स्त्रियः , अघर्मघर्मोदकबिन्दुमौक्तिकैः ; अघर्म = उष्णरहित , घर्मोदकबिन्दु= स्वेदबिन्दुरूप , मौक्तिकैः = मौक्तिकैः , अलञ्चकार = अलङ्कृतवान्।
तात्पर्यम् —-
रावणस्य अन्तःपुरे सूर्यः ग्रीष्मकाले ऽपि भीतभीतः प्रकाशते।
तस्य किरणानि मन्दोष्णानि सन्ति।
लेशमात्रौष्ण्येन रावणस्य स्त्रीणां मुखेषु स्वेदबिन्दवः मौक्तिकानीव भासन्ते।
सूर्योऽपि रावणाद्बिभेति।
स्वेदबिन्दवः मौक्तिकानीव सन्तीत्यत्र औपम्यं दृश्यते।
श्लो॥ ५९ .– “कलासमग्रेण गृहानमुञ्चता मनस्विनीरुत्कयितुं पटीयसा।
विलासिनस्तस्य वितन्वता रतिं न नर्मसाचिव्यमकारि नेन्दुना॥”
प्रतिपदार्थः —- कलासमग्रेण ; कला = षोडशकलाभिः , शिल्पविद्याभिश्च , समग्रेण = सम्पूर्णेन , गृहान् अमुञ्चता = सदा गृहेष्वेव वसता , मनस्विनीः = मानिनीः, उत्कयितुं = उत्सुकाःकर्तुं , पटीयसा = मानभेदचतुरेण , रतिं वितन्वता = रतिं वर्धयता , इन्दुना = चन्द्रेण , विलासिनः = विलसनशीलस्य , तस्य= रावणस्य , नर्मसाचिव्यं = नर्मसचिवत्वं, न अकारि न = न कृतमिति न ,( कृतमेवेत्यभिप्रायः)
तात्पर्यम् —–
चन्द्रः रावणस्य अन्तःपुरे शुक्लपक्षे इव कृष्णपक्षेऽपि सदा षोडशकलाभिः नर्मसचिव इव भीत्या निवसति।
यथा यस्य कस्यापि वा राज्ञः नर्मसचिवः राजान्तःपुरे स्थित्वा स्वस्य चतुरोक्तिभिः तत्रत्य स्त्रीणां रागं वर्धयन् सर्वेषां वशवर्ती भवति तथा चन्द्रोऽपि रावणस्य अन्तःपुरे वसन् स्वस्य चन्द्रिकाभिः अन्तःपुरस्त्रीषु रागं वर्धयन् आनन्दं च जनयन् रावणात् भीतभीतस्सन् वशवर्ती वर्तते।
विशेषाः ——-
अत्र श्लेषालङ्कारोऽस्ति।
यथा —
अत्र चन्द्रः वर्णितः।
अयं प्रकृत इत्युच्यते।
अप्रकृतः नर्मसचिवः।
अत्र प्रकृतस्य चन्द्रस्य अप्रकृतेन नर्मसचिवेन श्लेषः।
कलाप्रदर्शनं , रागवर्धनं , सदा निवासः वशवर्तित्वञ्च उभयत्र उभयोः समानानि कृत्यानि।
पदान्यपि श्लिष्टानि सन्ति।
राजान्तःपुरेषु नर्मसचिव इव रावणान्तःपुरे चन्द्रः साचिव्यं निर्वहति।
अतः एष प्रकृताप्रकृतश्लेषः।
श्लो॥ ६० .– “विदग्धलीलोचितदन्तपत्रिकाविधित्सया नूनमनेन मानिना।
न जातु वैनायकमेकमुद्धृतं विषाणमद्यापि पुनः प्ररोहति॥”
प्रतिपदार्थः —- मानिना = अहङ्कारिणा , अनेन = रावणेन , विदग्धलीलोचितदन्तपत्रिकाविधित्सया ; विदग्धलीला = चतुरविलासिनीनां , उचित = योग्य, दन्तपत्रिका = कर्णभूषणानां , विधित्सया = विधातुमिच्छया , नूनं = निश्चयेन , जातु = कदाचित् , उद्धृतं = उत्पाटितं , वैनायकं = विनायकसम्बन्धि, एकं विषाणं = दन्त एकः , अद्यापि = प्रस्तुतकालावधि , न प्ररोहति = न प्रादुर्भवति।
तात्पर्यम् —–
रावणः स्वस्य अन्तःपुरस्त्रीणां दन्तपत्रिका नाम कर्णभूषणं निर्मातुं विनायकस्य दन्तद्वये एकमुत्पाटितवान्।
स दन्तः अद्यापि न प्ररोहति।
विशेषः ——-
विनायकस्य एक एव दन्तोऽस्ति।
अत एव सः एकदन्तनान्ना प्रसिद्धोऽस्ति।
रावणान्तःपुरस्त्रीणां दन्तपत्रिका नान्ना आभरणमेकमस्ति।
तन्निर्माणाय रावण एव विनायकात् बलात् तं दन्तम् उत्पाट्य स्वीकृतवानिति तथा उत्पाटितदन्तः नाद्यापि पुनः प्ररोहतीत्यर्थः।
श्लो॥ ६१ .– “निशान्तनारीपरिधानधूननस्फुटागसाप्यूरुषु लोलचक्षुषः।
प्रियेण तस्यानपराधबाधिताःप्रकम्पनेनानुचकम्पिरे सुराः॥”
प्रतिपदार्थः —- निशान्तनारीपरिधानधूननस्फुटागसा अपि ; निशान्त = अन्तःपुरस्थ , नारी = स्त्रीणां , परिधान = अन्तरीयाणां , धूनन = चालनेन , स्फुट = प्रस्फुट, आगसा = अपराधेनापि , ऊरुषु = सक्थिषु , लोलचक्षुषः = सतृष्णदृष्टेः , तस्य = रावणस्य, प्रियेण = इष्टजनेन , प्रकम्पनेन = वायुना , अनपराध- बाधिताः = अपराधाभावेऽपि पीडिताः , सुराः = देवाः , अनुचकम्पिरे = अनुकम्पिताः।
तात्पर्यम् ——
रावणस्य अन्तःपुरे वायुः वीजते।
तस्य वीजनेन तत्रत्य स्त्रीणाम् अन्तरीयाणि निवृत्तानि।
तासां जघनानि दृश्यन्ते।
तानि विलासपुरुषो रावणः अतीव आसक्त्या पश्यन्नस्ति।
वायोः वीजनेन स्त्रीणामन्तर्वस्त्राणि निवृत्तानीति कारणतः वायुः अपराधी अस्ति।
तथापि तस्य वीजनं तत्रत्य स्त्रीणां जघनानि दृष्ट्वा आनन्दमनुभवितुं रावणाय उपकरोति।
अनेन उपकारेण रावणस्य वायुः प्रियो भवति।
एवं रावणस्य प्रियो भूत्वा ये निरपराधिनो देवाः तत्र बन्धिताः सन्ति तान्सर्वान् स्वजातीयान् वायुः रावणस्य बन्धात् स्वस्य पुरुषकारेण विमोचितवान्।
एवं देवाः वायुना अनुकम्पिताः ( अनुगृहीताः ) ।
रावणस्य प्रेमभाजनत्वं वायोश्चातुर्यम्।
तेन मित्राणि देवाः विमुक्ता इति ज्ञेयं।
श्लो॥ ६२. – “तिरस्कृतस्तस्य जनाभिभाविना मुहुर्महिन्ना महसां महीयसाम्।
बभार बाष्पैः द्विगुणीकृतं तनुस्तनूनपाद्धूमवितानमाधिजैः॥”
प्रतिपदार्थः – तस्य = रावणस्य , जनाभिभाविना = लोकतिरस्कारिणा , महीयसां = अतिमहतां , महसां = तेजसां , महिन्ना = महत्त्वेन , मुहुः = पदे पदे , तिरस्कृतः= निराकृतः , तनुः = कृशः , तनूनपात् = अग्निः , आधिजैः = दुखोत्पन्नैः , बाष्पैः = निश्वासोष्मभिः , द्विगुणीकृतं = द्विरावृत्तं , धूमवितानं = धूममण्डलं, बभार = धृतवान्।
तात्पर्यम् —-
रावणात् अग्निः भीतोऽस्ति।
सः न प्रज्वलति सम्यक्।
सः कृशोऽभवत्।
स रावणस्य तेजसा तिरस्कृतः निस्तेजो भूत्वा निश्वसन् दुखेन उष्णानि अश्रूणि मुञ्चन् धूमसहितोऽस्ति।
सः मनोव्याधिना सन्तप्तोऽस्ति।
विशेषः ——
रोगः द्विविधोऽस्ति।
आधिः व्याधिः इति।
आधिर्नाम मानसिको रोगः , व्याधिर्नाम शारीरको रोगः।
अग्नेः धूमः द्विगुणीकृतोऽस्तीति कथनेन अतिशयोक्तिः।
श्लो॥ ६३ .– “परस्य मर्माविधमुज्झतां निजं द्विजिह्मतादोषमजिह्मगामिभिः।
तमिद्धमाराधयितुं सकर्णकैः कुलैर्न भेजे फणिनां भुजङ्गता॥”
प्रतिपदार्थः — इद्धं = उग्रं , तं = रावणं , आराधयितुं = सेवितुं , परस्य = इतरस्य , मर्माविधं = हृदयादिजीवस्थानानि कुलाचारव्रतानि च भिन्दन्तं , निजं = स्वीयं, द्विजिह्मतादोषं = पि्शुनतारूपदोषं , उज्झतां = त्यजतां , फणिनां = सर्पाणां , अजिह्मगामिभिः = ऋजुगतिभिः निष्कपटचारिभिश्च , सकर्णकैः= आविष्कृतकर्णैः , फणिनां कुलैः = सर्पाणां कुलैः , भुजङ्गता = सर्पत्वं विटत्वञ्च , न भेजे = न प्राप्तम्।
तात्पर्यम् —–
रावणात् भयेन पैशुनिकाः सर्पाश्च जागरूकाः भवन्ति।
पैशुनिका नामये अत्रत्य वार्ताः तत्र उक्त्वा , तत्रत्य वार्ताः अत्र उक्त्वा द्वयोर्मध्ये कलहान् कल्पयन्ति , ते।
एते रावणभयेन दुष्प्रवर्तनं त्यक्त्वा ऋजुमार्गेण प्रवर्तन्ते।
एवं सर्पा अपि कुटिलत्वं विहाय सौम्येन शनैश्शनैः नम्राः चलन्ति।
न वेगेन सरन्ति।
पैशुनिका नाम खला अपि भवन्ति।
विशेषाः ——
भुजैः गच्छतीति भुजङ्गः – सर्पः खलश्च।
भुजगाः कुटिलाः।
खलाश्च पैशुन्यवृत्त्या कुटिला एव।
उभावपि रावणभयात्कुटिलत्वं विहाय सौम्यभावेन रावणस्य वशे जीवन्ति।
श्लो॥ ६४ .– “तदीयमातङ्गघटाविघट्टितैः कटस्थलप्रोषितदानवारिभिः।
गृहीतदिक्कैरपुनर्निवर्तिभिश्चिराय याथार्थ्यमलम्भि दिग्गजैः॥”
प्रतिपदार्थः – तदीयमातङ्गघटाविघट्टितैः ; तदीय = रावणसम्बन्धि , मातङ्ग = गजानां , घट = समूहैः , विघट्टितैः = अभिहतैः , कटस्थलप्रोषितदानवारिभिः; कटस्थल = गण्डस्थलेभ्यः , प्रोषित = अपगत , दान = मदस्य , वारिभिः = जलैः , गृहीतदिक्कैः = दिगाश्रितैः , अपुनर्निवर्तिभिः = पुनर्निवर्तनरहितैः , दिग्गजैः= दिक्षु स्थितैः गजैः , चिराय = सर्वदा , याथार्थ्यं = दिग्गजत्वं , अलम्भि = लब्धम्।
तात्पर्यम् —-
पुरा दिग्गजाः यथेच्छया सर्वत्र चरन्त आसन्।
यदा रावणस्य मदगजैः पलायिताः तदा दिगन्तान् गत्वा दिक्षु स्थिरनिवासं चक्रुः।
तदारभ्य दिक्षु एव स्थित्वा दिग्गजा इति सार्धकनाम प्रापुः।
श्लो॥ ६५ .– “अभीक्ष्णमुष्णैरपि तस्य सोष्मणः सुरेन्द्रबन्दीश्वसितानिलैर्यथा।
सचन्दनाम्भःकणकोमलैस्तथा वपुर्जलार्द्रापवनैर्न निर्ववौ॥”
प्रतिपदार्थः – सोष्मणः = स्मरज्वरेण सहितस्य , तस्य = रावणस्य , वपुः = शरीरं , अभीक्ष्णं = भृशं = अतीव , उष्णैः अपि = शोकसन्तप्तैरपि , सुरेन्द्रबन्दीश्वसितानिलैः ; सुरेन्द्र = देवेन्द्रस्य , बन्दी = बन्दीकृतस्त्रीणां , श्वसित = ्निश्वसित , अनिलैः = मारुतैः , यथा = येन प्रकारेण , निर्ववौ = निर्वृतम् = सुखितम् , तथा = तेन प्रकारेण , सचन्दनाम्भःकणकोमलैः ; सचन्दनाम्भःकण = चन्दनोदकबिन्दुभिः , कोमलैः = मृदुलैः , जलार्द्रापवनैः ; जल = जलेन , आर्द्रा = संसिक्त, तालवृन्तानां , पवनैः = वायुभिः , न निर्ववौ= न निर्वृतम् = न सुखितम्।
तात्पर्यम् —–
रावणः बन्दीकृतस्त्रीणां भोगाय कामज्वरसन्तप्तोऽस्ति।
तासां स्त्रीणां शोकेनोच्छ्वसित उष्णवायुभिः यथा सन्तृप्तोऽस्ति तथा चन्दनोदक बिन्दुभिः सिक्तैः तालवृन्तवायुभिः न तृप्तोऽस्ति।
स्त्रीणामुच्छ्वसितानिलाः सोष्णा अपि कामज्वरसन्तप्तस्य तस्य रावणस्य सुखमेव जनयन्ति।
शीतलचन्दनसिक्त तालवृन्तानिल शीतलवायवः अतिशीतला अपि तस्य तृप्तिं न जनयन्ति।
विशेषः ——
“उष्णं उष्णेन शीतल"मिति कश्चन न्यायः अत्रास्ति।
कामज्वरेण सन्तप्तं रावणस्य शरीरम् उष्णमस्ति।
तत् बन्दीकृतस्त्रीणाम् उच्छ्वसितो ष्णानिलैरेव तृप्यति।
न चन्दनसिक्त शीतलतालवृन्तानिलैः।
इति विश्वजनीनसत्यमस्त्यत्र।
श्लो॥ ६६ .—
“तपेन वर्षाः शरदा हिमागमो वसन्तलक्ष्म्याः शिशिरस्समेत्य च।
प्रसूनक्लुप्तिं दधतः सदर्तवः पुरेऽस्य वास्तव्यकुटुम्बितां ययुः॥”
प्रतिपदार्थः —- सदा = सर्वदा , प्रसूनक्लुप्तिं = कुसुमसम्पत्तिं , दधतः = धारयन्तः , ऋतवः = कालाः , वर्षाः = प्रावृट् , तपेन = ग्रीष्मेण , हिमागमः = हेमन्तः , शरदा = शरत्, शिशिरः = शिशिरर्तुः , वसन्तलक्ष्म्या च = वसन्तर्तेन, समेत्य = मिथुनीभावेन मिलित्वा , अस्य = रावणस्य , पुरे = पट्टणे , वास्तव्यकुटुम्बितां= निवासितकुटुम्बभावं , ययुः = प्रापुः।
तात्पर्यम् —–
रावणस्य पुरे ऋतवः षट् कुटुम्बभावेन सर्वदा सह वासं कुर्वन्ति।
( कालिदासस्य ऋतुसंहारकाव्यमयं श्लोकः स्मारयति।
दण्डिनः पदलालित्यं दृश्यतेऽत्र।
)
श्लो॥ ६७ .– “अमानवं जातमजं कुले मनोः प्रभाविनं भाविनमन्तमात्मनः।
मुमोच जानन्नपि जानकीं न यः सदाभिमानैकधना हि मानिनः॥”
प्रतिपदार्थः —-
मनोः = वैवस्वतमनोः , कुले = वंशे = कुटुम्बे , जातं = उद्भवं , अजं = जन्मरहितं , अमानवं = मनुष्यातीतं = दैवस्वरूपं , प्रभाविनं = प्रभावशालिनं , आत्मनः अन्तं भाविनं = स्वस्य = रावणस्य विनाशं भावयन्तं, ( भवन्तं = त्वां –( नारदेनोच्यते) जानन्नपि = विदन्नपि , यः = रावणः , जानकीं = सीतां, न मुमोच = न विमोचितवान्।
मानिनः = अभिमानिनः , सदा = सर्वदा , अभिमानैकधनाः हि != अभिमानमेव एकैकधनमिति मन्यमाना हि!
तात्पर्यम् —–
नारदः एवं वदति - “भवतः स्वरूपं सम्यक् जानन्नपि आत्मविनाशमिच्छन् जानकीं न विमोचितवान्।
तुभ्यमपि द्रुह्यति।
विशेषः ——-
प्राणात्ययेऽपि = प्राणापायस्थितावपि अभिमानैकधनाः केचन स्वाभिमानं न मुञ्चन्तीति कथनेन अत्राऽर्थान्तरन्यासो नाम अलङ्कारः।
रावणः अभिमानैकधन इति ज्ञायते।
श्लोकोऽयमपि दण्डिनः पदलालित्यस्य उदाहरणं भवितुमर्हति।
वेदान्ततत्त्वं “राम एव भगवा"निति ज्ञायते च।
श्लो॥ ६८ .- “स्मरत्यदो दाशरथिर्भवन्भवानमुं वनान्ताद्वनितापहारिणम्।
पयोधिमाबद्धचलज्जलाविलं विलङ्घ्य लङ्कां निकषा हनिष्यति॥”
प्रतिपदार्थः —- “भवान् = त्वं, दाशरथिः भवन् = रामः सन् , वनान्तात् = दण्डकारण्यात् , वनितापहारिणं = सीतापहर्तारं , अमुं = रावणं , आबद्ध , चलज्जलाविलं= आबद्ध = प्रक्षिप्त अद्रिभिः बद्धसेतु , चलज्जलाविलं = चञ्चलज्जलैः क्षुभितं , पयोधिं = समुद्रं , विलङ्घ्य = उल्लङ्घ्य , लङ्कां निकषा = लङ्कायाः समीपे , हनिष्यति = अवधीत् — “इति ,- अदः = एतत् हननं , स्मरति किम्?
तात्पर्यम् —— नारदः कृष्णाय रामावतारे सीतापहरणं , सेतुबन्धनं , समुद्रलङ्घनं , रावणसंहारं च स्मारयति।
श्लो॥ ६९ .- “अथोपपत्तिं छलनापरोऽपरामवाप्य शैलूष इवैष भूमिकाम्।
तिरोहितात्मा शिशुपालसंज्ञया प्रतीयते सम्प्रति सोऽप्यसः परैः॥”
प्रतिपदार्थः —- अथ = राक्षसदेहत्यागानन्तरं , सम्प्रति = इदानीं , छलनापरः = परप्रतारणपरः , एषः = रावणः , शैलूषः = नटः , भूमिकां इव = रूपान्तरमिव , अपराम् उपपत्तिं = जन्मान्तरं , अवाप्य = प्राप्य , शिशुपालसंज्ञया = शिशुपालनामधेयेन , तिरोहितात्मा = तिरोहितस्वरूपस्सन् , परैः = इतरैः , असः इव= सः न भवतीति वत् = तस्मादन्य इव , प्रतीयते = ज्ञायते = भाति।
तात्पर्यम् ——
नारदः श्रीकृष्णं वक्ति एवम् – “स रावणोऽद्य तद्देहत्यागानन्तरं पुनः वञ्चयितुं जन्मान्तरं प्राप्य शिशुपालसंज्ञया प्रच्छन्नवेषेण चरति शैलूष इव।
मानुषदेहपरित्यागादन्य इव भाति।
स एवायम्।
दौर्जन्यन्तु तदेव।
अवश्यं संहार्य एषः।
“इति।
श्लो॥ ७० .—-
“स बाल आसीद्वपुषा चतुर्भुजो मुखेन पूर्णेन्दुनिभस्त्रिलोचनः।
युवा कराक्रान्त महीभृदुच्चकै रसंशयं सम्प्रति तेजसा रविः॥”
प्रतिपदार्थः —
सः = शिशुपालः , बालः सन् = बाल्ये तिष्ठन् , वपुषा = शरीरेण , चतुर्भुजः = भुजचतुष्टयवान् , मुखेन = आननेन , पूर्नेन्दुनिभः = पूर्णचन्द्रतुल्यः, त्रिलोचनः = त्र्यम्बकः , आसीत्।
सम्प्रति = इदानीं , युवा सन् = युवकः सन् , कराक्रान्तमहीभृत् = अधिष्ठितराजकः सन् , अंशुव्याप्तशैलश्च , उच्चकैः= उन्नतेन , तेजसा = कान्त्या , रविः = सूर्यः , असंशयम् = संशयो मास्तु।
तात्पर्यम् —–
नारदः शिशुपालवृत्तान्तं कथयति —-
“शिशुपालः बाल्ये भुजचतुष्टयवान्।
चन्द्रबिम्बाननः सः।
युवा सन् राज्यमधिष्ठित्य करान् गृह्णन् अस्ति सः त्रिलोचन इवास्ति।
सम्प्रति रविरिव प्रकाशते।
कोऽपि संशयो नास्ति।
“इति।
विशेषाः ——-
श्लेषानुप्राणित उत्प्रेक्षालङ्कारोऽस्त्यत्र।
यथा —
कराक्रान्त इत्यत्र श्लेषः – कर इत्यस्य शुल्कमिति , किरणमिति , अर्थद्वयम्।
राजपक्षे शुल्क- मिति।
सूर्यपक्षे किरणमिति।
पूर्णेन्दुनिभ इत्यनेन उपमालङ्कारः।
चतुर्भुजः , त्रिलोचनः इत्यत्र उत्प्रेक्षा।
हरिहरादितुल्यप्रभावेन सः अतीव दुर्धर्षः इति च ज्ञायते।
श्लो॥७१ .– “स्वयं विधाता सुरदैत्यरक्षसामनुग्रहावग्रहयोर्यदृच्छया।
दशाननादीनभिराद्धदेवतावितीर्णवीर्यातिशयान् हसत्यसौ॥”
प्रतिपदार्थः —- यदृच्छया = स्वेच्छया , स्वयं = सामर्थ्येन , सुरदैत्यरक्षसां = देवदानवयातुधानानां , अनुग्रहावग्रहयोः = प्रसादनिग्रहयोः, विधाता = कर्ता = असौ= शिशुपालः , अभिराद्धवेवतावितीर्णवीर्यातिशयान् ; अभिराद्ध = आराधित , ्देवता = देवताभिः , वितीर्ण = दत्त , वीर्यातिशयान् = प्रभावातिशयान्, दशाननादीन् = रावणादीन् , हसति = परिहसति।
तात्पर्यम् —— शिशुपालः शिवप्रभृतिदेवानामाराधनेन पराक्रमादीनि सम्पाद्य रावणादीन् परिहसति।
श्लो॥७२ .- - “बलावलेपादधुनापि पूर्ववत् प्रबाध्यते तेन जगज्जिगीषुणा।
सतीव योषित्प्रकृतिः सुनिश्चला पुमांसमभ्येति भवान्तरेष्वपि॥”
प्रतिपदार्थः — जिगीषुणा = नित्योत्साहवता , तेन = शिशुपालेन , बलावलेपात् = बलगर्वात् , अधुनापि = अद्यापि , पूर्ववत् = पूर्वजन्मनीव , जगत् = लोकः, प्रबाध्यते = बाध्यते , सती योषित् इव = पतिव्रतास्त्रीः इव , सुनिश्चला = अतिस्थिरा , प्रकृतिः = स्वभावः , भवान्तरेष्वपि = जन्मान्तरेष्वपि, पुमांसम् = पुरुषं , अभ्येति = प्राप्स्यति।
तात्पर्यम् —–
शिशुपालः पूर्वजन्मनीव बलगर्वेण लोकान् पीडयति।
पतिव्रता यथा जन्मान्तरे पतिं प्राप्नोति तथा सुनिश्चला प्रकृतिरपि जन्मान्तरेषु पुरुषं प्राप्स्यति।
अतः शिशुपाले पूर्वजन्मस्वभावो दृश्यते।
विशेषाः ——-
“पतिं या नाभिचरति मनोवाक्कायसंयता।
सा भर्तृलोकमवाप्नोति सद्भिस्साध्वीतिचोच्यते” ( मनुः) अत्र उपमेयपुरस्कृतोऽर्थान्तरन्यासोऽलङ्कारः।
श्लो॥ ७३. – “तदेनमुल्लङ्घितशासनं विधेर्विधेहि कीनाशनिकेतनातिथिम्।
शुभेतराचारविपक्त्रिमापदो निपातनीया हि सतामसाधवः॥”
प्रतिपदार्थः – तत् = तस्मात्कारणात् ( पूर्वस्वभावेन पीडनात् ), विधेः = ब्रह्मणः , उल्लङ्घितशासनं = अतिक्रान्तशासनं , एनं = शिशुपालं , कीनाशनिकेतनातिथिम् ; कीनाश = यमस्य, निकेतन = गृहस्य , अतिथिम् = अतिथित्वेन , विधेहि = कुरु।
शुभेतराचारविपक्त्रिमापदः = दुराचारपरिपाकेन आपन्नाः , असाधवः = दुष्टाः , सतां = सत्पुरुषाणाम्, निपातनीया हि = वध्या हि ( वधार्हा हि)
तात्पर्यम् —
" - शिशुपालः ब्रह्मणः शासनमुल्लङ्घ्य जनान् पीडयित्वा स्वयंकृतापराधेन अतीव दुष्टोऽस्ति।
क्षन्तुं नार्हति।
अतः तं यमसदनम् अवश्यं प्रेषय।
“इति नारदः श्रीकृष्णमुवाच।
विशेषाः ——
स्वयंकृतापराधः न क्षन्तव्यः।
अलङ्कारः अर्थान्तरन्यासः।
शुभेतराचारविपक्त्रिमापदो निपातनीया हि सतामसाधवः इति वाक्यं सामान्यम्।
सर्वसाधारणो न्यायः।
एतद्वाक्यं, विधिमतिक्रम्य स्वयमपराद्धो शिशुपालः अवश्यं वधार्हः इतिविशेषवाक्येन ( उदाहरणवाक्येन) समर्थितम्।
श्लो॥ ७४ .– “हृदयमरिवधोदयादुदूढ द्रढिम , दधातु पुनः पुरन्दरस्य।
घनपुलक पुलोमजाकुचाग्र द्रुतपरिरम्भनिपीडनक्षमत्वम्॥”
प्रतिपदार्थः —- अरिवधोदयात् = अरेः = शिशुपालस्य , वध = नाशेन , उदयात् = लाभात् , उदूढद्रढिम = निश्चितदार्ढ्यं , पुनः = भूयः , पुरन्दरस्य = इन्द्रस्य , हृदयं = मनः , घनपुलक पुलोमजाकुचाग्रद्रुतपरिरम्भनिपीडनक्षमत्वम्; घनपुलक = सान्द्ररोमाञ्चयोः , पुलोमजा = शचीदेव्याः , कुचाग्र = स्तनाग्रयोः , द्रुत = शीघ्र , परिरम्भ = आलिङ्गन जनित , पीडन = पीडने , क्षमत्वं = सहत्वं , दधातु = जनयतु।
तात्पर्यम् ——-
शिशुपालभयात् इन्द्रः अद्यावधि पीडितोऽस्ति।
शिशुपालः हन्यते चेत् सः पुनः आनन्देन पत्नीपरिरम्भणादि सौख्येन निष्कण्टकं राज्यं पालयितुं शक्नोति।
शिष्टरक्षणकार्यमपि सिद्ध्यति।
“इति नारदेनोक्तम्।
श्लो॥ ७५. – ओमित्युक्तवतोऽथ शार्ङ्गिण इति व्याहृत्य वाचं नभ स्तस्मिन्नुत्पतिते पुरः सुरमुनाविन्दोः श्रियं बिभ्रति।
शतॄणामनिशं विनाशपिशुनः कृद्धस्य चैद्यं प्रति व्योन्नीव भ्रुकुटिच्छलेन वदने केतुश्चकारास्पदम्॥
प्रतिपदार्थः —— तस्मिन् सुरमुनौ = स नारदः , इति = इत्थं , वाचं = वाक्यानि , व्याहृत्य = उक्त्वा , नभः = गगनं , उत्पतिते = गते , इन्दोः = चन्द्रस्य , श्रियं = शोभां , बिभ्रति सति = वहति सति , चैद्यम्प्रति = शिशुपालम्प्रति , क्रुद्धस्य = आग्रहयुक्तस्य , ओम् - इति उक्तवतः = ओमिति कथितवतः , शार्ङ्गिणः = श्रीकृष्णस्य, वदने = मुखे , भ्रुकुटिच्छलेन- भ्रूभङ्गव्याजेन, अनिशं = सदा , शतॄणां = रिपूणां , विनाशपिशुनः = विनाशसूचकः , केतुः = धूमकेतुः , व्योन्नि इव = गगने इव , आस्पदं चकार = स्थितः।
तात्पर्यम् —–
नारदस्य वचांसि श्रुत्वा श्रीकृष्णः “तथास्तु"इत्युक्तवान्।
नारदः गगनं गतवान्।
सः चन्द्र इवास्ति।
श्रीकृष्णः चैद्यम्प्रति क्रुद्धःअभवत्।
क्रोधेन तस्य भ्रुकुटिः वक्रः आसीत्।
कृष्णस्य वदने वक्रो भ्रूभङ्गः गगने उत्पातसूचकः धूमकेतुरिव अस्ति।
विशेषः ——-
वक्रो भ्रूभङ्गः धूमकेतुरिव अस्तीति कथनेन उपमालंकारः।
“ओम्” इति पदम्अङ्गीकारसूचकम्।
( सर्गः समाप्तः)