श्लो॥ १ . यियक्षमाणेनाहूतः पार्थेनाथ द्विषन्मुरम्।
अभिचैद्यं प्रतिष्ठासुःआसीत् कार्यद्वयाकुलः॥
प्रतिपदार्थः — अथ = इन्द्रसन्देशमुक्त्वा नारदस्य निर्गमनान्तरं , यियक्षमाणेन = यष्टुम् इच्छता = राजसूययागं कर्तुम् इच्छता , पार्थेन =( पृथायाःपुत्रेण ) युथिष्ठिरेण = धर्मराजेन, आहूतः = आकारितः , अभिचैद्यं = शिशुपालं प्रति , प्रतिष्ठासुः = प्रस्थातुम् इच्छुः , मुरं द्विषन् = मुरारिः ( श्रीकृष्णः ), कार्यद्वयाकुलः – कार्यद्वय = सुरकार्य , सुहृत्कार्यद्वयेन, आकुलः = व्याकुलः , आसीत् = अभवत्।
तात्पर्यम् —–
इन्द्रस्य सन्देशं ( शिशुपालवधः करणीय इति) नारदात् श्रीकृष्णः श्रुतवान्।
नारदः निर्गतवान् च।
ततः धर्मराजः राजसूययागार्थं श्रीकृष्णं आहूतवान्।
अद्य श्रीकृष्णेन कार्यद्वयं करणीयम् अस्ति।
शिशुपालवधाय प्रयतितव्यं वा यागार्थं गन्तव्यं वा इति।
किं करणीयम् इति व्याकुलमनाः ( व्याकुलमनस्कः = व्याकुल चित्तः ) आसीत् =( सन्दिहानः = संशयग्रस्तः) अभवत्।
( एषः संशयः एव उक्तकार्यद्वयस्य करणीयविषये मन्त्रणाय बीजं भवति)
श्लो॥ २. सार्धमुद्धवसीरिभ्यां अथासौ ( अथ असौ) आसदत् सदः।
गुरुकाव्यानुगां बिभ्रत् चान्द्रीम् अभिनभः श्रियम्॥
प्रतिपदार्थः — अथ = सन्देहानन्तरं , असौ = हरिः , अभिनभः = नभःप्रति = गगनं प्रति , गुरुकाव्यानुगां , गुरु =( देवगुरुं ) बृहस्पतिं , काव्य =( दैत्यगुरुं ) शुक्रं , अनुगां = अनुसृत्य गच्छन्तीं, चान्द्रीं = चन्द्रसम्बन्धिनीं ,( चान्द्रमसीं ), श्रियं = शोभां , बिभ्रत् = वहन् , उद्धवसीरिभ्यां सार्धं = उद्धवबलरामाभ्यां सह , सदः = सभां , आसदत् = अगमत् ( अगच्छत्)
तात्पर्यम् —– सन्देहानन्तरं उपरि श्लोकोक्त कार्यद्वयविषये चर्चितुं उद्धवबलरामाभ्यां ( उद्धवः - कृष्णस्य पितृव्यः , बलरामः अग्रजः ) एतदुभाभ्यां सह सभां प्राविशत्.
विशेषाः ——
राजसभां पुरा प्रासाद इति व्य्वहरन्ति स्म।
स्वस्मात् वयसा वृद्धौ बुद्धिशालिनौ मन्त्रणाय नीतवान् कृष्णः।
उद्धवः स्वयं पितृव्यःमन्त्री च।
बलरामः अग्रजः एव।
उभौ अपि आत्मीयौ।
अनयोः उभयोः सन्दिग्धस्य कार्यस्य मन्त्रणाय नयनं श्रीकृष्णस्य राजनीतिपरिज्ञानं सूचयति।
पुरा राजकार्यमन्त्रणाय कीदृशानि स्थलानि भवेयुःइति विषये मनुः एवम् उवाच – - श्लो॥गिरिपृष्ठं समारुह्य प्रासादं वा रहोगतः।
अरण्ये निःशलाके वा मन्त्रयेद्भावभाविनौ॥“इति।
अलङ्कारः उपमा।
श्रीकृष्णः चन्द्र इव , उद्धवः बृहस्पतिः इव , बलरामः शुक्र इव सन्ति।
चन्द्रस्य पश्चात् तौ उभौ गच्छतः।
चन्द्रः गगनं प्रविशति।
सभामण्टपं गगनम् इव अस्ति।
श्रीकृष्णस्य प्रकाशात् उद्धवबलरामयोः प्रकाशः न्यूनमेव।
चन्द्रः गगने नक्षत्राणां राजा।
श्रीकृष्णोऽपि राजा एव।
अतः अत्र औपम्यानि समुचितानि सन्ति।
श्लो॥ ३. जाज्ज्वल्यमाना जगतः शान्तये समुपेयुषी।
व्यद्योतिष्ठ सभावेद्यामसौ नरशिखित्रयी॥
प्रतिपदार्थः — जगतः = विश्वस्य , शान्तये = अनुपद्रवाय = उपद्रवराहित्याय , समुपेयुषी = सम्मिलिता , जाज्ज्वल्यमाना = अतीव ज्वलन्ती , असौ = एषा , नरशिखित्रयी = नररूपाग्नि त्रयी , सभावेद्यां = सभावेदिकायां , व्यद्योतिष्ट = दीप्यते स्म।
तात्पर्यम् —-
- श्रीकृष्णः उद्धवः बलरामश्च दक्षिणाग्निः आहवनीयाग्निः गार्हपत्याग्निः इति त्रयः अग्नयः इव सभावेदिकायां प्रकाशन्ते।
ते विश्वस्य शान्तिसम्पादनाय समुचितचर्चां कर्तुं सम्मिलिताः।
विशेषाः ——–
अग्नित्रयं यज्ञे भवति।
यज्ञे देवा आहूयन्ते।
तेषां प्रीत्यै हवींषि दीयन्ते।
मन्त्रपूतैः हविर्भिः देवाः तृप्ताः विश्वं पञ्चभिः भूतैः उपद्रवरहितं कुर्वन्तः विश्वस्य शान्तिं अनुगृह्णन्ति।
अत्र यज्ञस्य औपम्येन विश्वशान्तये यज्ञस्य प्राधान्यं सूच्यते।
शिशुपालेन उपद्रवो भवतीति तन्निवारणेन विश्वे शान्तिर्भविष्यतीति च सूच्यते।
अत्र रूपकमलङ्कारः।
अग्नित्रयस्य ( उपमानस्य) धर्मं - जाज्ज्वल्यमानरूपत्वं नरत्रये ( श्रीकृष्णोद्धवबलरामत्रये - उपमेये) आरोपितम्।
नरा एव अग्नयः इति कथितम्।
अतः रूपकम्।
श्लो॥ ४. रत्नस्तम्भेषु संक्रान्तप्रतिमास्ते चकाशिरे।
एकाकिनोऽपि परितः पौरुषेयवृता इव॥
प्रतिपदार्थः —- रत्नस्तम्भेषु = रत्नैः खचितेषु स्तम्भेषु , संक्रान्तप्रतिमाः = प्रतिफलितप्रतिबिम्बाः, ते = त्रयः ( श्रीकृष्णोद्धवबलरामाः ), एकाकिनोऽपि = असहाया अपि , परितः= सर्वतः , पौरुषेयवृता इव = पुरुषसमूहेन आवृता इव , चकाशिरे = रेजिरे।
तात्पर्यम् ——
सभायां स्तम्भाः रत्नखचितास्सन्ति।
तेषु, श्रीकृष्णोद्धवबलरामानां एकाकिनामपि तेषां रूपाणि प्रतिबिम्बितानि दृश्यन्ते।
एवं स्थिते सभायां त्रयाणामेव सत्वेऽपि बहवः पुरुषाः तत्र स्थिता इव भासन्ते।
श्लो॥ ५ . “अध्यासामासुरुत्तुङ्गहेमपीठानि यान्यमी।
तैरूहे केसरिक्रान्तत्रिकूटशिखरोपमा॥”
प्रतिपदार्थः —- अमी = श्रीकृष्णोद्धवबलरामादयः त्रयः , यानि उत्तुङ्गहेमपीठानि - उत्तुङ्ग = उन्नत , हेम = सुवर्ण , पीठानि = आसनानि , अध्यासामासुः = अधितस्थुः = अधिष्ठितवन्तः , तैः = तैः पीठैः , केसरिक्रान्तत्रिकूटशिखरोपमा – केसरि = सिंहैः , क्रान्त = आक्रमित , त्रिकूट = त्रिकूटनान्नः पर्वतस्य , शिखर = शिखराणां= = अग्राणां , उपमा = सादृश्यं , ऊहे = ऊढा = धारिता।
तात्पर्यम् —
उन्नतसुवर्णसिंहासनेषु उपविष्टाः श्रीकृष्णोद्धवबलरामादयः त्रयः सिंहैः आक्रमितत्रिकूटपर्वतशिखराणीव शोभन्ते।
उपमालङ्कारः।
( पूर्वतन “रत्नस्तम्भेष्वि"ति श्लोके उत्प्रेक्षालङ्कारः —
तत्र लेखनं विस्मृतम्)
श्लो॥६ . " - गुरुद्वयाय गुरुणोरुभयोरथ कार्ययोः।
हरिर्विप्रतिषेधं तमाचचक्षे विचक्षणः॥”
प्रतिपदार्थः – अथ = सिंहासने उपवेशनानन्तरं , विचक्षणः = वक्ता ( विचष्टे इति विचक्षणः ), हरिः = श्रीकृष्णः , गुर्वोः = उद्धवरामयोः ( पितृव्य , ज्येष्ठभ्रात्रोर्द्वयस्य ) , गुरुणोः = महतोः , उभयोः = द्वयोः , कार्ययोः =( यज्ञार्थं हस्तिनापुरगमनं , शिशुपालवधार्थं चेदिदेशगमनं ), तं = व्याकरणोक्तं , विप्रतिषेधं = विरोधं , आचचक्षे= आख्यातवान् = उक्तवान्।
तात्पर्यम् —
“तुल्यबलविरोधो विप्रतिषेधः"इति व्याकरणसूत्रम्।
यज्ञार्थं गमनं चेदिदेशगमनं च मुख्यावेव।
उभयोः कार्ययोः समानप्रामुख्यमस्ति।
सुरकार्य , सुहृत्कार्ययोः समानभारत्वेन द्वयोर्मध्ये किं विरुध्य किं कर्तव्यमिति विषये श्रीकृष्णःउद्धवबलरामाभ्याम् भाषते।
विशेषः — व्याकरणसूत्रस्य प्रसङ्गेन कविः व्याकरणं सम्यक् जानातीति ज्ञायते।
श्लो॥ ७. “द्योतितान्तःसभैः कुन्दकुट्मलाग्रदतःस्मितैः।
स्नपितेवाभवत्तस्य शुद्धवर्णा सरस्वती॥”
प्रतिपदार्थः —– “कुन्दकुट्मलाग्रदतः - कुन्द = माघमासीय मल्लिकापुष्पस्य , कुट्मल = मुकुलानां , अग्र = अग्राणीव ( भासमान ) दतः = दन्तवतः , तस्य = हरेः, सरस्वती = वाक् , द्योतितान्तस्सभैः – द्योतित = ्प्रकाशित , अन्तःसभैः = सभान्तस्थैः , स्मितैः = मन्दहासैः , स्नपिता इव = स्नानं कृतवतीव , शुद्धवर्णा =( स्फुटाक्षरैः ) स्वच्छकान्तिमती , अभवत् = बभूव।
तात्पर्यम् —
श्रीकृष्णः स्मितभाषी।
तस्य स्मितेन सभा रञ्जिता अस्ति।
सः यदा वक्तुमारेभे तदा तस्य वाक् ( सरस्वती) प्रस्फुटाक्षरा सती तस्य दन्तकान्तिभिः स्वच्छा सती स्नानं कृतवती इव भासते।
स्मितपूर्वभाषी हरिरिति ज्ञायते।
दन्ताः स्वभावतःशुद्धाः श्वेताः सन्तीति कारणेन स्नाता इति उत्प्रेक्ष्यते।
अलङ्कारः उत्प्रेक्षा।
श्लो॥८. “भवद्गिरामवसरप्रदानाय वचांसि नः।
पूर्वरङ्गप्रसङ्गाय नाटकीयस्य वस्तुनः॥”
प्रतिपदार्थः — भवद्गिरां = युष्मद्वाचां , अवसरप्रदानाय = अवकाशकल्पनाय , नः = अस्माकं , वचांसि = भाषणानि , नाटकीयस्य वस्तुनः = नाटकसम्बन्धि कथायाः , प्रसङ्गाय= प्रयोगाय , पूर्वरङ्गः = आरम्भसदृशः।
तात्पर्यम् — श्रीकृष्णः उद्धवबलरामाभ्यामेवं वदति - “भवतोः भाषणावकाशकल्पनाय नाटकस्य पूर्वरङ्ग इव ममेमानि वाक्यानि श्रुण्वन्तु” इति।
विशेषाः —-
अत्र जगन्नाटकसूत्रधारी श्रीकृष्णः नाटकीयफणितिमाश्रित्य भाषते चातुर्येण।
चर्चासु यत्र कुत्रापि प्रस्तुतविषयं स्वयं प्रतिपाद्य भागस्वामिनामभिप्रायाः आहूयन्ते येन केनापि प्रथमम्।
तदेवात्र श्रीकृष्णेन कृतम्।
कविः माघोऽपि स्वकीये श्रव्यकाव्ये दृश्यकाव्यप्रक्रियामवलम्बते।
नाटकेषु नाटकप्रयोगस्य निर्विघ्नपरिसमाप्त्यर्थं नान्दीपाठ , गीतवादित्रादिभिः प्रार्थनादिरूपाणि कर्माणि पूर्वरङ्ग इत्युच्यते।
सूत्रधारी निर्वहतीदं कार्यम्।
“पूर्वरङ्गं विधायादौ सूत्रधारे विनिर्गते।
प्रविश्य तद्वदपरः काव्यमास्थापयेन्नटः” इति शास्त्रं वदति।
श्रीकृष्णस्य वाक्यान्येवात्र चर्चनीयांशस्य पूर्वरङ्गः।
श्रीकृष्णवाक्य , पूर्वरङ्गयोः प्रसञ्जकत्वरूपसामान्यधर्मं पृथक्पदाभ्यां – एकत्र अवसरप्रदानाय इति , अन्यत्र प्रसङ्गाय इति, निर्देशेन अत्र प्रतिवस्तूपमालङ्कारो भवति।
श्रीकृष्णस्य वाक्यानि उपमेयम्।
पूर्वरङ्गः उपमानम्।
वाक्ययोरेकसामान्ये प्रतिवस्तूपमा मता इति तल्लक्षणम्।
श्लो॥ ९. “करदीकृतभूपालो भ्रातृभिर्जित्वरैर्दिशाम्।
विनाप्यस्मदलंभूष्णुःइज्यायै तपसः सुतः॥”
प्रतिपदार्थः —- “दिशां जित्वरैः = दिशः जेतुं समर्थैः ,, भ्रातृभिः = भीमादिभिः , करदीकृतभूपालः – करदीकृत = शुल्केन वशीकृत , भूपालः = राजमण्डलः , तपसः पुत्र = धर्मराजः, अस्मद्विनापि = अस्मत्सहायं विनापि , इज्यायै = यागाय , अलंभूष्णुः = समर्थो भविता = समर्थो भविष्यति।
तात्पर्यम् —-
“श्रीकृष्णः स्वाभिप्रायमेवं वदति —
“धर्मराजस्य बाहुबलपराक्रमसम्पन्नाः सोदरास्सन्ति।
शुल्कं स्वीकृत्य अनेकान् नृपान् स्ववशे स्थापितवन्तः।
अस्माकं ( श्रीकृष्णोद्धवबलरामादीनां) सहायं विनापि यागकार्यं निर्वोढुं शक्नुयादेव"इति।
तदानीन्तनकालीन शुल्कस्वीकरणविधानमेवमस्ति –( शुल्कं नाम करः) स्वकीयादाये षष्ठं भागं तदा सामन्तराजानः चक्रवर्तिने दत्तवन्त आसन्।
श्लो॥ १०. “उत्तिष्ठमानस्तु परो नोपेक्ष्यः पथ्यमिच्छता।
समौ हि शिष्टैरान्नातौ वर्त्स्यन्तावामयः स च॥”
प्रतिपदार्थः —
उत्तिष्ठमानः = वर्धमानः , परः तु = शत्रुस्तु , पथ्यं = हितं , आरोग्यं च , इच्छता = अभिलषमाणेन , नोपेक्ष्यः ( न + उपेक्ष्यः )= उपेक्षितुं नार्हति।
वर्त्स्यन्तौ = वर्धिष्यमाणौ, सः = शत्रुः , आमयश्च = व्याधिरपि, शिष्टैः = नीतिकोविदैः , समौ = समानौ, आन्नातौ = व्याख्यातौ।
तात्पर्यम् —–
श्रीकृष्ण एव एवं वदति – “यज्ञार्थं गत्वा तत्समाप्त्यनन्तरं शिशुपालवधाय जैत्रयात्रां कुर्मश्चेत् तन्न साधु दृश्यते।
कुत इति चेत्, वर्धमानं शत्रुं वा व्याधिं वा कदापि नोपेक्षेत इति नीतिविदः ब्रुवन्ति।
हितमिच्छामश्चेत् शत्रुं नोपेक्षेत।
आरोग्यमिच्छामश्चेत् व्याधिं नोपेक्षेत।
उपेक्ष्यन्ते यदि शत्रुर्विजयी भवति।
रोगी च मृतो भवति।
अतः शिशुपालवधविषये विलम्बस्तु न कार्य” इति।
विशेषाः ——-
अत्र उपमालङ्कारोऽस्ति।
कवेः वाक्यरचना हेतुबद्धा दृश्यतेऽत्र।
पात्रैरपि सहेतुकसम्भाषणानि चालयति।
श्लो॥ ११. “न दूये सात्वतीसूनुः यन्मह्यमपराध्यति।
यत्तु दन्दह्यते लोकमदो दुखाकरोति माम्॥”
प्रतिपदार्थः — सात्वतीसूनुः = शिशुपालः ,( सात्वती नाम श्रीकृष्णस्य पितृष्वसा - तस्याः पुत्रः ), यत् = यस्मिन् विषये , मह्यं = मे = मदर्थं , अपराध्यति = अपराधं करोति ( मां = मद्विषये , द्रुह्यति = द्रोहं करोति) तत् ( अध्याहार्यम् )= तस्मिन् विषये , न दूये = न परितप्ये = न बाधाम् अनुभवामि , यत् तु = यस्मिन् तु विषये, लोकं = जनान् , दन्दह्यते = अतीव दहति = बाधते , अदः = एतत् दहनं = एषा बाधा , माम् = मा , दुःखाकरोति = दुःखयति = बाधते।
तात्पर्यम् —
श्रीकृष्णः वदत्येवम् – “एष शिशुपालः मम पैतृष्वसीयः।
मम बन्धुरेव।
मयि विषये अपराधी।
तथापि नाहं परितपामि।
किन्तु , सः जनान् बाधते।
जनस्य हिंसनमेव मां दुःखयति।
विशेषः —-
अत्र श्रीकृष्णे गुणविशेषं वयं पश्यामः।
सः स्वस्मात् परं लोकस्य हितं चिन्तयति प्रथमम्।
परार्थमेव जीवनमिति सन्देशं ददाति सः।
परेषां सन्तोषणेन स्वस्यापि सन्तोषो भवतीति तत्त्वं ज्ञापयति तस्य चिन्तनम्।
श्लो॥ १२. “मम तावन्मतमिदं श्रूयतामङ्ग! वामपि।
ज्ञातसारोऽपि खल्वेकः सन्दिग्धे कार्यवस्तुनि॥”
प्रतिपदार्थः ——-
“इदं तावत् = एतत् तावत् , मम = मे, मतम् = मतिः = अभिप्रायः , अङ्ग! भोः , वां अपि = युवयोः ( अभिप्रायं - अध्याहार्यं ) मतं अपि , श्रूयताम्= मया श्रोतुम् शक्यते =( श्रोतुमिच्छाम्यहम् = शुश्रूषुरहम् )= श्रावयन्तु।
ज्ञातसारः अपि = विदिततत्त्वार्थः अपि = त्तत्त्वार्थं जानन्नपि , एकः = एकाकी सन् , कार्यवस्तुनि = कर्तव्यार्थे = करणीयकार्ये , सदिग्धे खलु = संशेते खलु = सन्दिहानो भवति खलु = संशयग्रस्तो भवति खलु।
तात्पर्यम् —–
श्रीकृष्णः स्वाभिप्रायमुक्त्वा उद्धवबलरामयोरभिप्रायमपि श्रावयितुमभ्यर्थयते।
एतदभ्यर्थने उपपत्तिं दर्शयत्येवम् – यःकोऽपि जनः तत्त्वार्थं वा = वस्तुतत्त्वं वा = साकल्येन विषयं जानन्नपि एकाकी भूत्वा एकैनैव मनसा सन्दिग्धविषये “इत्थं कर्तव्य"मिति यत्किमपि निश्चेतुं न शक्नोतीति।
अत्र अलङ्कारस्तु अर्थान्तरन्यासः।
विशेषाः —–
श्रीकृष्णस्य भाषणं श्लाघ्यमस्त्यत्र।
तस्मिन् विनम्रता , मर्यादा , मृदुत्वम् , आलोचनापद्धतिः , कार्यसाधकस्य लक्षणम् इत्यादि विशिष्टगुणाः ज्ञायन्ते।
यस्मिन्कस्मिन्नपि कार्यविषये एवं भाषितव्यमिति बोधितमत्र।
स्वाभिप्रायादपि परेषाम भिप्रायस्यैव मूल्यमधिकं दातव्यमिति जानीमश्चाप्यत्र।
श्लो॥ १३. “यावदर्थपदां वाचमेवमादाय माधवः।
विरराम महीयांसः प्रकृत्या मितभाषिणः॥”
प्रतिपदार्थः —– माधवः = श्रीकृष्णः , यावदर्थपदां = अभिधेयसम्मिताक्षरां ( उचितार्थपदगुम्फितां ), एवम् = उक्तप्रकारेण , वाचम् आदाय = वचांसि गृहीत्वा = उक्त्वा , विरराम = तूष्णीम् आस = मौनेन अतिष्ठत् , महीयांसः = उत्तमाः , प्रकृत्या = स्वभावेन , मितभाषिणः = मितं भाषन्ते।
तात्पर्यम् —
- श्रीकृष्णः अर्थवन्ति सारवन्ति वचांसि उक्त्वा तूष्णीमभवत्।
वृथा किमपि न भाषितम्।
एतदुत्तमानां लक्षणम्।
श्रीकृष्णः उत्तमः खलु।
उत्तमाः स्वभावतः मितं भाषन्ते।
अलङ्कारस्त्वत्र अर्थान्तरन्यासः।
उत्तमाः मितभाषिणः इति सामान्यवाक्यम् = सार्वजनिकतत्त्वम्।
एतद्वाक्यं “श्रीकृष्णः मितभाषणमकरोत्"इति वाक्येन ( उदाहरणपूर्वक विशेषवाक्येन) समर्थितम्।
विशेषाः —— संस्कृतपठनेन तत्तत्समयेषु सन्दर्भेषु कार्येषु समस्यासु कथं कथं भाषणं कुर्यादिति वयं जानीमः।
श्लो॥ १४. “ततः सपत्नापनयस्मरणानुशयस्फुरा।
ओष्ठेन रामो रामोष्ठबिम्बचुम्बनचुञ्चुना॥”
प्रतिपदार्थः ——-
ततः = श्रीकृष्णस्य भाषणविरमणानन्तरं , रामः = बलरामः , सपत्नापनयस्मरणानुशयस्फुरा – सपत्न = शत्रोः ( शिशुपालस्य ), अपनय= अपकारस्य , स्मरण = स्मरणजनित , अनुशय = पश्चात्तापेन , स्फुरा = कम्पमानेन , रामोष्ठबिम्बचुम्बनचुञ्चुना – रामा = रामायाः ( रेवत्याः ) , ओष्ठबिम्ब = बिम्बसदृश ओष्ठस्य , चुम्बन = चुम्बने , चुञ्चुना = निपुणेन , ओष्ठेन = अधरोष्ठेन —
जगाद इति २१ श्लोकस्थ क्रियया अन्वयः जगाद इत्यस्य उक्तवान् इत्यर्थः।
एतच्छ्लोकादारभ्य अष्टभिः श्लोकैः बलरामस्य वर्णनम्भवति।
एवम् अष्टानां श्लोकानाम् अन्तिम श्लोके एकैव क्रिया ( क्रियापदम्) अस्ति चेत् “कुलक"मित्युच्यते।
तात्पर्यम् ——-
- शिशुपालस्य दुरागतानि बलरामस्य हृदि अकस्मात् स्फुरन्ति।
एवं स्फुरणेन क्रुद्धस्सन् कम्पमानेन ओष्ठेन भाषितुमारब्धवान्।
तस्य ओष्ठः पत्न्याः रेवत्याः अधरोष्ठचुम्बने निपुण इति “इदं काव्यमिति कारणतः अलङ्कारेण वर्णितोऽस्ति।
विशेषाः ———-
“ओष्ठबिम्ब"मित्यत्र ओष्ठः बिम्बेन उपमितः।
अतः उपमालङ्कारः।
“रामो राम"इति व्यञ्जनद्वयस्य व्यवधिं विना प्रयोगेन छेकानुप्रासः।
अत्र “न , ब , च , “इति व्यञ्जनानां आवृत्त्या वृत्त्यनुप्रासः।
श्लो॥ १५. “विवक्षितामर्थविदस्तत्क्षणप्रतिसंहृताम्।
प्रापयन् पवनव्याधेर्गिरमुत्तरपक्षताम्॥”
प्रतिपदार्थः —— विवक्षितां =( वृद्ध इति कारणेन अग्रे) वक्तुमिष्टां , तत्क्षणप्रतिसंहृतां = वक्तुमुपक्रमस्य क्षणे एव , प्रतिसंहृतां = उपसंहृतां , अर्थविदः = कार्यज्ञस्य, पवनव्याधेः = उद्धवस्य , गिरम् = वाचम् , उत्तरपक्षतां = सिद्धान्तपक्षताम् , प्रापयन् = नयन् —– “जगादे"त्यन्तिम श्लोकस्थक्रियापदेनान्वयः।
तात्पर्यम् ——–
बलरामः स्वाभिप्रायं वक्तुमुपचक्रमे।
अत्रान्तरे वृद्धो उद्धवः वृद्धत्वाभिमानेन किञ्चिद्वक्तुकामोऽभवत्।
परन्तु , बलरामस्य अनुरोधेन निरुद्धस्सन् स्वप्रयत्नमुपसंहृतवान् तत्क्षणे एव।
बलरामः उद्धवस्य अभिप्रायं सिद्धान्तीकर्तुमालोचितवान्।
अत्र कारणमेवमस्ति —
- बलरामः स्वभावेन दुर्योधनाभिमानी।
शिशुपालः दुर्योधनस्य सखा एव।
प्रथम श्लोके शिशुपालस्य दुरागतस्मरणेन बलरामस्य अनुशयो ( पश्चात्तापो ) जात इत्युक्तम्।
दुरागतस्मरणेन कम्पितोऽपि पश्चात्तप्त इति कारणेन सः असत्पक्षावलम्बी इति स्पष्टं भवति।
अतः सिद्धान्त प्रतिपादनाय उद्धवाय अवकाशं कल्पयितुकामः उद्धवस्य प्रसङ्गसङ्कल्पं निरोधितवान्।
एष निरोधः बलरामस्य प्रसङ्गे व्यग्रतां सूचयति।
व्यग्रतायाः कारणं दुर्योधने तन्मेत्रे शिशुपाले च अभिमानो भवेदिति भावयेत्।
श्लोकः॥ १६. “घूर्णयन् मदिरास्वादमदपाटलितद्युती।
रेवतीवदनोच्छिष्ठपरिपूतपुटे दृशौ॥”
प्रतिपदार्थः —– मदिरास्वादमदपाटलितद्युती ; मदिरास्वाद = मद्यपानस्य , मद = मदेन , पाटलित = ईषद्रक्तीकृत , द्युती = कान्तिमत्यौ , रेवतीवदनोच्छिष्ठपरिपूत- पुटे ; रेवती = रेवत्याः ( पत्न्याः ), वदन = मुखे , उच्छिष्ठं = मद्यलेप , ताम्बूलादि , अक्षिचुम्बनसङ्क्रान्त्या , परिपूतपुटे = परिशुद्धपुटे , दृशौ = नेत्रे , घूर्णयन्= & nbsp; भ्रामयन् ,—— “जगादे"त्यन्तिम श्लोकेनान्वयः।
तात्पर्यम् ——
बलरामः मद्यपानं करोति।
तेन पानेन तस्य नेत्रे ईषद्रक्ते ( पाटलीपुष्पवत्) जाते स्तः।
पत्न्याः वदनोच्छिष्ठताम्बूलाद्यक्षिचुम्बनेनापि ते नेत्रे परिशुद्धे स्तः।
तादृशनेत्रे भ्रामयन् —-
“जगादे"त्यन्तिम श्लोकेनान्वयः।
विशेषाः ——-
बलरामस्य मद्यपानाभ्यासोऽप्यस्ति।
अत एव स्वस्य वचांसि प्रमाणं न भवेदिति मत्वा स एव सिद्धन्तं वाचयितुं मध्ये वक्तुमुद्दिष्टम् उद्धवं निरोधितवान्।
तस्य नेत्रे पत्न्याः वदनोच्छिष्ठताम्बूलचुम्बनादिभिः परिशुद्धे अपि स्तः।
अत्र प्रमाणमप्येवमस्ति – - श्लो॥ रतिकाले मुखं स्त्रीणां शुभ्रमाखेटके शुनाम्"इति।
अत्र अलङ्कारस्तु विरोधाभासः – यथा – “मद्यपानेन पत्न्याः वदनोच्छिष्ठेन च बलरामस्य वदनम् अपवित्रं जातम्।
तथापि परिशुद्धमिति प्रोक्तं द्वितीयचरणे।
कथमपवित्रं परिशुद्धम्भवतीत्यत्र विरोधोऽस्ति।
अतः विरोधाभासः।
केवलं भासते एव।
न तु, वस्तुतः – कुत इति चेत् – “रतिकाले मुखं स्त्रीणां शुभ्र"मिति शास्त्रे कथनात् – तत्परिहारोऽपि भवति।
कामशास्त्रे प्रोक्तं तथा।
श्लो॥१७. “आश्लेषलोलुपवधूस्तनकार्कश्यसाक्षिणीम्।
म्लापयन्नभिमानोष्णैर्वनमालां मुखानिलैः॥”
प्रतिपदार्थः — आश्लेषलोलुपवधूस्तनकार्कश्यसाक्षिणीम्म; आश्लेष = आलिङ्गने , लोलुप = आसक्त , वधू = वध्वाः ( पत्न्याः ), स्तन = कुचयोः , कार्कश्य = काठिन्यस्य साक्षिणीम् = साक्षिभूतां , वनमालां = कण्ठमालां , अभिमानोष्णैः = अहङ्कारतप्तैः , मुखानिलैः = निश्श्वासवायुभिः , म्लापयन् = ग्लापयन् – “जगाद”।
तात्पर्यम् —-
बलरामस्य कण्ठे वनमाला अस्ति।
पादान्तं कण्ठे लम्बमाना पुष्पमाला वनमाला इत्युच्यते।
बलरामस्य पत्नी रेवती पतेरालिङ्गनमिच्छति स्म नित्यम्।
तेन तस्याः कठिनौ कुचौ पीड्यमानौ स्तः।
कण्ठे नित्यं स्थिता वनमाला एतत्काठिन्यरहस्यं जानाति।
अतः नित्यं गले स्थितां वनमालां तद्रहस्यं जानातीति कुप्यन् तदुपरि निश्श्वसित्यहङ्कारेण बलरामः।
अहङ्कारप्रभावेण निश्श्वासवायवः उष्णा भवन्ति।
तादृशोष्ण वायुभिः गले स्थितां वनमालां ग्लापयन् ——-
“जगादे"त्युत्तरोत्तरेणान्वयः।
विशेषाः —–
बलरामस्य मद्यपानव्यसनेन सह सुरतावप्यधिकासक्तिरस्तीति ज्ञायते।
वनमालोपरि तस्य उग्ररूपदर्शनेन नित्यमुद्रिक्तो भवन्तिष्ठतीत्यपि ज्ञातव्यम्भवति।
अत्र अतिशयोक्तिरलङ्कारः।
असम्बन्धे सम्बन्धरूपोऽयम्।
वनमालायाः म्लाननं नोष्णवायुभिर्भवति।
रतिसमये स्तनयोः काठिन्येन कुचमर्दनेन च मध्ये लग्ना माला मर्दिता सती ग्लपिता भवति।
वस्तुतः सम्बन्धाभावेऽपि सम्बन्धोक्त्या अतिशयोक्तिः।
श्लो॥ १८. “दधत्सन्ध्यारुणव्योमस्फुरत्तारानुकारिणो।
द्विषद्द्वेषोपरक्ताङ्गसङ्गिनः स्वेदविपृषः॥”
प्रतिपदार्थः ——- सन्ध्यारुणव्योमस्फुरत्तारानुकारिणीः ; सन्ध्या = सन्ध्याकाले , अरुण = रक्ते , व्योम = आकाशे , स्फुरत् = प्रकाशमान , तारा = नक्षत्राणि, अनुकारिणीः = अनुकुर्वन्तः , द्विषद्द्वेषोपरक्ताङ्गसङ्गिनः ; द्विषत् = शत्रोः , द्वेष = क्रोधेन , उपरक्त = रञ्जित , अङ्ग = शरीरे , स्वेदविपृषः = स्वेदबिन्दून्, &nbs p; दधत् = दधानः ———- “जगादे"त्युत्तरेण २१ श्लोकेनान्वयः।
तात्पर्यम् – बलरामस्य शरीरं शिशुपालस्य उपरि क्रोधेन रक्तवर्णरञ्जितमस्ति।
तस्मिन् शरीरे स्वेदबिन्दवः सन्ति।
ते सन्ध्यया अरुणित आकाशस्थित नक्षत्राणीव भासन्ते।
तादृशस्वेदबिन्दुधारी ———
“जगाद = उक्तवान्"इति अग्रिम श्लोकेन अन्वयः।
विशेषाः —
बलरामस्य शरीरस्य वर्णः अतीव गौरः।
सः वर्णः शिशुपाले क्रोधेन अतीव रक्तो जातः।
शरीरे क्रोधेन स्वेदोऽस्ति।
स्वेदबिन्दवः अरुणिमास्सन्ति ते तलतलायमानाः सन्ध्यया अरुणिते आकाशे नक्षत्राणीव भासन्ते।
उपमालङ्कारोऽस्त्यत्र।
श्लो॥१९. “प्रोल्लसत्कुण्डलप्रोतपद्मरागदलत्विषा।
कृष्णोत्तरासङ्गरुचं विदधच्चौतपल्लवीम्॥”
प्रतिपदार्थः —- “प्रोल्लसत्कुण्डलप्रोतपद्मरागदलत्विषा ; प्रोल्लसत् = अतीव प्रकाशमान , कुण्डल = कुण्डलद्वयस्य , प्रोतानां = स्यूतानां , पद्मरागदलानां = पद्मराग शकलानां , त्विषा = कान्त्या , कृष्णोत्तरासङगरुचं = नीलोत्तरीयस्य कान्तिं , चौतपल्लवीं = चूतपल्लवसम्बन्धिनीं रुचं , विदधत् = कुर्वन् – जगाद।
तात्पर्यम् ——
बलरामस्य कर्णकुण्डलयोः पद्मरागमणयः सन्ति।
तेषां वर्णः अरुणः।
बलरामस्य शरीरे नीलमुत्तरीयमस्ति।
शरीरस्य अरुणवर्णः उत्तरीयस्य नीलवर्णः मिलित्वा चूतपल्लववत् नीललोहितमिश्रवर्णेन धूम्रो वर्णो भवति।
तादृशवर्णेन भासमानो बलरामः —
“जगादे"त्यन्वयः।
विशेषाः —–
अत्र पदार्थवृत्तिरूपा निदर्शना अलङ्कारः।
एकस्मिन् पदार्थे ( वस्तुनि) अन्यपदार्थधर्मस्य आरोपः क्रियते चेत् निदर्शना।
अत्र बलरामस्य शरीरे कुण्डलस्थपद्मरागमणीनां अरुणवर्णं , उत्तरीयस्य नीलवर्णं दृष्ट्वा उभयोः मिश्रणे चूतपल्लवस्य कृष्णलोहितमिश्रधूम्रवर्णत्वमारोपितम्
श्लो॥ २०. “ककुद्मिकन्यावक्त्रान्तर्वासलब्धाधिवासया।
मुखामोदं मदिरया कृतानुव्याधमुद्वमन्॥”
प्रतिपदार्थः —- ककुद्मिकन्यावक्त्रान्तर्वासलब्धाधिवासया; ककुद्मिकन्या = पत्न्याः रेवत्याः , वक्त्रान्तः = मुखस्य अन्तः , वास = निवासेन , लब्ध = प्राप्त , वासया= वासनासहितया , मदिरया = मद्येन , कृतानुव्याधं = कृतसंसर्गं , मुखामोदं = मुखस्य परिमलम्, उद्वमन् = उद्गिरन् ——– “जगादे"त्यन्वयः।
तात्पर्यम् —–
बलरामः मदिरां पिबति।
तेन तस्य आस्ये मदिरायाः गन्धो भवति।
पत्न्याः रेवत्याः आस्येऽपि मदिरागण्डूषस्य समीपस्थ गन्धमाल्याद्यैः सहाधिवसनेन तत्सम्पर्केण सुगन्धो भवति।
गन्धमाल्याद्यैः गण्डूषस्य रेवत्याः आस्ये अधिवसनेन रेवतीबलरामयोरुभयोःआस्ये प्राक् स्थितो गन्धः तिरोहितस्सन् तत्र गन्धमाल्यादिना अधिवसित नूतनपरिमलितगन्धः आविर्बभूव।
विशेषाः ——
अत्र तद्गुणालङ्कारः।
स्वगुणत्यागो दृश्यतेऽत्र।
मदिरागण्डूषस्य आस्ये गन्धमाल्यादिसम्पर्केण अधिवसनात् प्राक् स्थितो गन्धः स्वकीय दुर्गन्धं त्यक्त्वा नूतनसुगन्धं स्वीकृतवान् खलु।
श्लो॥ २१. “जगाद वदनच्छद्मपद्मपर्यन्तपातिनः ।
नयन्मधुलिहःश्वैत्यमुदग्रदशनांशुभिः॥”
प्रतिपदार्थः — “वदनच्छद्मपद्मपर्यन्तपातिनः ; वदन = मुखमेव , छद्म = छद्मवत् , पद्म = पद्मस्य , पर्यन्त = प्रान्त = पार्श्वयोः , पातिनः = सञ्चारिणः , मधुलिहः = मधुपान्, उदग्रदशनांशुभिः ; उदग्र = उच्छ्रित , दशन = दन्तानां , अंशुभिः = किरणैः , श्वैत्यं = धावल्यं , नयन् = प्रापयन् ( धवलान् कुर्वन् ) , जगाद = उक्तवान्।
तात्पर्यम् —–
“बलरामस्य वदनमेव पद्मम् ।
तद्व्याजीकृत्य मधुपाः तत्प्रान्तेषु सञ्चरन्ति ।
मधुपानां वर्णः कृष्णः ।
बलरामस्य दन्ताः श्वेताः ।
दन्तानां धवलकान्तिभिः मधुपान् ( कृष्णवर्णिनः ), धवलान् ( श्वेतवर्णिनः) कुर्वन् ( वाचम्) उक्तवान् ।
( हसन् भाषते बलरामः)
विशेषाः ——-
बलरामस्य मुखं पद्ममिव सुगन्धभरितमस्ति ।
तत्सुगन्धमाघ्रातुं मधुपाःतत्प्रान्तेषु सञ्चरन्ति ।
ते बलरामस्य दन्तकान्तिभिः श्वेतास्सञ्जाताः ।
अत्रापि पूर्वस्मिंच्छ्लोके इव तद्गुणालङ्कारोऽस्ति ।
मधुपाः स्वकीयं कृष्णवर्णं त्यक्त्वा श्वेतवर्णं स्वीकृतवन्त इति कारणम् ।
अपह्नवो नामालङ्कारोऽप्यस्ति ।
वदने वदनत्वम् अपह्नुत्य ( आच्छाद्य) पद्मत्वम् व्याजीकृतम् ( आरोपितम् ) ।
कमलमिति कारणेन तत्रत्यगन्धेन आकृष्टाः मधुपाः आयान्ति ।
अतः अपह्नवः ।
एवमत्र तद्गुणापह्नवावलङ्कारौ स्तः।
श्लो॥ २२. “यद्वासुदेवेनादीनमनादीनवमीरितम् ।
वचसस्तस्य सपदि क्रिया केवलमुत्तरम्॥”
प्रतिपदार्थः —– “वासुदेवेन = श्रीकृष्णेन , अदीनं = अकातरं = निर्भयं , अनादीनवं = निर्दोषं , यत् = यद्वचः , ईरितं =( उत्तिष्ठमानस्तु – इति प्रप्रथमम् ) प्रोक्तं , तस्य वचसः = तद्वाक्यस्य, सपदि = सद्यः , क्रिया = अनुष्ठानम् ( आचरणम् ), केवलं = एव , उत्तरम् = समाधानम् = सिद्धान्तम्।
तात्पर्यम् ——- बलरामेणापि “शत्रुर्नोपेक्ष्य"इति कृष्णेन यदुक्तं तदेवात्र समर्थितम्।
विशेषाः ———
मदिराव्यसनपरायणोऽपि बलरामः सम्यगुक्तवान् ।
वचसः सार्धक्यं क्रियया आचरणमेवेति सिद्धान्तितम् ।
मनोवाक्कायकर्मसु कश्चन क्रमो दृश्यते ।
मनसा चिन्तितं वचसा भाषणं क्रियया आचरणमिति करणत्रयप्रक्रिया सूच्यतेऽत्र ।
“आदीनवो"नाम दोष इति अमरकोशे ।
माघकवेः पदप्रयोगा अद्भुताः।
श्लो॥ २३. “नैतल्लघ्वपि भूयस्या वचो वाचातिशय्यते ।
इन्धनौघधगप्यग्निस्त्विषा नात्येति पूषणम्॥”
प्रतिपदार्थः —–
लघ्वपि = संक्षिप्तमपि , एतत् वचः = पूर्वोक्तं श्रीकृष्णस्य “अनुष्ठातव्य"मिति वाक् , भूयस्या = विस्तृततया , वाचा = गिरा , नातिशय्यते = नातिरिच्यते ।
इन्धनौघधग् अपि = काष्ठराशिदाहकोऽपि, अग्निः = वह्निः , त्विषा = प्रभया , पूषणं = सूर्यं , नात्येति ( न + अत्येति )= नातिक्रामति।
तात्पर्यम् ——-
श्रीकृष्णेन “सपदि क्रियैव” समाधानमिति पूर्व श्लोके यदुक्तं तद्वचः अत्यल्पमपि तत्र गुरुतरार्थस्य सत्वेन विस्तरेणोक्तवचांस्यतिक्रम्य किमपि न कृतम् ।
एतदल्पीयसि वचस्यपि अवसरोचिता महती शक्तिरस्ति ।
यथा – काष्ठराशिदाहकोऽग्निः अल्पप्रभावसम्पन्नोऽपि स्वस्य कार्यं सम्यङ्निर्वहन् स्वस्मात् अधिकतेजश्शालिनं सूर्यं नातिक्रामति खलु ।
तेजसः प्रभावत्त्वमिव वचनेऽपि अर्थवत्वं नोल्लङ्घनीयम् ।
श्रीकृष्णस्य वाक्यं लघ्वपि गुरुतरमर्थे ।
( बलराम एवोक्तवानेवम्)
विशेषाः ———
अत्र दृष्टान्तालङ्कारोऽस्ति ।
उपमेयोपमानवाक्ययोः समानधर्मोऽत्र अनुल्लङ्घनीयता = अनतिक्रमणम् ।
श्रीकृष्णस्य अल्पीयसि वचसि स्थितोऽर्थः विस्तरेणोक्तवचसां प्रभावं नातिक्रामति ।
यथा उपमानवाक्यगत सूर्यस्य प्रभावं काष्ठरासिदाहकोऽग्निः अल्पीयानपि नातिक्रामति ।
एवं समानधर्मस्य बिम्बप्रतिबिम्बभावेन उपमेयोपमानवाक्यद्वये एकधैव = एकया रीत्या कथनात् दृष्टान्तोऽलङ्कारः ।
अत्र माघे भारवेः कवितागुणोऽर्थगौरवं दृश्यते।
श्लो॥ २४. ‘संक्षिप्तस्याप्यतोऽस्यैव वाक्यस्यार्थगरीयसः ।
सुविस्तरतरा वाचो भाष्यभूता भवन्तु मे॥”
प्रतिपदार्थः —— अतः = श्रीकृष्णस्य वचसः अतिकमणाभावात्, संक्षिप्तस्य = सङ्ग्रहेण स्थितस्य , अर्थगरीयसः = गुरुतरार्थस्य, अस्य = श्रीकृष्णस्य , वाक्यस्यैव = वचसः एव, मे = मम ( बलरामस्य ), वाचः = वचांसि , सुविस्तरतराः ( सन्तः )= विस्तरेणोच्यमानाः , भाष्यभूताः = व्याख्यानरूपाः , भवन्तु = सन्तु।
तात्पर्यम् ——–
बलरामः वदत्येवम् – “श्रीकृष्णेनोक्तं गुरुतरार्थसम्पन्नं लघु वाक्यार्थमनतिक्रम्यैव मे वक्ष्यमाण सुविस्तरतरा वाचः तस्य संक्षिप्तवाक्यार्थस्य व्याख्यान रूपाः भवन्तु ।
“इति।
विशेषाः ———
श्रीकृष्णेनोक्तं लघु वाक्यं सूत्ररूपमस्ति ।
तस्य व्याख्यानमेव बलरामेणोक्तानि वक्ष्यमाणवचांसि ।
अत्रोऽपमालङ्कारोऽस्ति ।
श्रीकृष्णस्य संक्षिप्तं वाक्यं सूत्रमिवास्ति ।
बलरामस्य विस्तारित वचांसि तद्व्याख्यानानीव ( भाष्यानीव) सन्ति ।
सादृश्यस्य सत्वेन च उपमालङ्कारः ।
अत्र सूत्रं नाम —
“अल्पाक्षरमसंदिग्धं सारवद्विश्वतोमुखं ।
अस्तोभमनवद्यं च सूत्रं सूत्रविदो विदुः॥“इति तल्लक्षणम् ।
भाष्यं नाम – - “सूत्रस्थं पदमादाय वाक्यैस्सूत्रानुसारिभिः ।
स्वपदान्यत्र वर्ण्यन्ते भाष्यं भाष्यविदो विदुः॥” ( सूत्रव्याख्यानविशेषो भाष्यम् ।
)
श्लो॥ २५. विरोधिवचसो मूकान् वागीशानपि कुर्वते ।
जडानप्यनुलोमार्थान् प्रवाचःकृतिनां गिरः॥”
प्रतिपदार्थः —-
“कृतिनां = कुशलानां = निपुणानां , गिरः = वाचः , विरोधिवचसः = प्रतिकूलवादिनः , वागीशान् अपि = वाक्पतीनपि , मूकान् = निर्वाचः , कुर्वते = कुर्वन्ति ।
अनुलोमार्थान् = अनुकूलवादिनः , जडान् अपि = मन्दानपि , प्रवाचः = प्रगल्भवादिनः , कुर्वते = कुर्वन्ति।
तात्पर्यम् ——-
वाङ्नैपुण्यसम्पन्नाः प्रतिकूलवादिनो वागीशानपि मूकान् कर्तुं शक्नुवन्ति ।
तथैव अनुकूलवादिनो जडानपि वाचि प्रगल्भान् कर्तुं प्रभवन्ति ।
वाङ्मिपुणाः सर्वसमर्थाः ।
बलराम एव एवमुक्तवान्।
विशेषाः ——– अत्र वागीशानां मूकीकरणात् जडानां प्रवाक्त्वकरणाच्च शक्यवत्करणरूपो विशेषालङ्कारः।
श्लो॥ २६. - “षड्गुणाः शक्तयस्तिस्रः सिद्धयश्चोदयास्त्रयः ।
ग्रन्थानधीत्य व्याकर्तुमिति दुर्मेधसोप्यलम्॥”
प्रतिपदार्थः — “दुर्मेधसोऽपि = मन्दबुद्धयोऽपि , ग्रन्थान् = शुक्रनीतिशास्त्रग्रन्थान् , अधीत्य = पठित्वा , गुणाः = सन्धि , विग्रह , यान , आसन , द्वैधीभाव , समाश्रयाः , षट् , शक्तयः = प्रभु, मन्त्र , उत्साहाख्याः , तिस्रः , सिद्धयः = पूर्वोक्तशक्तित्रयसाध्याः ( पुरुषार्थलाभात्मिकाः ) प्रभुसिद्धि , मन्त्रसिद्धि , उत्साहसिद्धिश्चेति तिस्रः , उदयाः = वृद्धिक्षयस्थानानि, ( वृद्धिक्षयौ , स्वशक्तिसिद्ध्योःपूर्वावस्थानादुपचयापचयौ स्थानं च त्रयः उदया उच्यन्ते) इति, व्याकर्तुम् = व्याख्यातुम् , अलम् = समर्थाः।
तात्पर्यम् ——
शिशुपालनिग्रहार्थं प्रस्थानमेवोचितमिति श्रीकृष्णस्य अभिप्रायमेव सिद्धान्तयित्वा उद्धवप्रतिरोधं मनसि निधाय उद्धवादीनां वचनमग्राह्यमिति मन्दबुद्धयोऽपि शुक्रनीतिशास्त्रादिग्रन्थान् रचयितुं शक्नुवन्तीति बुद्धिमतां आग्रहो न योग्य इति्, शलोकेऽस्मिन् प्रोक्त नीतिशास्त्रविषयान् सम्यगालोच्य कदा कदा किं किं करणीयमिति च पर्यालोच्य कार्यकुशलो भवितुमर्हतीति , श्रीकृष्णादि राजनीतिज्ञैरेव किमपि कर्तुं साध्यमिति , उद्धवादिभिरशक्यमिति स्वाभिप्रायमुक्तवानत्र बलरामः ।
शास्त्रोक्तार्थव्याख्यातैव शास्त्रज्ञ इति , तस्य वचनमेव ग्राह्यमिति च तस्य अभिप्रायः।
विशेषाः ——–
सन्धिर्नाम —
अरिविजिगीष्वोः व्यवस्थाकारणमैक्यं सन्धिः ।
विरोधो विग्रहः ।
विजिगीषोः अरिं प्रति यात्रा यानम् ।
तयोः मिथः प्रतिबद्धशक्त्योःकालप्रतीक्षया तूष्णीमवस्थानम् = आसनम् ।
दुर्बलप्रबलयोः वाचिकमात्मसमर्पणम् – द्वैधीभावः ।
अरिणा पीड्यमानस्य बलवदाश्रयणम् —
संश्रयः ।
कोशदण्डोत्थ तेजः – - प्रभावः ।
कर्तव्यार्थेषु स्थेयान् प्रयत्नः – उत्साहः ।
षड्गुणचिन्तनम् —
मन्त्रः।
श्लो॥ २७. “अनिर्लोडितकार्यस्य वाग्जालं वाग्मिनो वृथा ।
निमित्तादपराद्धेषोर्धानुष्कस्येव वल्गितम्॥”
प्रतिपदार्थः ——- अनिर्लोडितकार्यस्य = अनवलोकितकार्यस्य = कार्याकार्यमजानतः , वाग्मिनः = वावदूकस्य = प्रलापिनःविदुषः , वाग्जालं = वागाडम्बरः, निमित्तात् = लक्ष्यात् , अपराद्धेषोः ( अपराद्ध + इषोः )= स्खलितबाणस्य = च्युतबाणस्य , धानुष्कस्य = धन्विनः = धनुर्धारिणः , वल्गितमिव = लङ्घनमिव , वृथा = निष्फलम्।
तात्पर्यम् ——— कार्याकार्यमजानतः वाचालपण्डितस्य वागाडम्बरः लक्ष्याद्भ्रष्टबाणस्य धनुष्मतः वल्गितमिव = लङ्घनमिव ( अश्वस्यलङ्घनेषु - एकं) निष्फलम्।
विशेषाः ———
- कार्यज्ञस्य वचनं लघ्वपि ग्राह्यम् ।
अकार्यज्ञस्य विस्तृत = बहुधा विपुलीकृतवचनान्यपि ग्राह्यानि न भवन्ति ।
अत्र उद्धवस्य वाक्यानि न ग्रहीतव्यानीति सूचयति ।
“अपराद्धेषु"रित्यस्य प्रयोगो यथा – “अपराद्धपृषत्कोऽसौ लक्ष्याद्यः च्युतसायकः” ।
षाड्गुण्यादिपठनमात्रं न मन्त्रः = न कार्यपद्धतिरिति बलरामः अभिप्रैति।
श्लो॥२८ .– “सर्वकार्यशरीरेषु मुक्त्वाऽङ्गस्कन्धपञ्चकम् ।
सौगतानामिवात्मान्यो नास्ति मन्त्रो महीभृताम्॥”
प्रतिपदार्थः —- सर्वकार्यशरीरेषु = सन्ध्यादिसर्वकार्येष्विव शरीरेषु , अङ्गस्कन्धपञ्चकम् = स्कन्धपञ्चकमिव अङ्गपञ्चकम् , मुक्त्वा = हित्वा , सौगतानां= बौद्धानां , अन्य आत्मा इव = पृथक् आत्मा इव , महीभृतां = राज्ञां , अन्यः = इतरः , मन्त्रः = कार्यपद्धतिः , नास्ति = न भवति।
तात्पर्यम् —— सन्ध्यादि समस्तकार्येषु सहायभूत अङ्गपञ्चकादतिरिच्य राज्ञां मन्त्रान्तरं नास्ति यथा सौगतानां शरीरेषु स्कन्धपञ्चकमतिरिच्य पृथक् आत्मा नास्ति।
विशेषाः ——–
सौगताः इति बौद्धेषु वर्ग एकोऽस्ति ।
ते “भक्तिर्भजनीय"इति वदन्ति ।
“रूप , वेदना , विज्ञान , संज्ञा , संस्काराः"इति शरीरस्य स्कन्धाः पञ्च सन्तीति वदन्ति ।
एतदतिरिच्य आत्मा नास्ति तेषाम् ।
विषयप्रपञ्चो रूपस्कन्धः ।
ज्ञानप्रपञ्चो वेदनास्कन्धः ।
आलयविज्ञानसन्तानो विज्ञानस्कन्धः ।
नामप्रपञ्चः संज्ञास्कन्धः ।
वासनाप्रपञ्चः संस्कारस्कन्धः ।
इति स्कन्धाः पञ्च तेषां मते ।
राज्ञां राजनीतौ अङ्गपञ्चकमस्ति – यथा – “कर्मणामारम्भोपायः , पुरुषद्रव्यसम्पत् , देशकालविभागः , विपत्तिप्रतीकारः , कार्यसिद्धिश्च ।
कामन्दकनीतिशास्त्रे एतद्विषये एवमस्ति – “्- शलो॥ सहायाः साधनोपायाः विभागो देशकालयोःविपत्तेः प्रतीकारः सिद्धिः पञ्चाङ्गमिष्यते” यथा बौद्धानां सर्वेषु शरीरेषु स्कन्धपञ्चकातिरिक्त आत्मा नास्ति तथा राज्ञाम् अङ्गपञ्चकातिरिक्तो मन्त्रो नास्तीति भावः ।
अत्र अलङ्कारः उपमा ।
स्कन्धपञ्चकेन अङग्पञ्चकमुपमीयते ।
सौगतनामकबौद्धानां स्कन्धपञ्चकादतिरिच्य पृथक् आत्मा नास्ति ।
एतत्स्कन्धपञ्चकेन परिवर्तितो ज्ञानसन्तान एव आत्मा इति तेषां मतम्।
श्लो॥ २९. “मन्त्रो योध इवाधीरः सर्वाङगैः संवृतैरपि ।
चिरं न सहते स्थातुं परेभ्यो भेदशङ्कया॥”
प्रतिपदार्थः —— संवृतैः = गुप्तैः , सर्वाङ्गैरपि = समस्तावयवैरपि , मन्त्रः = विचारः , अधीरः = भीरुः , योध इव = भट इव , परेभ्यः = अन्येभ्यः शत्रुभ्यश्च , भेदशङ्कया = विदारणशङ्कया, चिरं स्थातुं = विलम्बितुं , न सहते = न क्षमः।
तात्पर्यम् ——–
“मन्त्रः कोऽपि वा भवतु – बीजाक्षररूपमन्त्रो वा, कार्यालोचनरूपविचारो वा, तदाचरणे विलम्बो मा भवतु ।
भवति चेत् अन्येभ्यो वा शत्रुभ्यो वा विघ्नो भवेत् ।
तेन लक्षितकार्यं विनष्टम्भवेत् ।
“इति बलरामो वदति।
विशेषाः ———
अत्र मन्त्रः योधेन उपमितः ।
मन्त्रस्य अङ्गन्यास , करन्यास , कवचादिभिः रक्षणमावश्यकम् ।
योधस्यापि शत्रुभ्योऽपि रक्षणमावश्यकम् ।
कार्यस्य आचरणं विलम्ब्यते चेत् मन्त्रजपे शब्दान्तरश्रवणेन वा अन्येषामागमनेन वा विघ्नो भवेत् सिद्धिश्च न भवति ।
योधस्य कर्माचरणे विलम्बो भवति चेत् शत्रुवर्गे गूढचारिभिः रहस्यभेदनेन विघ्नो भविता , लक्ष्यमपि न सिद्ध्यति ।
उभयत्र रहस्यगोपनमपि कष्टं स्यात् ।
राजनीतिविषयोऽत्र प्रस्तावितः ।
विना विलम्बं युद्धाय एव गन्तव्यमिति सूचयत्ययं श्लोकः ।
अलङ्कारः उपमा।
श्लो॥ ३०. “आत्मोदयः परज्यानिः द्वयं नीतिरितीयती ।
तदूरीकृत्य कृतिभिः वाचस्पत्यं प्रतायते॥’
प्रतिपदार्थः —-
आत्मोदयः = आत्मनः वृद्धिः , परज्यानिः = शत्रोः हानिः , इति द्वयम् = एतद्द्वयम् , इयती नीतिः = एष नीतिशास्त्रविषयः ।
तत् = तत् नीतिशास्त्रविषयं , ऊरीकृत्य= अङ्गीकृत्य , कृतिभिः = निपुणैः , वाचस्पत्यं = विस्तरेण भाषणं , प्रतायते = क्रियते।
तात्पर्यम् ——-
राजनीत्यां विषयद्वयमस्ति पर्यालोचनाय ।
आत्मनोऽभिवृद्धिः शत्रोर्हानिश्च ।
एतद्द्वयस्य विषये एव चर्चा करणीया भवेत् ।
एतद्द्वयमावश्यकम्भवेद्यदि तत्क्षणं युद्धाय गन्तव्यमिति विलम्बो न कर्तव्य इति बलरामोऽभिप्रैति।
श्लो॥ ३१ . तृप्तियोगः परेणापि महिन्ना न महात्मनाम् ।
पूर्णश्चन्द्रोदयाकांक्षी दृष्टान्तोऽत्र महार्णवः॥”
प्रतिपदार्थः ——-
“महात्मनां = महीयसां =( राज्ञां ), परेण + अपि = अधिकेनापि , महिन्ना = ऐश्वर्येण , तृप्तियोगः = संतृप्तिभावः, न= न भवति ।
अत्र = अस्मिन्विषये , पूर्णः = पूर्णस्सन्, चन्द्रोदयाकांक्षी , चन्द्र = चन्द्रस्य , उदयं = वृद्धिं , आकांक्षी = कांक्षमाणः , महार्णवः = महान् समुद्रः , दृष्टान्तः = उदाहरणम्।
तात्पर्यम् ———-
महैश्वर्यसम्पन्नानां –( राज्ञां वा सामान्यानां वा) महदैश्वर्यस्य सत्वेऽपि तृप्तिर्न भवति ।
अत्रोदाहरणं समुद्रो भवितुमर्हति ।
यथा —
समुद्रः जलेन रत्नादिभिः च पूर्णोऽपि = तृप्तोऽपि इतोऽप्यधिकं वृद्धिमेतुं चन्द्रोदयं कांक्षते खलु ।
पूर्णिमाचन्द्रेण समुद्रस्य वृद्धिः दृश्यते एव ।
अतः राजानः न सन्तुष्टा भवेयुः ।
अत्र नीति श्लोकोऽप्यस्त्येवम् —-
“असन्तुष्टा द्विजा नष्टाः सन्तुष्टाश्च महीभुजः ।
सलज्जा गणिका नष्टा निर्लज्जेव कुलाङ्गना॥“इति ।
अलङ्कारोऽत्र उपमा ।
अवश्यं युद्धाय एव गन्तव्यमिति बलराम एव वदति।
श्लो॥ ३२. “सम्पदा सुस्थिरंमन्यो भवति स्वल्पयापि यः ।
कृतकृत्यो विधिर्मन्ये न वर्धयति तस्य ताम्॥”
प्रतिपदार्थः —– “यः = यो मनुष्यः , स्वल्पया = अल्पया , सम्पदा = ऐश्वर्येण = धनेन , सुस्थिरंमन्यः = स्थिरोऽहमिति मन्यमानः / मन्वानः , भवति = अस्ति , तस्य = तादृश अल्पसन्तुष्टस्य , तां = स्वल्पां सम्पदं , कृतकृत्यः = कृतार्थः , विधिः अपि = दैवमपि , न वर्धयति = न वृद्धिं प्रापयति।
तात्पर्यम् ———
राजा अल्पसन्तुष्टश्चेत् दोषं वदति बलराम एवम् —
“राजा स्वल्पयैव सम्पदा “स्थिरोऽह"मिति मन्यते चेत् तावतैव दैवमपि आत्मानं कृतार्थं मत्वा तस्य सम्पदं न वर्धयति ।
प्रत्युत तं जुगुप्सते ।
पौरुषहीनस्य देवोऽपि सहायं न करोतीत्यर्थः ।
( अत एव खलु “उद्योगिनं पुरुषसिंहमुपैति लक्ष्मी"रित्युक्तम्)
विशेषाः ———– अत्र राजनीतिरुक्ता।
श्लो॥ ३३. - “समूलघातमघ्नन्तः परान्नोद्यन्ति मानिनः ।
प्रध्वंसितान्धतमसस्तत्रोदाहरणं रविः॥”
प्रतिपदार्थः ——–
“मानिनः = अभिमानिनः , परान् = शत्रून् , समूलघातम् = समूलहननेन = निश्शेषहननेन , अघ्नन्तः = अनुन्मूलयन्तः ( उन्मूलनं विना ), न + उद्यन्ति = न अभिवृद्धिं प्राप्नुवन्ति ।
तत्र = तस्मिन्विषये, प्रध्वंसितान्धतमसः = गाढान्धकारनाशकः ( उदयात्प्राक् ), रविः = सूर्यः , उदाहरणम् = निदर्शनम् = साक्ष्यम्।
तात्पर्यम् ———-
अभिमानी शत्रुं निश्शेषं निर्मूलयेत् ।
अत्र सूर्य एव उदाहरणम् ।
सूर्यः उदयात्प्राक् रात्रौ स्थितं गाढान्धकारं सर्वमपि निश्शेषं निर्मूलयित्वैव खलु पुनरुदेति।
विशेषाः ———-
- अत्र अलङ्कारः उपमा ।
पराक्रमेण सम्पादिता अभिवृद्धिरेव वास्तविकाभिवृद्धिः ।
न अन्या इति ज्ञेयम् ।
एतदेव विषयं भारविनामा कविरपि किरातार्जुनीये धर्मराजेन भीमसेनम्प्रति वाचयत्येवम् — “अविभिद्य निशाकृतं तमः प्रभया नांशुमताप्युदीयते"ति।
श्लो॥३४ .—-
“विपक्षमखिलीकृत्य प्रतिष्ठा खलु दुर्लभा ।
अनीत्वा पङ्कतां धूलिमुदकं नावतिष्ठते॥”
प्रतिपदार्थः —–
“विपक्षं = शत्रुं, अखिलीकृत्य = खिलमकृत्वा = उत्सन्नमकृत्वा = अनाशयित्वा , प्रतिष्ठा = कीर्तिः / स्थिरता, दुर्लभा = लब्धुमशक्या ।
उदकं = जलं , धूलिं = रजः , पङ्कतां अनीत्वा = कर्दमं अप्रापयित्वा ,( अधस्तात् अकृत्वा ), न अवतिष्ठते = न तिष्ठति ।
"
तात्पर्यम् ——–
“शत्रोः उन्मूलनं न कृतं चेत् कीर्तिर्वा स्थिरता वा न लभ्या भवति ।
यथा – जलं ( तटाके वा / कूपे वा) धूलिमधस्तात् अकृत्वा स्वच्छं / निर्मलं / स्थिरं वा न भवति ।
धूलिं नीचैः कृत्वैव जलं स्वच्छतां प्राप्नोति / निर्मलं भवति / स्थिरत्वमपि सम्पादयति ।
धूलिसदृशः शत्रुः ।
तं निश्शेषं उन्मूलयित्वैव कीर्तिं वा स्थिरतां वा प्राप्तुं शक्यते।
विशेषाः ———–
अत्र दृष्टान्तोऽलङ्कारः ।
वाक्यभेदेन बिम्बप्रतिबिम्बभावोऽत्र विद्यते ।
विपक्षमधस्तादकृत्वा कोऽपि प्रतिष्ठां न लभते ।
धूलिमधस्तादकृत्वा जलं स्वच्छं न भवतीति वाक्यद्वयमस्त्यत्र ।
प्रथमवाक्ये धर्मः प्रतिष्ठा ।
द्वितीयवाक्ये स्वच्छता धर्मः ।
एवं धर्मौ भिन्नौ ।
सादृश्येन अभिन्नत्वेन भावितौ पृथक् निर्दिष्टौ ।
उपमानोपमेयौ स्तः ।
एवं बिम्बप्रतिबिम्बभावस्यापि सत्वेन दृष्टान्तोऽत्रालङ्कारः।
श्लो॥३५ .— “ध्रियते यावदेकोऽपि रिपुस्तावत्कुतः सुखम्? पुरः क्लिश्नाति सोमं हि सैंहिकेयोऽसुरद्रुहाम्॥”
प्रतिपदार्थः —-
“एकोऽपि रिपुः = शत्रुः एकाकी अपि , यावत् = यावान् कालः , ध्रियते = अवतिष्ठते = जीवन् तिष्ठति , तावत् = तावान् कालः , सुखं = सौख्यं , कुतः = कथम्भवति ।
सैंहिकेयः = राहुः , असुरद्रुहाम् = देवानां , पुरः = अग्रे , सोमं = चन्द्रं , क्लिश्नाति हि = बाधते हि।
तात्पर्यम् ——
- “शत्रुः जीवति यदि प्रमाद एव ।
प्रतिदिनं क्षोभयन्नेव भवति ।
अत्र राहुः उदाहर्तुमर्हति ।
अयं चन्द्रस्य शत्रुः ।
अयं देवेषु पश्यत्स्वेव चन्द्रमेव प्रप्रथमं बाधते ।
अतः शत्रुरेकोऽपि छेत्तव्य एव ।
शास्त्रमपि वदत्येवम् — “अग्नेश्शेषं ऋणाच्छेषं शत्रोश्शेषं न शेषयेत् ।
“इति ।
अलङ्कारस्तु अर्थान्तरन्यासः।
श्लो॥ ३६ .—
“सखा गरीयान् शत्रुश्च कृत्रिमस्तौ हि कार्यतः ।
स्याताममित्रौ मित्रे च सहजप्राकृतावपि॥”
प्रतिपदार्थः —–
- “सखा = सुहृत् , शत्रुश्च = रिपुश्च , कृत्रिमः = उपकारापकारयोः अन्यतररूपयाक्रियया जातः ( चेत् ), गरीयान् = श्रेष्ठः ।
हि = यस्मात् ( कस्मात् कारणादिति चेत् ) , तौ = कृत्रिममित्रशत्रू , कार्यतः = उपकारापकाररूपकार्यवशात् ( भवतः ) ।
सहजप्राकृतौ अपि =( सहजः = सहजातः = एकशरीरावयवजातः - यथा - मातृष्वसेय पितृष्वसेयादयः ; एतेषां मध्ये सहजमित्रत्वं भवति ।
सहजशत्रुस्तु – पितृव्यतत्पुत्रादयः ।
प्राकृतो नाम – प्रकृत्या सिद्धः – सहजकृत्रिमलक्षणरहितः – अर्थात्- एकशरीरजातो वा , उपकारापकाराभ्यां न जातो वा भवेत् ।
) कुण्डलीकरणेषु प्रोक्तरीत्या , मित्रे अमित्रे च , स्याताम् = भवतः।
तात्पर्यम् ———
“उपकारापकाराभ्यां जातः सुहृद्वा शत्रुर्वा कृत्रिमौ भवतः ।
एकशरीरावयवजाताः मातृष्वसेय , पितृष्वसेयादयः सहजमित्राणि भवन्ति ।
पितृव्यतत्पुत्रादयः सहजशत्रवो भवन्ति ।
सहजकृत्रिमलक्षणरहिताः प्राकृतमित्राणि प्राकृतशत्रवश्च भवन्ति ।
प्राकृतमित्राणि नाम स्वस्य राज्यस्य पार्श्वे स्थितं राज्यं विहाय तदनन्तरराजानः ।
प्राकृतशत्रवो नाम —
स्वस्य राज्यस्य पार्श्वे स्थिताः राजानः ।
कृत्रिम मित्राणि तु —-
सामदानभेददण्डोपायैः लब्धानि मित्राणि ।
कृत्रिमशत्रवो नाम —-
हानिकारकाः हानिं कृतवन्तश्च ।
" ( एवं बलराम एव प्रोक्तवान्)
विशेषाः ————
शिशुपालः पैतृष्वसेयः इति कारणतः सहजमित्रत्वात् सन्धातव्यः – अर्थात् —
सन्धिरेव कर्तव्यः ।
न तु तम्प्रति जैत्रयात्रा वा दण्डयात्रा वा कर्तव्या।
श्लो॥३७ .—–
“उपकर्त्रारिणा सन्धि र्न मित्रेणापकारिणा ।
उपकारापकारौ हि लक्ष्यं लक्षणमेतयोः”॥
प्रतिपदार्थः ——–
उपकर्त्रा = उपकारकारिणा , अरिणा = शत्रुना ,( अपि ), सन्धिः कार्यः = सन्धातुं युज्यते ।
अपकारिणा = हानिकारिणा , मित्रेण ( अपि) , सन्धिः न कार्यः = न सन्धातव्यः ।
एतयोः = मित्रामित्रयोः , उपकारापकारौ एव = उपकृतिरपकृतिश्चैव , लक्षणं = स्वरूपं , लक्ष्यम् + द्रष्टव्यम्।
तात्पर्यम् ———-
उपकर्तैव मित्रम् ।
अपकर्तैव शत्रुः ।
( सहजमित्रत्वेऽपि शिशुपालः यातव्य एव = तस्य उपरि दण्डयात्रा कर्तव्या इति “बलराम उवाच।
श्लो॥३८ .—-
“त्वया विप्रकृतश्चैद्यो रुक्मिणीं हरता हरे ।
बद्धमूलस्य मूलं हि महद्वैरतरोः स्त्रियः॥”
प्रतिपदार्थः —–
हरे= हे श्रीकृष्ण! रुक्मिणीं = रुक्मिणी देवीं, हरता = अपहरता, त्वया = भवता, चैद्यः = शिशुपालः , विप्रकृतः = विप्रियं प्रापितः ( पराजितः ) ।
हि = तथाहि, बद्धमूलस्य = रूढमूलस्य , वैरतरोः = वैरवृक्षस्य, स्त्रियः= वनिताः , महत् = प्रधानं, मूलम् = कारणम्।
तात्पर्यम् ——-
बलरामः श्रीकृष्णमेवमुवाच —–
“हे कृष्ण! त्वया रुक्मिण्याः अपहरणसमये शिशुपालः पराजितोऽभवत् ।
वैरवृक्षस्य स्त्रियः एव मूलकारणम्।
विशेषाः ——–
अत्र वैर एव वृक्ष इति कथनेन रूपकालङ्कारः ।
वैरम् उपमेयम् ।
वृक्षः उपमानम् ।
वृक्षत्वं धर्मः ।
वृक्षस्य शाखोपशाखाव्याप्तिरिव वैरस्यापि वृद्धिर्भवति ।
वृक्षस्य मूलं भवति ।
वैरस्यापि मूलं रुक्मिण्याः अपहरणम् ।
वृक्षत्वरूपधर्मः वैरे आरोपितः ।
अतः रूपकालङ्कारः ।
अर्थान्तरन्यासोऽप्यस्ति ।
यथा – - बद्धमूलस्य मूलं हि महद्वैरतरोः स्त्रियः - इति वाक्यं सामान्यवाक्यम् ।
एतद्वाक्यं रुक्मिण्यपहरणसन्दर्भे शिशुपालः श्रीकृष्णेन विप्रकृतः - इति वाक्येन समर्थितम् = प्रमाणीभूतम्।
श्लो॥३९ .——–
“त्वयि भौमं गते जेतुमरौत्सीत् स पुरीमिमाम् ।
प्रोषितार्यमणं मेरोरन्धकारस्तटीमिव”॥
प्रतिपदार्थः —-
त्वयि = भवति, भौमं = नरकासुरं , जेतुं = विजेतुं , गते = गच्छति सति , सः = शिशुपालः , इमां पुरीं = द्वारकां , अन्धकारः = तमः , प्रोषितार्यमणं = अस्तङ्गतसूर्यां , मेरोः= मेरुपर्वतस्य , तटीं इव = सानुमिव, अरौत्सीत् = रुरोध ।
( तटी = प्रान्तीयभागः)
तात्पर्यम् ——- श्रीकृष्णः नरकासुरसंहाराय यदा गतवान् तदा शिशुपालःद्वारकापुरीं सूर्यास्तमये मेरोस्तटीमन्धकार इव आक्रम्य अपकारं कृतवान्।
विशेषाः ——–
अत्र उपमालङ्कारोऽस्ति॥शिशुपालः उपमेयम् ।
अन्धकारः उपमानम् ।
श्रीकृष्णः उपमेयम् ।
सूर्यः उपमानम् ।
द्वारकापुरी उपमेयम् ।
मेरोः तटी उपमानम् ।
इव सादृश्यवाचकम् ।
समानधर्मः आक्रमणम् ।
( भौमः भूमेः पुत्रः = नरकासुरः)
श्लो॥४० .—-
“आलप्यालमिदं बभ्रोःयत्स दारानपाहरत् ।
कथापि खलु पापानामलमश्रेयसे यतः॥”
प्रतिपदार्थः —
सः = शिशुपालः , बभ्रोः = बभ्रुनामकस्य यादवस्य , दारान् = भार्याः, यत्= यस्मात् , तत् इदं = दारापहरणं , आलप्य अलम् = उच्चार्य अलम् ।
( नालपनीयम् ) ।
यतः= यस्मादित्युक्ते , पापानां = पाप्मनां , कथापि = उच्चारणमपि, अश्रेयसे = अनर्थाय = अलं खलु = समर्थं खलु।
तात्पर्यम् —–
शिशुपालः बभ्रुनामकयादवस्य भार्या अपि अपहृतवान् ।
पापानामुच्चारणमनर्थाय भवति ।
अतः तद्विषयः नोच्चारणीयः।
विशेषः ——- अत्र निषिध्यमान आलपननिषेधसमर्थनात् कार्येण कारणसमर्थकोऽर्थान्तरन्यासः।
श्लो॥४१ .—
“विराद्ध एवं भवता विराद्धा बहुधा च नः ।
निर्वर्त्यतेऽरिः क्रियया स श्रुतश्रवसः सुतः”॥
प्रतिपदार्थः —–
एवं = अनेन प्रकारेण , भवता = त्वया, विराद्धः = विप्रकृतः ।
बहुधा = अनेकधा , नः = अस्माकं च , विराद्धा = विप्रकर्ता , श्रुतश्रवसः - श्रुतश्रवा नाम हरेः ( श्रीकृष्णस्य) पितृश्वसुः , सुतः - पुत्रः , सः = शिशुपालः , क्रियया = पूर्वोक्त अन्योन्य अपक्रियया , अरिः = शत्रुः ( इति – सहजमित्रमपि ), निर्वर्त्यते = कृत्रिमः शत्रुः क्रियते।
तात्पर्यम् ——-
बलरामः एवं वदति – “हे कृष्ण! तव अस्माकं च श्रुतश्रवसः सुतेन शिशुपालेन बहुधा अपराद्धम् ।
सहजमित्रमपि सः कृत्रिमशत्रुरस्ति ।
बलीयस्त्वात् सः नोपेक्ष्यः ।
।सन्धिर्नयुक्ता ।
दण्डयात्रैव कर्तव्या ।
“इति।
श्लो॥४२ .– “विधाय वैरं सामर्षे नरोऽरौ य उदासते ।
प्रक्षिप्यौदर्चिषं कक्षे शेरते तेऽभिमारुतम्॥”
प्रतिपदार्थः —- ये नरः = ये पुरुषाः , सामर्षे = सरोषे , अरौ = शत्रौ , वैरं विधाय = विरोधं कृत्वा , उदासते = उपेक्षन्ते , ते = ते पुरुषाः , कक्षे = गुल्मे , उदर्चिषं = अधिकज्वालमग्निं , प्रक्षिप्य= निक्षिप्य , अभिमारुतं = वायोरभिमुखं , शेरते = स्वपन्ति।
तात्पर्यम् —-
रोषग्रस्तेन पुरुषेण स्वयमपकृत्य विरुद्ध्य च यः औदासीन्यं वहति सः गुल्मे अग्निं प्रज्वाल्य वायोरभिमुखं स्वपता पुरुषेण तुल्यो भवति ।
आत्मानं स्वयमेव विनाशयतीत्यर्थः ।
तदौसीन्यं नाशहेतुर्भवतीत्यर्थः।
श्लो॥४३ .—-
“मनागनभ्यावृत्त्या वा कामं क्षाम्यतु यः क्षमी ।
क्रियासमभिहारेण विराध्यन्तं क्षमेत कः ? “॥
प्रतिपदार्थः —-
यः = यः पुरुषः , क्षमी = सोढा ,= सहनशीलः ,( सः = अध्याहार्यम् ), मनाक् = ईषत् , अनभ्यावृत्या = सकृद्वा , विराध्यन्तं = अपकारिणं , कामं = भृशं , क्षाम्यतु = क्षम्यताम् ।
क्रियासमभिहारेण = पोनःपुन्येन = पदे पदे , विराध्यन्तं = अपकारिणं , कः = को वा पुरुषः , क्षमेत = सहेत?
तात्पर्यम् —-
यः कोऽपि सहनशीलः पुरुषः सकृत् ( एकवारं द्विवारं वा) अपकारिणं क्षन्तुमर्हति ।
पदे पदे अपकारं करोति चेत् को वा सहेत? न कोऽपीत्यर्थः।
श्लो॥ ४४ .—
“अन्यदा भूषणं पुंसः क्षमा लज्जेव योषितः ।
पराक्रमः परिभवे वैयात्यं सुरतेष्विव॥”
प्रतिपदार्थः —-
अन्यदा = सुरतव्यतिरिक्ते काले , योषित = स्त्रियः , लज्जा इव = सङ्कोच इव , पुंसः = पुरुषस्य , अन्यदा = अपरिभवे , क्षमा = शमः , भूषणम् ।
परिभवे तु = तिरस्कारे तु, योषितः = स्त्रियः , सुरतेषु = रतिकेलौ , वैयात्यमिव = धाष्ट्यमिव , पराक्रमः = पौरुषं , भूषणम्।
तात्पर्यम् —–
“वीरपुरुषस्य सर्वदा क्षमैव भूषणम् ।
अतः अपराधी शिशुपालः क्षमार्हः ।
“इति अभिप्रायं खण्डयति बलराम एवम् – “रतिकेलौ परिभवेन स्त्रियः धाष्ट्यमिव= क्रोध इव, शतृणा तिरस्कारे कृते सति बलप्रयोग एव शरणम्"इति ।
रतिभिन्नकाले स्त्रियः लज्जा इव परिभवो नास्ति चेत् शत्रुः क्षन्तव्यो भवत्येवेत्युक्तञ्च ।
"
श्लो॥ ४५ .– “माजीवन् यः परावज्ञादुःखदग्धोऽपि जीवति ।
तस्याजननिरेवास्तु जननीक्लेशकारिणः”॥
प्रतिपदार्थः —- “यः = यो पुरुषः , परावज्ञादुःखदग्धोऽपिःपर = शत्रोः , अवज्ञा = तिरस्कारजनित , दुःख = शोकेन , दग्धोऽपि = क्षुभितोऽपि , माजीवन् = गर्हितजीवी सन् , जीवति= प्राणान् धारयति , जननीक्लेशकारिणः = मातुः गर्भधारणप्रसववेदनाकारिणः , तस्य = तस्य पुरुषस्य , अजननिः एव = अनुत्पत्तिरेव , अस्तु = भवतु।
तात्पर्यम् —-
शतृपराभवदुःखतप्तो जनः सर्वैः निन्दितस्सन् जीवति यदि तस्य जन्म जननीक्लेशकार्येव भवति ।
तादृशस्य जन्मैव माभूत् – इति बलराम एवोक्तवान्।
श्लो॥४६ .– “पदाहतं यदुत्थाय मूर्थानमधिरोहति ।
स्वस्थादेवापमानेऽपि देहिनस्तद्वरं रजः”॥
प्रतिपदार्थः —- यत् रजः = या धूलिः , पदाहतं = पादाभ्यां अधस्तात्कृतं , उत्थाय = उत्थानं कृत्वा , मूर्थानं = शिरः , अधिरोहति = अधितिष्ठति , तत् = सा धूलिः , अपि, अपमानेऽपि = अवमाने सत्यपि , स्वस्थात् = सन्तुष्टात् , देहिनः = चेतनात् , वरं = श्रेष्ठम्।
तात्पर्यम् —-
धूलिः अचेतनः पदार्थः ।
यदि सा पादाभ्यां आहता चेत् उत्थाय अवमानिता सती शिरः अधिरोहति ।
देही तु चेतनः ।
सः अवमानितोऽपि सन्तुष्टो भूत्वा तूष्णीं भवति चेत् तस्मात् धूलिरेव प्रशंस्यमाना श्रेष्ठा दृश्यते ।
चेतनस्य धूलेः पौरुषमपि नास्तीति निन्द्यते।
श्लो॥४७ .– “असम्पादयतः कञ्चिदर्थं जातिक्रियागुणैः ।
यदृच्छाशब्दवत्पुंसः संज्ञायै जन्म केवलम्॥”
प्रतिपदार्थः —— “जातिक्रियागुणैः ; जाति = ब्राह्मणत्वादिजाति , क्रिया = यागाध्ययनादिकार्य , गुणैः = शौर्यधैर्यादिगुणैः , कञ्चिदर्थं = पुण्यकीर्त्यादिपौरुषार्थं, गोत्व , पाचकत्व , अशौक्ल्यादिगुणैः , कञ्चिदर्थं = व्यवहाररूपं प्रयोजनं , असम्पादयतः = सम्पादनारहितस्य , पुंसः = पुरुषस्य , जन्म = जननं , यदृच्छाशब्दवत्= डित्थ , कपित्थादि शब्दवत् , संज्ञायै केवलम् = केवलं नान्ने एव = नाममात्रमेव।
तात्पर्यम् —
विनियोगरहित डित्थ कपित्थादि शब्दा इव प्रयोजनरहित गोत्व , पाचकत्व शुक्लत्वादीनि वा तथा ब्राह्मणत्व , अध्ययनादीनि वा पुण्यं वा कीर्ति र्वा पुरुषार्थो वा न लभ्यते चेत् यज्ञदत्त देवदत्त शब्दवत् केवलं संज्ञामात्राण्येव भवन्ति ।
प्रयोजनशून्यानां जन्म व्यर्थमिति भावः।
श्लो॥ ४८. “तुङ्गत्वमितरा नाद्रौ नेदं सिन्धावगाधता ।
अलङ्घनीयताहेतुरुभयं तन्मनस्विनि॥
प्रतिपदार्थः —–
“अद्रौ = पर्वते , तुङ्गत्वं = औन्नत्यं ,( अस्ति ) ।
इतरा = अगाधता ,= नास्ति ।
सिन्धौ = समुद्रे , अगाधता = गम्भीरता , अस्ति ।
इदं = तुङ्गत्वं , न = नास्ति मनस्विनि = वीरे , तत् उभयं = तुङ्गत्वं , अगाधता च , अलङ्घनीयताहेतुः = अलङ्घत्वकारणम् —
अर्थात् – अद्रिसिन्धुभ्यामधिको मनस्वी इत्यभिप्रायः ।
मनस्विनः पुरुषस्य औन्नत्यं गाम्भीर्यमपि उभयमावश्यकम् ।
पौरुषं प्रशंसते बलरामोऽत्र।
तात्पर्यम् —–
मनस्विनः = कार्यार्थिनः पुरुषस्य अद्रेरिव औन्नत्यं , समुद्रस्येव गाम्भीर्यं उभयमावश्यकम् ।
शिशुपालेन अवमानितस्सन् तूष्णीं स्थातुं नोचितमिति बलरामो वदति।
श्लो॥ ४९ .—
“तुल्येऽपराधे स्वर्भानुर्भानुमन्तं चिरेण यत् ।
हिमांशुमाशु ग्रसते तन्म्रदिन्नः स्फुटं फलम्॥”
प्रतिपदार्थः —–
“स्वर्भानुः = राहुः , अपराधे तुल्येऽपि = अपकारे समानेऽपि , भानुमन्तं = सूर्यं , चिरेण = चिरकालस्य , ग्रसते = गिलति ।
हिमांशुं = चन्द्रं , आशु = शीघ्रं, ग्रसते = गिलति , यत् = इदं ,= एवंविधं ग्रसनं , तत् म्रदिन्नः = तस्य मार्दवस्य , फलं = फलितंम् , स्फुटं = स्पष्टम्।
तात्पर्यम् —–
सूर्यचन्द्रयोः अपराधे समानेऽपि राहुः सूर्यं चिरकालस्य ग्रसते ।
चन्द्रं तु शीघ्रं ग्रसते ।
अत्र कारणं चन्द्रस्य मृदुत्वमेवेति वदति बलरामः ।
अतः मृदुत्वं माभूदित्यभिप्रायः ।
मृदुः सर्वदा परिभूयतेऽति ज्ञेयम्।
श्लो॥ ५०. “स्वयं प्रणमतेऽल्पेऽपि परवायावुपेयुषी ।
निदर्शनमसाराणां लघुर्बहुतृणं नरः॥”
प्रतिपदार्थः —- “असाराणां = दुर्बलानां , निदर्शनं = दृष्टान्तः , बहुतृणं = तृणकल्पः, लघुः = पौरुषहीनः , नरः = मनुष्यः , परवायौ = शत्रुरूपवायौ , उपेयुषि = प्राप्तेसति, स्वयं = स्वयमेव , प्रणमते = प्रह्वीभवति।
तात्पर्यम् —-
मन्दवायुना तृणमिव अल्पीयसापि शत्रुणा पौरुषहीनो नरः स्वयं नम्रो भवति ।
पौरुषहीनो नरः तृणसदृशस्सन् दुर्बलो भवति।
विशेषः —- पौरुषहीनो नरः तृणतुल्य इति कथनेन अत्र उपमालङ्कारः।
श्लो॥५१ .– तेजस्विमध्ये तेजस्वी दवीयानपि गण्यते ।
पञ्चमः पञ्चतपसस्तपनो जातवेदसाम्॥
प्रतिपदार्थः ——-
दवीयान् + अपि = दूरस्थोऽपि , तेजस्वी = तेजोवान्, तेजस्विमध्ये = तेजस्विनां मध्ये , गण्यते = संख्यायते = गण्यते ।
पञ्चतपसः = पञ्चाग्निमध्ये तपस्यतः, तपनः = सूर्यः , जातवेदसां = अग्नीनां , पञ्चमः = पञ्चसङ्ख्यावान् ( भवति ) ।
तात्पर्यम् ——-
तेजश्शाली पुरुषः यत्र कुत्राप्यस्ति चेदपि तेजस्वी एव भवति ।
समीपे अस्ति चेत् तस्य तेजसि आधिक्यं, दूरे अस्ति चेत् तस्य तेजसि क्षैण्यं न दृश्यते ।
पञ्चसु अग्निषु तपःकुर्वतः यस्य कस्यचिदपि वा संख्याने = गणने, सूर्यः दूरे स्थितोऽपि पञ्चम इत्येव गण्यते – न तु प्रथम इति द्वितीय इत्येवम् न गण्यते ।
समीपे अस्ति चेदपि सः पञ्चमोऽग्निरित्येव परिगण्यते।
विशेषाः ——–
अलङ्कारः अर्थान्तरन्यासः ।
प्रथमवाक्यार्थः उदाहरणरूपविशेषवाक्येन द्वितीयेन समर्थितोऽस्ति।
श्लो॥५२ .—-
“अकृत्वा हेलया पादमुच्चैर्मूर्धसु विद्विषाम् ।
कथङ्कारमनालम्बा कीर्तिर्द्यामधिरोहति॥”
प्रतिपदार्थः — उच्चैः = उन्नतेषु , विद्विषां = शतॄणां , मूर्धसु = शिरस्सु , पादं = चरणं , हेलया = लीलया , अकृत्वा = अनिवेश्य = अनिधाय , कीर्तिः = यशः , अनालम्बा = निराधारा , द्यां = स्वर्गं, कथं = कथङ्कारं = केन रूपेण , अधिरोहति ?= अधिरोढुमर्हति?
तात्पर्यम् —–
सौधमधिरोढुं निश्श्रेणी आवश्यकी ।
कीर्तेः दिवमधैरोढुं शतॄणां विजयरूपमालम्बनमावश्यकम् ।
निश्श्रेणीरूपालम्बनं विना सौधमधिरोढुं न शक्यते ।
तथैव शतृसंहारेण कीर्तिर्लभ्यते ।
कीर्त्या स्वर्गो लभ्यते ।
स्वर्गं गन्तुं कीर्तिरूपा नेश्श्रेणी आवश्यकी ।
तदर्थं शत्रुमर्दनं मुख्यमित्युक्तम्।
विशेषाः ——-
अत्र प्रस्तुतांशस्य कीर्तिविषयस्य प्रस्तावेन अप्रस्तुतप्रासादाधिरोहकव्यवहारस्फूर्त्या समासोक्तिरत्रालङ्कारः ।
अत्र कीर्तिः निश्श्रेण्या उपमीयते ।
सौधं स्वर्गेण उपमीयते ।
अतः उपमालङ्कारोऽप्यस्ति ।
शतॄणामुपरि पादन्यासः शत्रुसंहारं सूचयति च।
श्लो॥५३. “अङ्काधिरोपितमृगश्चन्द्रमा मृगलाञ्छनः ।
केसरी निष्ठुरक्षिप्तमृगयूथो मृगाधिपः॥”
प्रतिपदार्थः —–
“अङ्काधिरोपितमृगः ; अङ्क = उत्सङ्गे , अधिरोपित = विनिवेशित , मृगः = हरिणवान् , चन्द्रमाः = चन्द्रः , मृगलाञ्छनः = मृगाङ्कः ।
निष्ठुरक्षिप्तमृगयूथः; निष्ठुर = काठिन्येन , क्षिप्त = विक्षिप्त , मृग = जन्तूनां , यूथः = समूहवान्, केसरी = सिंहः , मृगाधिपः = मृगराजः – इति चन्द्रः सिंहश्च विख्यातौ ।
मृगाङ्के मृदुत्वं मृगाधिपे काठिन्यं = पौरुषं दृश्येते ।
तात्पर्यंम् ——-
शत्रौ मृगाङ्के इव मार्दवं न लाभकरम् ।
सिंहे इव काठिन्यमावश्यकम् ।
प्रथमं दुष्कीर्तिं सम्पादयति ।
द्वितीयं सुकीर्तिं सम्पादयति ।
अतः शिशुपालविषये पौरुषमेव कार्यमिति भावः।
विशेषाः ———
अत्र अप्रस्तुत मृगाङ्क , मृगराजयोरुदाहरणेन शिशुपालः काठिन्येन व्यवहर्तव्य इति प्रस्तुतविषयः प्रतीयते ।
अतः अप्रस्तुतप्रशंसो नामा अलङ्कारोऽस्ति।
श्लो॥५४, “चतुर्थोपायसाध्ये तु रिपौ सान्त्वमपक्रिया ।
स्वेद्यमामज्वरं प्राज्ञः कोऽम्भसा परिषिञ्चति ।
"
प्रतिपदार्थः ——-
“चतुर्थोपायसाध्ये = दण्डसाध्ये , रिपौ = शत्रौ , सान्त्वं = साम , अपक्रिया = अपकारः ।
स्वेद्यं = स्वेदनकार्यं , आमज्वरं = अपक्वज्वरं ,( प्राप्य ). कः प्राज्ञः = कः पण्डितः, अम्भसा = जलेन , परिषिञ्चति ?= स्नानं कारयति? ( न कोऽपीत्यर्थः)
तात्पर्यम् ———
द्ण्डोपायेन साध्यस्य शत्रोः सामोपायः निरर्थको भवति ।
ज्वरितस्य अम्भस्सेकवत् कृद्धस्य सान्त्वमुद्दीपनकरमिति भावः ।
अतः शिशुपालो दण्ड्यः।
विशेषाः ———– वाक्यभेदेन बिम्बप्रतिबिम्बभावस्य सत्वेन अत्र दृष्टान्तोऽलङ्कारः।
श्लो॥५५. “सामवादाः सकोपस्य तस्य प्रत्युत दीपकाः ।
प्रतप्तस्येव सहसा सर्पिषस्तोयबिन्दवः”॥
प्रतिपदार्थः —– “सकोपस्य = बद्धवैरस्य , तस्य = शिशुपालस्य , सामवादाः = प्रियोक्तयः , सहसा = शीघ्रं , प्रतप्तस्य = क्वथितस्य , सर्पिषः = घृतस्य , तोयबिन्दव इव= उदकबिन्दव इव , प्रत्युत = वैपरीत्येन , दीपकाः = प्रज्ज्वलनकारिणः = प्रकोपकारिणः – न तु शान्तिकराः।
तात्पर्यम् ——–
बद्धवैरस्य शिशुपालस्य प्रियवचनानि निष्प्रयोजनानि ।
प्रत्युत उद्रेकं जनयन्ति ।
यथा —
क्वथिते घृते उदकबिन्दून् विकिरामश्चेत् तद् घृतं प्रज्ज्वलति ।
न शान्तम्भवति ।
अतः शिशुपालः दण्ड्य एवेति भावः।
श्लो॥५६. “गुणानामायतातथ्यात् अर्थं विप्लावयन्ति ये ।
अमात्यव्यञ्जना राज्ञां दूष्यास्ते शत्रुसंज्ञिताः॥”
प्रतिपदार्थः —- गुणानां = सन्धिविग्रहादिगुणानां , आयथातथ्यात् = अयथायोग्यत्वात् ,= अन्यकाले अन्यप्रयोगात् , अर्थं = प्रयोजनं , ये = ये जनाः, विप्लावयन्ति = निघ्नन्ति = कार्यहानिं कुर्वन्ति , ते = ते जनाः , अमात्यव्यञ्जनाः = अमात्यचिह्नधारिणः , शत्रुसंज्ञिताः = शत्रुनामकाः, राज्ञां = नृपानां , दूष्याः = दूषयितुमर्हाः = गर्ह्याः = त्याज्या इत्यर
तात्पर्यम् —–
सन्धिविग्रहादिगुणानां प्रयोगमविजानन्तो वा, जानन्त्य एव ये अमात्याः कदाचित् कापट्यं प्रदर्शयन्ति ते शत्रव एव भवन्ति ।
अतः ते त्याज्याः।
श्लो\ ।
५७. “स्वशक्त्युपचये केचित् परस्य व्यसनेऽपरे ।
यानमाहुस्तदासीनं त्वामुत्थापयति द्वयम्॥”
प्रतिपदार्थः —-
“केचित्= केचन वृद्धाः , स्वशक्त्युपचये = स्वशक्तेः वृद्धौ , यानम् = दण्डयात्रां , आहुः = अवदन् ।
अपरे = अन्ये केचन वृद्धाः , परस्य = शत्रोः , व्यसने= आपदि ,( यानं आहुः = दण्डयात्रां अवदन्) तत् = तस्मात् कारणात् , द्वयं = एतत्पक्षद्वयं , आसीनं = मौनेन तूष्णीं स्थितं त्वां ( उद्धवं ), उत्थापयति= प्रेरयति।
तात्पर्यम् ——-
बलरामः उद्धवं मनसि निधाय एवं वदति —-
“केचन वृद्धाः स्वस्य शक्तौ सत्यामेव दण्डयात्रा कर्तव्या इति , अन्ये केचन शत्रौ आपदि विद्यमाने सति दण्डयात्रार्थं गन्तव्यमिति वदन्ति ।
एतत्पक्षद्वये किमुत्तममित्यालोच्य वक्तव्यं भवता"इति।
श्लो ।
।५८. “लिलङ्घयिषतो लोकान्, अलङ्घ्यानलघीयसः ।
यादवाम्भोनिधीन् रुन्धे वेलेव भवतः क्षमा॥”
प्रतिपदार्थः —- “लोकान् = संसारं ,, लिलङ्घयिषतः = लङ्घयितुमिच्छतः , अलङ्घ्यान् = दुर्लङ्घ्यान् , अलघीयसः = अतिगुरून् , यादवाम्भोनिधीन् = यादवरूपिणस्समुद्रान्, भवतः = तव , क्षमा = तितिक्षा , वेला इव = कूलमिव , रुन्धे = प्रतिबध्नाति।
तात्पर्यम् ——
बलरामः एवं वदति —-
“यादवाः शौर्ये समुद्र इव अतीव गम्भीराः ।
तान् निरोद्धुं न कोऽपि शक्नोति ।
भवतः क्षमैव समुद्रं कूलमिव तान् विजृम्भणान्निरोद्धुं शक्नोति ।
अन्यथा प्रागेव सर्वान् संहरेयुः” ( कृष्णमुद्दिश्य)
श्लो॥५९ .– “विजयस्त्वयि सेनायाः साक्षिमात्रेऽपदिश्यताम् ।
फलभाजि समीक्ष्योक्ते बुद्धेर्भोग इवात्मनि॥”
प्रतिपदार्थः —- “सेनायाः = सैन्यस्य , विजयः = जयः , साक्षिमात्रे = उदासीने , फलभाजि = फलस्य भोक्तरि , त्वयि = भवति , समीक्ष्योक्ते = साङ्ख्योक्ते ,( साङ्ख्यं समीक्ष्यम् – इति निघण्टौ) आत्मनि= आत्मनि विषये , बुद्धेः = महत्तत्त्वस्य ( मूलप्रकृतेः प्रथमविकारस्य ), भोगःइव = सुखदुःखानु भव इव , अपदिश्यताम् = व्यवह्रियताम्।
तात्पर्यम् ——-
बलरामस्य वचांसि अनुवर्तन्ते —–
“हे श्रीकृष्ण! भवान् साक्षी केवलम् ।
सर्वं सैन्यमेव करोति ।
साङ्ख्यमतेऽपि एतदेवोक्तमित्थम् —
- “साङ्ख्यमते संसारः बुद्धिसम्बन्धी भोगः ।
तत्फलभाक् उदासीनः ( साक्षी) आत्मा ।
अर्थात् – बुद्धिरेव बद्धो भवति ।
मुक्तो भवति ।
सुखदुःखा नुभवस्तु आत्मनो भवति ।
“अतः भवान् साक्षी भवतु ।
सर्वं सेना करोति ।
कर्मफलन्तु भवदीयम्"इत्युक्तवान् बलरामः।
श्लो॥६० .– “हते हिडिम्बरिपुणा राज्ज्ञि द्वैमातुरे युधि ।
चिरस्य मित्रव्यसनी सुदमो दमघोषजः”॥
प्रतिपदार्थः —– “हिडिम्बरिपुणा = भीमेन ( वनवासे हिडिम्बासुरः भीमेन हतः ), द्वैमातुरे राज्ज्ञि = जरासन्धे ( सहिताभ्यां पत्नीभ्यां अर्धशः प्रसूतः जरया नाम पिशाच्या सन्धितश्च ), युधि = युद्धे , हते सति = निहते सति , चिरस्य = चिरकालेन , मित्रव्यसनी = मित्रव्यसनवान् = मित्रभ्रंशवान् , दमघोषजः= दमघोषस्य पुत्रः = शिशुपालः , सुदमः = सुखेन दम्यते = सुसाध्यः ( भवति)
तात्पर्यम् ——–
शिशुपालस्य दक्षिणभुजः जरासन्धः ।
सः भीमेन युद्धे हतः ।
अद्य शिशुपालः “सखा जरासन्धो हत इति दुःखी भवति ।
अतः शिशुपालः सुखेन जेतुं योग्यो ( जय्यो ) ऽस्ति ।
( अत्र शास्त्रमेवं वदति —-
“प्रायेण सन्तो व्यसने रिपूणां यातव्यमित्येव समादिशन्ति ।
तथा विपक्षे व्यसनानपेक्षी क्षमो द्विषन्तं मुदितः प्रतीयात् ।
“इति – कामन्दकनीतिशास्त्रे ) ।
अपि च , मनुनाप्येवमुक्तम् – “तदा यायात् विगृह्यैव व्यसने चोत्थिते रिपोः"इति ।
)
श्लो॥६३ .—-
“इन्द्रप्रस्थगमस्तावत् कारि मा सन्तु चेदयः ।
आस्माकदन्तिसान्निध्याद्वामनीभूतभूरुहः॥”
प्रतिपदार्थः ——
इन्द्रप्रस्थगमःतावत् = इन्द्रप्रस्थं प्रति गमनं तु ,( इन्द्रप्रस्थं नाम नगरं पाण्डवानां नगरम् ), मा कारि = न क्रियताम् ।
चेदयः = चेदिनामकदेशाः ( शिशुपालस्य देशाः ), आस्माकदन्तिसान्निध्यात् ; आस्माक = अस्मत्सम्बन्धि , दन्ति = गजानां , सान्निध्यात् = समीपस्थितिकारणतः , वामनीभूतभूरुहः ; वामनीभूत= खर्वीभूत ,( शाखारहित , स्थाणुभूत ), भूरुहः = वृक्षः , सन्तु = भवन्तु।
तात्पर्यम् ——
- बलरामःकर्तव्यमुपदिशत्येवम् —
“धर्मराजस्य यज्ञार्थं तेषां नगरम् इन्द्रप्रस्थं न गन्तव्यमद्य ।
शिशुपालस्य उपरि दण्डयात्रैव कार्या ।
तस्य राज्यं गजः वृक्षमिव शाखारहितं कुर्यात् ।
“इति।
विशेषाः ———-
यादवानां वा पाण्डवानां वा गजबलमधिकमस्तीति ज्ञायते ।
चतुरङ्गबलेषु गजबलस्य प्राधान्यमस्तीत्यपि ज्ञेयम् ।
अत्रालङ्कारस्तु पर्यायोक्तिः ।
तल्लक्षणं यथा —
“कारणं गम्यते यत्र प्रस्तुतात् कार्यवर्णनात् ।
प्रस्तुतत्वेन सम्बन्धात् पर्यायोक्तः स उच्यते ।
“इन्द्रप्रस्थं न गन्तव्यमिति प्रस्तुतमुक्त्वा पर्यायेण चेदिदेशस्य ( शिशुपालसम्बन्धि = प्रस्तुतसम्बन्धि ) उपरि दण्डयात्रार्थं गन्तव्यमिति कथितम् ।
अतः पर्यायोक्तिरलङ्कारः ।
रूपकालङ्कारोप्यस्ति ।
यादव पाण्डवाः गजा इति, शिशुपालादयः वृक्षाः इति च कथितम् ।
अत्र गजधर्म , वृक्षधर्माः क्रमशः उभयत्र आरोपिताः।
श्लो॥६४ .—
“निरुद्धवीवधासारप्रसारा गा इव व्रजम् ।
उपरुन्धन्तु दाशार्हाः पुरीं माहिष्मतीं द्विषः॥”
प्रतिपदार्थः —— “निरुद्धवीवधासारप्रसाराः ; निरुद्ध = निषेधित , वीवध = धान्यादिप्राप्ति , आसार = सुहृद्बल , प्रसाराः = तृणकाष्ठादयः ,( इति एकोऽर्थः – यादवपक्षे ) , ————————— निरुद्ध = निषेधित , वीवध = पर्याहारापरनान्नःभारविशेषाणां , आसारप्रसाराः = प्रवेशनिर्गमाः ,( गवां पक्षे ), दाशार्हाः = यादवाः, व्रजं = गोकुलं , गोष्ठञ्च , गा इव = धेनूः इव, माहिष्मतीं पुरीं = माहिष्मतीनामकपुरीं , द्विषः = शत्रून् , उपरुन्धन्तु = निरुन्धन्तु।
तात्पर्यम् ——– बलरामः वदत्येवम् — “धान्यादिप्राप्तिं , सुहृदां सैन्यादिबलं , तृणकाष्ठादिकं प्रवेष्टुं निषिध्य शिशुपालस्य पुरीं माहिष्मती नगरीं सर्वे यादवाः अद्य आक्रामन्तु - " - इति बलरामः यादवान् आदिशति।
विशेषाः ———
“व्रजं गा इव"इत्यत्र उपमालङ्कारोऽस्ति ।
गोष्ठे क्षीराद्याहरणसाधनानि वा तद्वाहकान्वा प्रवेष्टुं गोपाः गोकुले नाङ्गीकुर्वन्ति = निषेधयन्ति ।
तद्वत् शिशुपालस्य माहिष्मतीपुर्यामपि धान्यादिसामग्रीं , सुहृद्बलानि , तृणकाष्ठादीनि प्रवेष्टुं निषेधं विधातुं यादवानादिशति बलरामः ।
गोकुलं वा गोष्ठं वा उपमानम् ।
माहिष्मती पुरी – उपमेयम् ।
प्रवेशनिषेधः उभयत्र समानधर्मः ।
खाद्यादि सामग्री , सुहृत्सैन्यादिकमित्यादि उपमेयम् ।
अस्य उपमानम् – गावः ।
एवं उपमालक्षणानि सन्ति अद्यापि देशयोर्मध्ये विरोधोऽस्ति चेत् एतादृश निषेधाः दृश्यन्ते एव ।
अत्रैवमर्थास्सन्ति निघण्टुषु ——-
वीवध , आसार , प्रसार पदानाम्; “धान्यादेर्वीवधः प्राप्तिः , आसारस्तु सुहृद्बलम् , प्रसारस्तु – तृणकाष्ठादेः प्रवेशः” ( वैजयन्ती) विवधो वीवधो भारे पर्याहाराध्वनोरपि —–
इति हेमचन्द्रः —
( निघण्टुकारः) व्रजस्स्यात् गोकुलं गोष्ठम् ——–
वैजयन्तीनिघण्टौ।
श्लो॥६५ .—
“यजतां पाण्डवः स्वर्गमवत्विन्द्रस्तपस्विनः ।
वयं हनाम द्विषतः सर्वः स्वार्थं समीहते॥”
प्रतिपदार्थः ——-
पाण्डवः = युधिष्ठिरः , यजतां = यागं करोतु ।
इन्द्रः = देवेन्द्रः , स्वर्गं = दिवं , अवतु = रक्षतु ।
इनः = सूर्यः , तपतु = प्रकाशताम् ।
वयं = वयं ( बलरामादयः ), द्विषः = शत्रून्, हनाम = मारयाम ।
सर्वः = सर्वोऽपि जनः , स्वार्थं = स्वप्रयोजनं , समीहते = सम्यक् ईहते = सम्यक् इच्छति।
तात्पर्यम् ———
बलरामः भाषते ——
“धर्मराजः स्वस्य कार्यं यज्ञं करोतु ।
इन्द्रः तस्य कार्यं स्वर्गस्य पालनं करोतु ।
सूर्यः स्वस्य कृत्यं प्रकाशवितरणं करोतु ।
वयन्तु शतॄणां हननं कुर्मः ।
“सर्वस्यापि जनस्य स्वार्थमेव ध्येयम् ।
"
विशेषाः ———–
यज्ञार्थं युधिष्ठिरस्य आह्वानतिरस्करणमेव बलरामोऽभिप्रैति ।
“दण्डिनः पदलालित्य"मत्र दृश्यते ।
पदानि वाक्यानि ललितानि सरलानि च सन्ति ।
अलङ्कारोऽप्यर्थान्तरन्यासः।
श्लो॥६६ .—
“प्राप्यतां विद्युतां सम्पत्सम्पर्कादर्करोचिषाम् ।
शस्त्रैर्द्विषच्छिरश्छेदप्रोच्चलच्छोणितोक्षितैः॥”
प्रतिपदार्थः —– “द्विषच्छिरश्छेदप्रोच्चलच्छोणितोक्षितैः ; द्विषत् = शतॄणां , शिरश्छेद = शिरश्छेदेन , प्रोच्चलत् = उद्गच्छत् , शोणित = रक्तेन , उक्षितैः = सिक्तैः , शस्त्रैः = आयुधैः, अर्करोचिषां = सूर्यकान्तीनां , सम्पर्कात् = सम्बन्धात ् , विद्युतां = तटितां , सम्पत् = लक्ष्मीः , प्राप्यताम्।
तात्पर्यम् ——– शत्रुशिरच्छेदजनित रक्तसिक्तानि आयुधानि सूर्यकिरणसम्पर्केण विद्युदिव शोभन्ते।
विशेषाः ———- निदर्शनालङ्कारः।
श्लो॥६७ .—
“इति संरम्भिणो वाणीर्बलस्यालेख्यदेवताः ।
सभाभित्तिप्रतिध्वानैः भयादन्ववदन्निव॥”
प्रतिपदार्थः —- इति = इत्थं , संरम्भिणः = क्षुभितस्य , बलस्य = बलरामस्य , वाणीः = वाचः , आलेख्यदेवताः = चित्रलिखितदेवताः , सभाभित्तिप्रतिध्वानैः = सभागृहस्य कुड्यानां प्रतिध्वनिभिः , भयात् = भयकारणतः , अन्ववदन् इव = आमोदयन् इव , सन्ति = वर्तन्ते।
तात्पर्यम् ——
बलरामस्य वाचः सभागृहे प्रतिध्वनन्ति ।
प्रतिध्वनयः कुड्यचित्रेषु लिखितैः देवैः आमोदिता इव सन्ति।
विशेषाः ——– अलङ्कारः उत्प्रेक्षा।
श्लो॥६८ .—-
“निशम्य ताः शेषगवीः अभिधातुमधोक्षजः ।
शिष्याय बृहतां पत्युः प्रस्तावमदिशद् दृशा॥”
प्रतिपदार्थः — अधोक्षजः = हरिः ( श्रीकृष्णः ), ताः = पूर्वोक्ताः , शेषगवीः = शेषावतारस्य बलभद्रस्य वाचः , निशम्य = श्रुत्वा , बृहतां पत्युः = बृहस्पतेः , शिष्याय = उद्धवाय , अभिधातुं= वक्तुं , दृशा = दृक्संज्ञया , प्रस्तावं - अवसरं = अवकाशं , अदिशत् = दत्तवान्।
तात्पर्यम् —– श्रीकृष्णः बलरामस्य वचांसि श्रुत्वा उद्धवाय वक्तुमवकाशं दत्तवान्।
श्लो॥६९ .—
“भारतीमाहितभरामथानुद्धतमुद्धवः ।
तथ्यामुतथ्यानुजवज्जगादाग्रे गदाग्रजम् ।
"
प्रतिपदार्थः —– “अथ = कृष्णानुज्ञानन्तरं , आहितभरां = अर्थगौरवयुक्तां , तथ्यां = यथार्थां , भारतीं = वाचं , उतथ्यानुजवत् = बृहस्पतिरिव ,( उतथ्यमहर्षेः अनुजः = बृहस्पतिः - - “उतथ्यावरजो जीवः"इति विश्वनिघण्टौ —– “जीव आङ्गीरसो वाचस्पतिः” – इत्यमरनिघण्टौ ), उद्धवः = श्रीकृष्णस्य पितृव्यः , अनुद्धतं = विना गर्वं, अग्रे = वक्ष्यमाणरीत्या , गदाग्रजं = श्रीकृष्णं , जगाद = उवाच।
तात्पर्यम् ——– श्रीकृष्णस्य अनुमत्यनन्तरं उद्धवः अर्थगौरवसम्पन्नां वाचं श्रीकृष्णं प्रति एवमुवाच।
विशेषाः ———- “उद्धवः बृहस्पतिरिव — अस्तीत्यत्र —– उपमालङ्कारः।
श्लो॥७० .—
“सम्प्रत्यसाम्प्रतं वक्तुमुक्ते मुसलपाणिना ।
निर्धारितेऽर्थे लेखेन खलूक्त्वा खलु वाचिकम्॥”
प्रतिपदार्थः —–
“सम्प्रति = इदानीं , मुसलपाणिना = बलभद्रेण , उक्ते = उक्ते सति ( उक्त्यनन्तरं ), वक्तुं = भाषितुं , असाम्प्रतं = अयुक्तम् ।
लेखेन = पत्रेण , अर्थे = वाच्ये ,( वक्तव्ये ) , निर्धारिते = निर्णीते सति , वाचिकं = सन्देशवचनं , उक्त्वा खलु = न वाच्यं खलु ( न वक्तव्यं खलु ), खलु = तथा खलु = तथैव खलु।
तात्पर्यम् ——–
उद्धवः वदत्येवं कृष्णेन —–
“बलरामः स्वाभिप्रायमुक्तवान् ।
तस्य भाषणानन्तरं मया भाषितुमयुक्तम् ।
किमर्थमिति चेत् —–
कर्तव्यं निर्धारितमासीत् ।
अद्य कोऽपि सन्देशो नोचितः ।
लेखस्य द्वारा निर्णीते विषये मौखिकस्य वचनस्य = सन्देशस्य अवकाश एव न भवति।
विशेषाः ———-
अत्र “मुसलपाणिना"इति उद्धवस्य कथनेन बलरामःशूर इति वीर इत्येव ज्ञायते , न तु राजनीतिज्ञ इति ।
वाचिकं नाम सन्देशः —
“सन्देशवाक्” वाचिकं स्यात् – इत्यमरः ।
आद्यः “खलु” प्रतिषेधे, अन्यः “खलु” वाक्यालङ्कारे च प्रयुक्तौ ।
“खलु"इत्यस्य “अलम्"इत्यपि अर्थोऽस्ति ।
–( अलं खल्वोः प्रतिषेधयोः प्राचां क्त्वा – इति “क्त्वा"प्रत्ययः ।
“खल्वोः इत्यत्र खलु + ओः - इति पदच्छेदः —
“उ"इत्यस्य निषेधोऽप्यर्थः) अलङ्कारद्वयमस्ति —
दृष्टान्तः व्याजस्तुतिश्च ।
श्लोके प्रथमचरणस्थित वाक्यार्थस्य द्वितीयचरण वाक्यार्थः दृष्टान्तः ।
बलरामः “मुसलपाणि"रिति कथनेन सः श्लाघितः= प्रशंसितः = प्रस्तुतः ।
परन्तु, स न राजनीतिज्ञ इति निन्दितोऽपि ।
अन्तः निन्दया बहिः स्तुतिरत्रास्ति ।
स्तुतिव्याजेन निन्दा दृश्यतेति व्याजस्तुतिः ।
निन्दाव्याजेन स्तुतिः यत्र भवति तत्र व्याजनिन्दा भवेत्।
श्लो॥७१ .—-
“तथापि यन्मय्यपि ते गुरुरित्यस्ति गौरवम् ।
तत्प्रयोजककर्तृत्वमुपैति मम जल्पतः॥”
प्रतिपदार्थः —– तथापि ( तथा अपि )= बलरामेण शिशुपालम्प्रति गमनाय निर्णीतेऽपि , ते = तव , मय्यपि ( मयि अपि ) मम विषये अपि , गुरुः इति = गुरुरिति आदरः , अस्ति = वर्तते , तत् = गौरवम् = आदरः , जल्पतः = वक्तुः = भाष माणस्य , मम = मे , प्रयोजककर्तृत्वम् = प्रेरकत्वम् ,( जल्पने = भाषणे ) उपैति = भवति = लभ्यते।
तात्पर्यम् —-
उद्धवः श्रीकृष्णम् वदत्येवम् —-
“बलरामेण अर्थे ( शिशुपालस्य विषये ) निश्चिते सति , मम भाषणं पुनः व्यर्थं भवति ।
तथापि मयि “पितृव्य"इति गौरवं तव अस्ति ।
अतः तद्गौरवमेव मां भाषितुं प्रेरयति ।
“इति।
श्लो॥७२ .—-
“वर्णैः कतिपयैरेव ग्रथितस्य स्वरैरिव ।
अनन्ता वाङ्मयस्याहो गेयस्यैव विचित्रता॥”
प्रतिपदार्थः —-
“कतिपयैः एव = परिमितैरेव , वर्णैः = अक्षरैः ( पञ्चाशतैरेव मातृकाक्षरैः = मूलाक्षरैः ( आद्यायाः पञ्चाशद्वर्णाः = संस्कृतभाषा आद्यभाषा इति , तस्याः अक्षराः पञ्चाशत् ( ५०) इति , कतिपयैः एव = परिमितैः एव, स्वरैः अपि = निषादर्षभगान्धारषड्जमध्यमधैवतपञ्चमा इति सप्तभिः स्वरैरेव , ग्रथितस्य = गुम्फितस्य, वाङ्मयस्य = भाषायाः = सरस्वत्याः = सारस्वतस्य = शब्दजालस्य ,( शब्दजाले ), गेयस्य इव = गानस्य इव , विचित्रता = वैचित्र्यं ,( रचनाभेदात् ), अनन्ता = अपरिमिता / अपरिमितम् ।
अहो = आश्चर्यम्!
तात्पर्यम् —-
“वाङ्मयमनन्तम् ।
पञ्चाशन्मूलाक्षरैः सप्तभिः स्वरैरेव ग्रथितमेतत् = सहितमेतत् ।
एतस्मिन् वाङ्मये गेयस्यैव = गानस्यैव , विचित्रता = वैचित्र्यम्भवति = वैशिष्ट्यम्भवति ।
एष विषयः आश्चर्यं जनयति ।
मम भाषणं गानस्यैव वैशिष्ट्यं सम्पादयतीत्यर्थः ।
“इति स्वस्य भाषणं व्यर्थं न भवतीति , प्रत्युत , प्रत्येकतां सम्पादयतीति"उद्धवः स्वस्य भाषणोपक्रमे सार्धकतां वदति ।
"
श्लो॥७३ .—-
“बह्वपि स्वेच्छया कामं प्रकीर्णमभिधीयते ।
अनुज्झितार्थसम्बन्धः प्रबन्धो दुरुदाहरः॥”
प्रतिपदार्थः —-
“स्वेच्छया = स्वप्रतिभानुसारेण , प्रकीर्णं = असङ्गतं , बह्वपि = बहु अपि = अधिकमपि , कामम् = यथेष्टं अभिधीयते = कथ्यते ।
अनुज्झितार्थसम्बन्धः = अर्थसम्बन्धरहितः , प्रबन्धः = सन्दर्भः = रचना = काव्यं , दुरुदाहारः= उदाहर्तुं दुर्लभः ।
( सन्दर्भरहिता रचना कुत्रापि न लभ्यते।
तात्पर्यम् —–
“यथा रोचते तथा नीतिशास्त्रविरुद्धं स्वेच्छया भाषितुं शक्यते ।
परन्तु , सन्दर्भयोग्यं भाषणं दुर्लभम्।
विशेषाः ——–
अत्र उद्धवस्य वाक्येषु “बलरामस्य भाषणं - नीतिशास्त्रविरुद्धमिति कथनेन निन्दा , “सन्दर्भयोग्यं भाषण"मिति कथनेन स्तुतिश्च ज्ञायेते ।
स्तुतिः निन्दा च कृते उद्धवेन बलरामविषये।
श्लो॥७४ .—
“म्रदीयसीमपि घनामनल्पगुणकल्पिताम् ।
विस्तारयन्ति कुशलाश्चित्रां वाचं पटीमिव॥”
प्रतिपदार्थः – “कुशलाः = निपुणाः ( वक्तारः तन्तुवायाश्च ), म्रदीयसीं = अतिसुकुमाराक्षरां , मनोहरां च , घनां =( अर्थेन ) गुर्वींम् , अन्यत्र सान्द्रां, अनल्पगुणकल्पितां ; अनल्प = बहु , गुण = श्लेषादिकाव्यगुणैः , तन्तुभिश्च , कल्पितां= रचितां , निर्मितां च , चित्रां = शब्दादिविचित्रां , विचित्ररूपां च, वाचं = गिरं, पटीम् इव = शाटीमिव , प्रसारयन्ति= विस्तारयन्ति।
तात्पर्यम् —– “वाङ्निपुणाः वक्तारः अतिसुकुमाराक्षरैः अर्थगौरवयुक्तां श्लेषादिकाव्यगुणसम्पन्नां शब्दार्थादिविचित्रां वाचं निपुणैः तन्तुवायैः बहुभिस्तन्तुभिर्निर्मितां सान्द्रां विचित्ररूपां शाटीमिव विस्तारयन्ति = विस्तरेण विवृण्वन्ति।
विशेषाः —-
तन्तुवाया नाम वस्त्रनिर्मातारः ।
ते शाटीं ( स्त्रीभिः धारितं वस्त्रं) विविधैः तन्तुभिः मृदुलामपि सान्द्रां, चित्रविचित्ररूपैः यथा निर्मान्ति = वयन्ति, तथा वाचि निपुणाः वक्तारः सुकुमाराक्षरैरपि अर्थगौरव युतां श्लेषादिगुणैः चित्रविचित्र शब्दार्थादिभिः वाचं वदन्ति = भाषन्ते ।
उद्धवेन श्रीकृष्णाय प्रोक्तानीमानि वाक्यानि ।
( अग्रे सः एवं वक्ष्यतीति सूच्यतेऽत्र) उपमालङ्कारोऽप्यस्ति ।
बलरामोक्तं वचः एवं नास्तीति निन्दापि व्यज्यते = ध्वन्यतेऽत्र।
श्लो॥७५ .—
“विशेषविदुषः शास्त्रं यत्तवोद्ग्राह्यते पुरः ।
हेतुः परिचयस्थैर्ये वक्तुर्गुणनिकैव सा॥”
प्रतिपदार्थः — “विशेषविदुषः = विशेषज्ञस्य , तव = भवतः ( श्रीकृष्णस्य ), पुरः = अग्रे , यत् शास्त्रं = यत् नीतिशात्रं , उद्ग्राह्यते = उपन्यस्यते , सा = तच्छास्त्रविषयक वाग्वैखरी , वक्तुः = भाषमाणस्य मे ( उद्धवस्य) परिचयस्थैर्ये =( शास्त्रविषयक ) परिज्ञानस्थिरीकरणे , हेतुःगुणनिका एव = ाआम्रेडनमेव = पुनश्चरणरूपमेव।
तात्पर्यम् —-
उद्धवः श्रीकृष्णं वदत्येवम् – “हे कृष्ण! भवान् तु महान् विद्वान् ।
भवतः पुरतः यन्नीति शास्त्रं मया उपन्यस्यते तत् मम पुनश्चरणलाभाय एव भवति, न तु मम वैदुष्यप्रकटनाय ।
“इति।
विशेषाः —
उद्धवस्य वचसि नम्रता दृश्यते ।
श्रीकृष्णम् अभिमुखीकर्तुं स महान् विद्वान् इति स्तौति च ।
ज्ञानी कथं भाषणं कुर्यादिति प्रबोधयत्यस्मानिदं वचः।
श्लो॥७६ .—
“प्रज्ञोत्साहावतः स्वामी यतेताधातुमात्मनि ।
तौ हि मूलमुदेष्यन्त्या जिगीषोरात्मसम्पदः॥”
प्रतिपदार्थः —
“अतः = अधीतशास्त्रस्य पुनश्चरणलाभकारणतः , स्वामी = प्रभुः , प्रज्ञोत्साहौ = मन्त्रोत्साहशक्ती, आत्मनि = स्वस्मिन् , आधातुं = सम्पादयितुं , यतेत = प्रयत्नं कुर्यात् ।
( स्वयमुभयशक्तिमान्भवेदित्यर्थः ) हि = यस्मात्कारणादिति चेत् , तौ = प्रज्ञोत्साहौ , जिगीषोः = विजयाभिलाषिणः , उदेष्यन्त्याः = आगामिन्याः, आत्मसम्पदः = स्वस्य प्रभुशक्तेः , मूलम् = कारणम् ।
( भवति)
तात्पर्यम् —
“विजयाभिलाषिणो राज्ञः प्रभुशक्तेः मूलं मन्त्रोत्साहशक्तिद्वयम्भवति ।
यथा उत्साहः तथा मन्त्रोऽपि ग्राह्यः ।
न तु केवलोत्साह इति बलरामेण कथितः ।
“इत्युक्तवानु्द्धवः ।
शक्तयः तिस्रः सन्ति ।
प्रभुशक्तिः , मन्त्रशक्तिः , उत्साहशक्तिश्च।