द्विरूपादिकोशः

अथ श्रीहर्षकृत द्विरूपादिकोशप्रारम्भः———-(उपयुक्तांशसङ्ग्रह्पुस्तकात्)

श्लो॥ तुषाराद्रिप्रतीकाशं तुलसीदामभूषणं। तुरङ्गममुखं वन्दे तुङ्गसारस्वतप्रदम्॥
(१)
उमारमणसुत्राम विरिंच्यादिसुरांचितं। समस्तविघ्नहन्तारमर्वाननमहं भजे॥
(२) प्रबोधमाधातुमशाब्दिकानां कृपामवाप्तुं च सतां
कवीनां। द्विरूपकोशो रचितो विचार्य बहुप्रबन्धस्थितशब्दभेदान्॥
३ ॥ कृपामुपेत्यापि सतां कवीनां कृतो मया रूपमवाप्य शब्द
भेदप्रकाशोखिलवाङ्मयार्थः। ज्ञात्वा च पूर्वप्रचुरान्प्रयोगान् प्रामाणिकोदाहरणानि मत्वा।
रूपादिभेदेष्वपि लक्षणेषु विचक्षणो निश्चिनुयात्सुशब्दान्॥
(४) द्विलिङ्गताच्प्रत्ययहल्कृताम्भिदां सपञ्चकद्वित्रिचतुःप्रकारात्। भूमैकवाचित्वमपीह वाचां श्रीहर्षसूरिर्वितनोति कोशे॥
५ ॥ क्वचिन्मात्राकृतो भेदः क्वचिद्वर्णकृतोत्र च। (क्वचिदर्थान्तरोल्लेखात्) क्वचिद्विभक्तिभेदैश्च शब्दानां रूढितः क्वचित्॥
६ ॥ एतत्कोशपदान्येव पौर्वापर्यविपर्ययात्। न्यस्तानि शीघ्रबोधार्थमकारादिक्रमादिह॥ नानादेशसमानीतपुस्तकालोक
नादपि। सन्देहस्यानपगमाद्यथामातृकमङ्कितम्॥ न तत्र मम दोषोस्ति तदन्विष्याखिलं पुनः। दोषज्ञैःपरिहर्तव्यो दोष इत्यर्थ्यते मुहुः॥


द्विरूपपद्धतिर्यथा———द्विरूपकोशे अ,आ, एतदादिशब्दाः।
१.भवेदन्धुस्तथाऽऽधुश्च स्यादहिस्त्वहिकोऽपि च। भवेदन्धं कबन्धञ्चाप्यहो आहो प्रकीर्तितः॥
२.अरे चारेऽस्रमास्रं सात्यश्चान्तोऽश्रु चास्रुवत्। अर्द्रमार्द्रञ्चाभ्रमाभ्रमम्लश्चाम्लः प्रकीर्तितः॥
३.अट्टश्चाट्टालकश्च स्या दळिराळिश्च कथ्यते। अवूपश्चैवपूपश्च स्यादप्पतिरपांपतिः॥
४.विद्यादगारमागारमपगामापगामपि। अरातिमारातिमथो गस्त्योगस्तिरेव च॥
५.भवेदमर्ष आमर्षोऽप्यळीकमळिकं तथा। अन्वयश्चान्ववायस्स्यादक्षतिश्चाक्षतं तथा॥
६.अध्युष्टं चाप्यध्युषितमभ्यूषोभ्युष एव च। अप्सरा अप्यप्सरस अगुरुश्चागरुस्तथा॥
७.अवाची स्यादपाचीचाप्यररं चाररी तथा। अवन्तिश्चाप्यवन्ती स्यादर्गळा चार्गळं तथा॥
८.भवेदश्रीलमश्लीलमञ्चलञ्चाञ्चलं समे। शुष्केऽप्यकालमाकालमन्तिकश्चान्तिकापि च॥
९.स्यादन्वितं तथान्वीतममिषं चामिषं तथा। अवनी चावनिः प्रोक्ताऽजगरोऽजगलो भवेत्॥
१०.अवमानोऽपमानस्स्या दघमर्षोऽघमर्षणम्। अहङ्कारश्च हंकारोऽप्यवहेळावहेळना॥
११.भवेदक्षौहिणी चम्वा मक्षौहिण्यपि गीयते। अकूपारश्च कूपारोऽटरुषश्चाटरूषवत्॥
१२.अहं वीरश्च हं वीरोऽप्यवश्यायस्त्ववश्ययः। अनड्वाही चानडुही चापतीर्थं पतीर्थवत्॥
१३.अपोगण्डस्तु पोगण्डोऽप्यपिधानं पिधानकं। अवतारश्चावतरोऽवहितं वहितं तथा॥
१४.अन्तरिक्षं चान्तरीक्षमार्यश्चार्यः प्रकीर्तितः। आटिरात्रिर्भवेच्चाहि तुन्डिको य्पहितुण्डिकः॥
१५.आशीराश्याजिराजी स्या दाळिश्चाळी च कथ्यते। आश्रिरश्रिर्निगदिता स्यादायस्त्वायुषा सह॥
१६.आपश्चैवापसा तुल्याः स्यादाहतमनाहतं। आतिथ्यं चातिथेयं च स्यादावासस्त्ववासवत्॥
१७.आवालमालवालं च स्यादालस्योलसोऽपि च। आलापस्स्या दालपनमाप्लावश्चाप्लवस्तथा॥
१८.आमिक्षा स्यादमिक्षा चाप्यापान्यास्थानमित्यपि। अश्रयाशोऽप्याश्रयाशो भवेदान्वीषकी तथा॥
आ -इ-उ-ऋ-ए-ऐ-क

१८.आन्वीक्षकीसमाचारग्वधारागवधौ स्मृतौ। स्यातामाकारणाकाराविष्टमीष्टमपि स्मृतम्॥
१९.इन्दिरास्यात्तथेन्दीरापीङ्गुदीचेङ्गुदोऽपि च। इषिका स्यादिषीका च स्यादीपेशा तथैव च॥
२०.ईश्वरी चेश्वरा च स्या दुतमूतमपि स्मृतं। उक्थमुक्थ्यमपि प्रोक्तमुषाप्यूषा निगद्यते॥
२१.उल्मूकमुल्मुकं प्राहुरुषणं तूषणं तथा। उषरं स्यादूषरं च स्यादुदारोऽनुदारवत्॥
२२.उत्तमोऽनुत्तमश्च स्या दुदग्रश्चानुदग्रवत्। भवेदुत्थानमुत्तानमुर्वशी चोर्वशी तथा॥
२३.भवेदुल्लोच ऊल्लोच उन्नायश्चोन्नयस्तथा। उशीरोऽप्युशिरश्च स्यादुच्छ्रायोऽप्युच्छ्रयस्तथा॥
२४.उन्दुरुश्चाप्युदीरुस्स्यादुदूखलमुलूखलं। ऊर्मिश्चोर्मी तथोरुस्स्यादूरू ऋश्यश्च ऋष्यवत्॥
२५.ऋषिश्चापि ऋषी च स्या दृभूकऋभुकस्तथा। ऋश्यप्रोक्ता ऋष्यप्रोक्ता प्येधमाहुस्तधैधसा॥
२६.ऐलबिलश्चैडबिड औशीरं चौशिरं तथा। कङ्गुः कङ्गूश्च कथिता कोषः कोशः कषा कशा॥
२७.क्रिमिःकृमिस्तथा कर्षःकरिषस्स्यात्कुथःकुथा। भवेत्कक्ष्या च कक्षा च क्रोडाक्रोडं प्रकीर्तितम्॥
२८.केळीकेळिरपि प्रोक्ता काषं काशं प्रचक्षते। भवेत्कुणिश्च कूणिश्च कारूः कारुरपि स्मृतः॥
२९.भवेत्कलिश्च कलिका कुपःकूपः प्रकीर्तितः। क्लिष्टं क्लिशितमप्याहुः क्रीतं क्रीणं प्रकीर्तितम्॥
३०.कहळी काहळी च स्यात्कुमुदं कुमुदोऽपि च। कवाटं च कपाटं च कुर्दनं खुर्दनं समम्॥
३१.कलशःकलनश्चैव कृशरः कृसरोऽपि च। कर्मीणोऽपि च कर्मीरः कुबरः कूबरोऽपि च॥
३२.कुद्दाललश्च कुदालश्च करिण्यां कारिणीति च। कुशलं कुसलं चापि कोसलोत्तरकोसला॥
३३.कपोणिः कपणिश्चापि किलिञ्जश्च किलिञ्जकः। ककुदं ककुदप्याहुः कटकङ्कटकस्तथा॥
३४.कमलं कमलोवापि कर्षकःकृषकोऽपि च। कन्दळं कन्दळी च स्यात् कदळीकदळस्तथा॥
३५.कंखणश्चापि कंखाण कोंकाणश्चापि कोंकणः। किमीरोऽपि किम्मीरस्स्यात्काकणी काकणिस्तथा॥
३६.कन्धरा कन्धरश्च स्यात्करम्भश्च करम्भया। कुर्कुरः कुक्कुरोपि स्यात्कुसुमं सुममित्यपि॥
३७.कर्बुरश्चापि कर्बूरः करकः करकापि च। कराटश्च कराटिश्च किलिनी कीलिणी तथा॥
३८.कमनः कामनश्चापि केसरो नागकेसरः। करेटुः कर्करेटुश्च कोरकं कोरकोपिच॥
३९.कल्माषश्चापि कल्मासः किरीटं च किरीडवत्। किसरः केसरश्च स्यात्करटश्च कटस्तथा॥
४०.कृपटं च कृपीटं च करभोपि करम्भकः। कन्दरःकन्दरा च स्यात् कैकेयी केकयीति च॥
४१.करवालः करपालः किकिदीविः किकीदिविः। कौलटेयः कौलटेरः कृष्णशारो भवेत्तथा॥
४२.कृष्णसारः कराटीन कलाटीनौ समौ स्मृतौ। कालनेमिः कालनेमा भवेत्कौमुदकी तथा॥
४३.कौमोदकी कान्यकुब्जं कन्याकुब्जमपि स्मृतं। खड्गं खड्गः खनी च स्यात्खनिः खेदश्च खेदनम्॥
४४.खरा स्यात्खलिका चापि खुरकः क्षुरकस्तथा। खलिनं च खलीनं च क्षुरप्रस्स्यात्क्षुरप्रकः॥
४५.खण्डपर्शुः खण्डपरशुः गुप्तं गोपायितं तथा। गूढं गूढो गुरुर्गुर्वी गृध्नुर्गर्धन इत्यपि॥
४६.गर्तो गर्तागिरागीश्च गृहाश्च गृहमुच्यते। गवी गौश्च ग्रसो ग्रासो गोदा गोदावरी तथा॥
४७.गन्धो गन्धाग्रहोग्राहः गुम्भो गुम्भनमुच्यते। गन्धर्वोपि च गान्धर्वो गाण्डीवं गाण्डिवं तथा॥
४८.गुग्गुलुर्ग्गुग्गुलोपि स्यात् गम्भीरं च गभीरवत्। गारुडो गरुडश्च स्यात् ग्रथितं ग्रन्धितं समे॥
४९.ग्रधनं ग्रन्धनं चापि भवेद्गोनास गोनसौ। गरळं गरमप्याहुर्गणना गणनं तथा॥
५०.गिरीशो गिरिशश्च स्यात् गीरितं गिळितं समे। गोधिका चापि गुधिका गीर्वाणो गीर्वणोऽपि च॥
५१.गन्धवाहो गन्धवहो गण्डभेरुण्डवत्स्मृतः। भेरुण्डश्चाथ घटवद्घटी चापि प्रकीर्तिता॥
५२.घ्राणं घ्रातमपि प्रोक्तं घटी च घटिका तथा। घनो घनाघनश्चापि चञ्चुश्चुञ्चूः प्रकीर्तिता॥
५३.चोरश्चौरश्चटुश्चाटुः चोळश्चौळश्चमुश्चमूः। चेटिश्चेटीचरश्चारः चव्यं च चविकेत्यपि॥
५४.चितिश्चापि चिता चेष्टा चेष्टश्चूडा च चूडवत्। चण्डालोऽपि च चाण्डालश्चमसश्चामसस्तथा॥
५५.चरित्रं चरितञ्चापि चुलुकं चूलुकं तथा। चिन्तनी चिन्तनञ्चापि चमुरुश्च चमूरुवत्॥
५६ चेकुरः चिकुरश्चापि चपलं चापलं तथा। चटूकं चटुकं प्रोक्तं चञ्चलं चलमित्यपि॥
५७.पुटश्चिपुटिश्चस्स्यात् चातुर्यं चातुरीति च। चक्राङ्गी चापि वक्राङ्गी चतुरश्चातुरस्तथा॥
५८.चरणं चरणश्च स्याच्चिरत्नं च चिरन्तनं। चणसूत्रं भवेदेवं शणसूत्रमपि स्मृतम्॥
५९.छदश्च च्छदनं छन्नं छादितं स्याज्जराजराः। ज्येष्ठो ज्यैष्ठ्यो जपो जापो जोषा योषा जडं जलम्॥
६०.ज्योत्स्नी ज्योत्स्ना तथा प्रोक्ता जाया यायापि कीर्तिता। जिह्वा जिंहापि कथिता जृम्भा जृम्भणमित्यपि॥
६१.जतुका स्याज्जतूकापि ज्योतिषं ज्यौतिषं तथा। जठरो जटरश्च स्यात् जटायुश्च जटायुषा॥
६२.जामातापि च यामाता जटीलो जटिलोपि च। जाम्बवान् जम्बवोऽपि स्यात् जम्बूको जम्बुकोऽपि च॥
६३.जीव सञ्जीवना चापि जरायुस्स्याज्जरायुषा। जयसंचजयश्चापि झर्झरो जर्जरस्तथा॥
६४.जतुकं च जतु प्रोक्तं जवनं च जवस्तथा। झल्लरीझल्लरिश्चापि डम्भो दम्भो ढुली डुली॥
६५.डिण्डीरो डिण्डिरोपि स्यात् ढक्की ढक्का च कथ्यते। तलस्तालः तृषा तृष्णा तालस्ताडस्तनुस्तनूः॥
६६.तोकं तोकस्त्वचात्वक्च तन्द्री तन्द्रा तुषस्तु सः। तप्तं च तपितं त्रातं त्राणं चापि तटी तटम्॥
६७.तिष्यस्त्रिष्यस्त्विषात्विट्च तारातारमपि स्मृतं। तपश्च तपसा प्रोक्ता तमश्च तमसा तथा॥
६८.तुंगं तु तुगमप्याहुः स्तेमस्तेमस्तटित्तडित्। तपिञ्छमपि तापिञ्छं तरुणी तलुनीति च॥
६९.त्रापुषं त्रापुषश्चस्स्यात् त्रिणता तृणतापि च। तारकं तारका चापि। त्र्यम्बकश्च त्रियम्बकः॥
७०.तमिस्रं च तमिस्रा स्यात् तिमिरं तमिरं तथा। तपनस्तापनोपि स्यात् तामसी तामसं तथा॥
७१.तिमितं स्तिमितं चापि तिलिप्सस्स्यात् तिलित्सवत्। तरणिस्तरणी चापि तुवरस्तूवरोपि च॥
७२.तनूरुहं तनुरुहं तामलिप्ता भवेत्तथा। दामलिप्ता तैलपेजस्तिलपिंजोऽपि च स्मृतः॥
७३.दोर्दोषा द्यौर्दिवं प्रोक्तं द्वार्द्वारमपि कथ्यते। दृग्दृशा च तथा दूती दूतिर्दासश्च दाशवत्॥
७४.दान्तं च दमितं चापि दिष्टिर्दृष्टिरपि स्मृता। भवेद्दवश्च दावश्च। दोला डोला च कथ्यते॥
७५.स्याद्दारा चापि दाराश्च दूत्यं दौत्यमपि स्मृतं। द्रोणी दोणी च दासेरदासेयौ कथितौ समौ॥
७६.दम्पतीजम्पती चापि दूषणादूषणं तथा। द्युसदस्युर्दिविषदो द्रुहीणोद्रुहिणस्तथा॥
७७.दाडिमी दाडिमश्चापि दारिद्रश्च दरिद्रवत्। धूंक्षोध्वांक्षोधुतंधौतंधनीधनिक एव च॥
७८.धूम्रश्च धूमलश्चापि धृष्टोधृष्णुरपि स्मृतः। भवेद्धम्मिल्लधम्मेल्लौ धवित्रं स्याद्धवित्रकं॥
७९.धूपायितं धूपितं च नगश्च नगसा समः। नाभीनाभिर्निशानिट्च नृत्तं नृत्यं च कथ्यते॥
८०.नयश्च नयनं चापि नतं चानतमित्यपि। ननंदा च ननान्दा च निमेषो निमिषोपि च॥
८१.नीलंगुरपि नीलांगुर्नारको नरकस्तथा। निशीतं निशितं चापि नटनं नाटनं तथा॥
८२.निलयश्चालयश्चापि निकृत्तिर्निकृतिस्तथा। नारंगमपि नार्यंगं नगरी नगरं तथा॥
८३.निचकी नैचकी च स्यात् निगदश्च निगादवत्। निरृतिर्नैरृतश्चापि निक्वाणो निक्वणस्तथा॥
८४.नेदिष्ठोऽपि च नेदीयान् निनदश्च निनादवत्। भवेन्नियंता यन्ता च निहाका निहकापि च॥
८५.नैवेद्यं च निवेद्यं च निकुंजः कुंज एव च। नडमीनो नलमीनो नारायणनरायणौ॥
८६.नीराजनं तथा नीरा जना च परिकीर्तिता। प्राग्र्यः प्राग्रसरश्चापि पंगुः पंगूश्च कथ्यते॥
८७.पृश्निश्च पृश्निपर्णी च प्रावृट्प्रावृषया सह। पशुश्च पर्शुका चापि प्लिहप्लीहागगदेपि च॥
८८.पुष्यः पौषस्तथा पूर्णं पूरितं च प्रकीर्तितं। पिष्टं च पिषितं प्रुष्टं प्लुष्टं चापि पविर्भविः॥
८९.प्रायश्च प्रायसा तुल्यः पर्घस्स्यात्त् परिघस्तथा। पुरश्च पुरतः प्रोक्तं पथः पंथाश्च कथ्यते॥
९०.भवेत्पांसुश्च पांशुश्च प्राणाः प्राणोऽपि स्मृतः। प्रत्नं प्रतनमप्याहुः प्रज्ञः प्राज्ञश्च गद्यते॥
९१.प्रघाणः प्रघणश्चापि पतंगः पतगस्तथा। प्राचीनं प्राचीरमपि पालाशश्च पलाशवत्॥
९२.प्रियालस्स्यात् प्रियालश्च परेतः प्रेत उच्यते। पत्रंगमपि पत्राङ्गं परशस्स्पर्श एव च॥
९३.पूरुषः पूरुषश्चापि परशूःपरशुस्तथा। प्रततिर्व्रतति श्चापि प्रादेशोऽपि प्रदेशवत्। पिटकः पेटकश्चापि पललं पलमित्यपि॥
९४.पृथुलं पृथु चापि स्यात् प्रग्राहः प्रग्रहोऽपि च। स्यात्पलाण्डुः पलण्डु श्च प्रचेताश्च प्रचेतसः॥
९५.पल्यंकिका च पल्यंकः प्रक्वाणः प्रक्वणोऽपि च। प्रियाळू स्स्यात्त प्रियाळुश्च पाटली पाट्ला तथा॥
९६.पुळिन्दस्स्यात् पुळिन्दोऽपि पृषतः पृषदित्यपि। प्रत्यूषः प्रत्युषश्चापि परिखा परिघा समे॥
९७.पालना पालनं चापि पांसुला पांशुला तथा। भवेत्पतत्र पत्रं च पांडित्यं पाण्डिती तथा॥
९८.स्यात्पल्लवः पल्लविकः पुलकश्च पुलो भवेत्। पोतवाहः पोतवहः पुनर्वसु पुनर्वसु॥
९९.पारङ्गतं पारगत् पतद्ग्राहः पतद्ग्रहः। पराक्रमो विक्रमश्च प्रतीचीनं प्रतिंचनम्॥
१००.पारावतः पारवतः प्रतिश्रायः प्रतिश्रयः। प्रतिकारः प्रतीकारः पृषदश्वो भवेदपि॥

१०१.पृषदश्यः पुष्पवन्तौ पुष्पवद्भ्यां समौ स्मृतौ। परीसृता परिसृता भवेत्पाटच्चरस्तथा। पाटचारः परीरम्भः
परिरम्भो निगद्यते।
१०२.भवेत्प्रोष्ठपदाभाद्रपदा परिमळस्तथा। परीमळः परिवृतः परीवृत अपीरितः॥
१०३.परिहासः परीहासःपारिप्लवपरिप्लवौ। प्रतिहारः प्रतीहारो भवेत्पारम्परी तथा॥
१०४.पारम्पर्यमपि प्रोक्तं,फलं च फलितं मतं। फेला फेलिरपि प्रोक्ता फुल्लस्सम्फुल्ल इत्यपि॥
१०५.भवेत्फालं च भालं च फलितं फालितं तथा। फेरवश्चापि फेरुश्च फल्गुनः फाल्गुनोऽपि च॥
१०६.बुसोपिस्यात् बुषश्चापि बाहुर्बाहाबुको बकः। बुद्धं बुधितमप्याहुर्ब्रसी चापि ब्रषी तथा॥
१०७.भवेद्ब्राह्मी ब्राह्मणी च बाणी बाणो बकोवकः। बोधी बोधिद्रुमश्चापि बर्ही बर्हण उच्यते॥
१०८.बर्हिश्च बर्हिश्शुष्मा च विसंविसमितीरितं। ब्राह्मीको ब्राह्मिकश्चापि बन्धूरं बन्धुरं समम्॥
१०९.बिम्बोष्ठं चापि बिम्बौष्ठं बन्धूकं बन्धुकं तथा। बिब्बोकं चापि बेब्बोकं बहुळं बहु चेत्यपि॥
११०.बलाका च वलाका च बिडौजाश्च बिडौजसः। बलारिश्च वलारिश्च बिडालश्च बिडारवत्॥
१११.बान्धवं बन्धुमप्याहुः बलाहकवलाहकौ। बीजापूरो बीजपूरो भिन्नं भेदितमित्यपि॥
११२.भूष्णुर्भविष्णुर्भूमिश्च भूमी च स्यात् भुजाभुजः। भीरुर्भीरूर्भरो भारः भाभा भूषा च भूषणा॥
११३.भृतिर्भृत्याभगोभागो भाषा भाषणमित्यपि। भाद्रभाद्रपदौ तुल्यौ भ्राणो भ्रूणः प्रकीर्तितः॥
११४.भगिनी भागिनी चापि भरता भारती तथा। भैषज्यं भेषजं चापि भूधरश्च धरोपि च॥
११५.भृङ्गारुश्चापि भृङ्गारो भर्त्सनं भर्त्सना तथा। भाण्डीरश्चापि भण्डीरो भवेद्भृङ्गरजस्तथा॥
११६.भृङ्गराजोपि कथितो मेथिर्मेथी महिर्मही। महश्च महसा प्रोक्तो मृष्टं म्लिष्टमपि स्मृतम्॥
११७.मणिर्मणी भवेन्माहो महश्च स्यात् मघोमखः। मुस्ता च मुस्तकं चापि मस्तो मस्तक इत्यपि॥
११८.मुनिश्च स्यान्मुनी चापि मृदुर्मृद्वी तथै व च। मसूरो मसुरश्च स्यात् मूसलं मुसलं तथा॥
११९.मद्गलो मुद्गलोपि स्यात् मद्गरो मुद्गरस्तथा। महिला च महेला च मन्दिरं मन्दिरापि च॥
१२०.स्यान्मार्गितं च मृगितं मार्जनं च मृजा तथा। मृदुलं मृदु च प्रोक्तं मञ्जुलं मञ्जु चेत्यपि॥
१२१.मङ्गल्यमपि माङ्गल्यं मतल्लिश्च मतल्लिका। मकुरो मुकुरश्चापि मांसलो मंसलोपि च॥
१२२.मिहीका मिहिका च स्यात् मिहिरो महिरस्तथा। मण्डूकश्चापि माण्डूको मकुळो मुकुळस्तथा॥
१२३.मथुरा मधुरा चापि मन्थरो मन्दरस्तथा। मर्दळो मर्दळश्चैव मध्यमं मथ्यमित्युच्यते॥
१२४.मृणळं च मृणाळी च मन्थनं मथनं समं। मंजरिर्मञ्जरी च स्यात् मघवा मघवांस्तथा॥
१२५.मार्जालश्चापि मार्जारो मुषितं मुष्टमित्यपि। मंटपो मण्डपश्चापि मासारश्च मसारवत्॥
१२६.मादनश्चापि मदनो मुकुंदः कुंद एव च। मलकश्चाप्यामलको मृद्वीका मृद्विकापि च॥
१२७.मार्गशीर्षो मार्गशिरो भवेन्मातृष्वसा तथा। मातुस्स्वसा मत्तकेशी मत्तकाशिन्यपि स्मृता॥
१२८.विद्यान्मृगशिरञ्चापि तथा मृगशिरोपि च। मणीचकं मणिचकं द्वयं कुसुमवाचकं॥
१२९.मदावनं मदवनं प्रपूर्वं परिकीर्तितं। भवेद्युष्टं च युषितं। योत्रं योक्त्रमपीरितम्॥
१३०.यमश्च यमळश्चापि यमो यामः प्रकीर्तितः। युक्तं युतमपि प्रोक्तं यौवनं यौवतं तथा॥
१३१.युवती युवतिश्चापि युतकं यौतकं तथा। योषितापि भवेद्योषित् योजनं योजना तथा॥
१३२.यजनं याजनं विद्यात् यमुना जमुना तथा। यातीफलं जातिफलं यातुधानस्तथा स्मृतः॥
१३३. जातुधानस्तथा रात्री रात्रिश्चापि निगद्यते। रोदश्च रोदनं चापि भवेद्रागोनुरागवत्॥
१३४. भवेद्राजा च राट्चापि राजी राजिश्च कथ्यते। रेखा लेखा भवेद्रीढारुट्च तथा रुषा॥
१३५. रिक्थमृक्थमपि प्राहुर्भवेतां रोमलोमनी। रुग्रुजे लोष्टलोष्ठू च रदश्च रदनो मतः॥
१३६. रुचको रुचकश्चापि रजसापि रजस्समः। रजनी रजनिश्चापि रजतं रजितं तथा॥
१३७. रोदस्यौ रोदसी चापि रोहितो लोहितस्तथा। रसना रशना चापि रचना रचनं तथा॥
१३८. रिङ्गणं रिंखणं चापि रोहिणी कटुरोहिणी। रेखणी लेखिनी चापि रुषणं रूषणं समम्॥
१३९. रोषिका रोशिका,रात्रिंचरो रात्रिचरस्स्मृतः। लज्जा कज्या तथा लक्ष्मिर्लक्ष्मी लक्ष्यं च लक्षवत्॥
१४०. लक्षं सङ्ख्यार्थकं लक्षा लेख्यालेख्यमपि स्मृतं। लाजो लाजाश्च कथिताः लोप्त्रं लोत्रं च गीयते॥
१४१. लक्षणो लक्ष्मणश्चापि लकुचो लिकुचस्तथा। ललामं च ललामस्स्यात् लालनालालनं तथा॥
१४२. लोहिनीका लोहितिका लांगलीषा तथैव च। लाङ्गलेशा च गदिता, व्याडो व्याळः प्रकीर्तितः॥
१४३. वल्ली वल्लिर्वणिर्वाणी व्रीडा व्रीडमपि स्मृतं। वहो वहो वपिर्वापी वर्मी वर्मिक ईरितः॥
१४४. वारो वालस्तथा वेशो वेषो वासा च वासकम्। भवेद्वृष्टिस्तथा विष्टिः वेत्रो वेत्रमपि स्मृतम्॥
१४५. वीर्यं वीरायितं चापि विश्वा विष्वापि च स्मृता। वेश्या वेष्या च गदिता वंगाबंगः प्रकीर्तितः॥
१४६. वज्रो वज्रमपि प्रोक्तं वीती वीतिश्च कथ्यते। वार्वारि चापि गदितं वारो वासर इत्यपि॥
१४७. व्रतती व्रततिश्चापि विटङ्कश्च विडङ्गवत्। वैदेहिश्चापि वैदेही विपाशा च विपाट् तथा॥
१४८. वाचालश्चापि वाचाटः वियामो वियमोपि च। विश्वसृड्विश्वसृक्च स्यात् वलभी वलभिस्तथा॥
१४९. विफलश्चाफलश्चापि वस्नसाऽवस्नसा तथा। वास्तुकं चापि वास्तूकं वदान्योपि वदन्यवत्॥
१५०. वालुका वालिका चापि बडिशो बलिशोपि च। वर्षाश्चापि भवेद्वर्षा विषुवं विषुवत्तथा॥
१५१. विश्रामो विश्रमश्चापि वातूलो वातुलस्तथा। विकलो विक्लबश्चापि विवश्यो विवशोपि च॥
१५२. विवधो वीवधश्चापि विशाणं तु विषाणवत्। वासुरा वासुरीतिस्स्यात् वातको वातकीति च॥
१५३. वारळा वरळा च स्यात् वरणो वरुणो मतः। वाल्मीकिश्चापि वाल्मीको वलटा वरटा तथा॥
१५४. वल्मिकं चापि वल्मीकं व्यायामो व्याम उच्यते। विहारश्चापि वीहारो वहारश्चावहारवत्॥
१५५. विद्धकर्णी विद्धपर्णी वावदूको वदस्तथा। विहायसो विहायश्च वामदेवोपि वामवत्॥
१५६. वेणीखरा भवेद्वेणीगरावानीपकस्तथा। वनीपको वासुदेवो वासुश्चाथ विदारणम्।
१५७. दारणं चापि कथितं, शापश्शपनमुच्यते। शंढष्षण्ढश्च गदितः शावस्सावोपि कीर्तितः॥
१५८. भवेच्छान्तं च शमितं श्रमश्श्रामोपि कीर्तितः। शुष्कञ्च शुषितं चापि श्रान्तिं श्रान्तं प्रचक्षते॥
१५९. शिखा च शिखरं शाटी शाटश्शम्भूश्च शम्भुवत्। शम्पासम्पाशितं शातं शल्कश्च शकलस्तथा॥
१६०. शेलुश्शेलूर्भवेच्छोणा शोणी शूण्डं च शुण्डवत्। शंबं साम्बं शारसारौ भवेच्छोषश्च शोषणम्॥
१६१. शमीशमीरश्शम्बूकश्शम्बुकश्शरदा शरत्। शोण्डीरमपि शौण्डीरं श्यामाकश्श्यामकोपि च॥
१६२. श्यामालश्श्यामलोपि स्या च्छ्वशुरस्स्वसुरस्तथा। शरारुश्चापि शारारुश्शबलं सबलं तथा॥
१६३. शम्बरं सम्बरं चापि शष्कुलिश्शष्कुलोपि च। शतद्रुश्च शितद्रुश्च शाद्वलश्शाद्वलोपि च॥
१६४. शालूरश्चापि सालूरः शकुनिश्शकुनस्तथा। शम्भळीशम्फळी चैव शाल्मली शाल्मलिर्भवेत्॥
१६५. श्रवणं श्रावणं प्रोक्तं शबरश्शाबरस्तथा। ष्ठेपनंष्ठीपनं तुल्यं स्फटा चापि स्फटस्तथा॥
१६६. सूचिस्सूचीस्रवस्स्रावः स्वनस्स्वानः स्रुतिस्सृतिः। सायं सायस्तथा सर्वश्शर्वस्सूनं प्रसूनवत्॥
१६७. स्यालश्श्यालश्च कथितस्सूरश्शूरस्सखिस्सखा। सूरस्सूरीसालशालौ सर्पस्सार्पस्सहास्सहः॥
१६८. सन्ध्या सन्धिस्सुखं सौख्यं स्पर्शःस्परिश इत्यपि। सुरा सुरीस्स्याच्च समस्समानस्स्तवनं स्तवः॥
१६९. सिंहाणं चापि सिंघाणं सिन्दूरं सिन्दुरं मतं। सौदर्यस्सोदरश्च स्यात्सौहार्दं सौहृदं स्मृतम्॥
१७०. समाख्याच समज्ञा च संकरस्साङ्करस्सङ्करस्तथा। संयामस्संयमश्चापि संहितं सहितं समे॥
१७१. सृणीका सृणिका चापि स्फटिकं स्फाटिकं तथा। सुत्रामापि च सूत्रामा सूकरश्शूकरोपि च॥
१७२. सृगालश्च शृगालश्च साङ्कर्यं सङ्करोपि च। सततं सन्ततं चैव सेवनं सीवनं स्मृतम्॥
१७३. स्तम्बघ्नस्तु स्तम्बघनः सवनं सावनं तथा। स्वयम्भूश्च स्वयम्भुश्च साहस्रं च सहस्रवत्॥
१७४. सीमन्तमपि सीमन्तः साहित्यं साहिती तथा। सुमनास्स्यात्सुमनसः समीकं समिकं तथा॥
१७५. सर्षपस्स्यात् सरिषपः सुधर्मा च सुधर्मणा। सत्राचरस्सहचरः सुवासिन्यां स्ववासिनी॥
१७६. सुरापाणं सुरापानमथ सालावृकस्तथा। भवेच्छालावृकस्साम्परायस्स्यात्सम्परायवत्॥
१७७. सुनासीरश्शुनासीरः स्यात्संवलनमित्यपि। तथा संवरणं प्रोक्तं हलं चापि हलस्तथा॥
१७८. हहाहाहाहुहूर्हूहू हर्षोर्हरिष इत्यपि। हृष्टं च हृषितं चापि हेषाह्रेषाहनुर्हनूः॥
१७९. हनूमान् हनुमांश्चापि हयनं हायनं मतं। हिण्डिरोपि च हिण्डीरः हविषा हविरुच्यते॥
१८०. हारीतो हरितोपि स्यात् हिङ्गुलुश्चापि हिङ्गुलम्। हज्जलो हिज्जलोपि स्यात् ह्रीबेरं हरिबेरवत्॥
१८१. हलीषा च हलेशा च हञ्जीका हञ्जिकापि च। हरितश्च हरिच्चापि ह्रदिनी ह्रादिनीति च॥
१८२. भवेत् क्ष्वेळस्तथा क्ष्वेडः क्षमःक्षामः प्रकीर्तितः। स्यात् क्षुत्क्षुतमपि प्रोक्तं क्षिरिका क्षीरिकापि च॥
(इति द्विरूपपद्धतिस्समाप्ता)