अथ पञ्चरूपपद्धतिः——–
१. . कण्डूयनं च कण्डूया कण्डूः कण्डूति कण्डुती। किसालयं किसलयं किसालं किसलं किसम्॥
२. कुवालयं कुवलयं कुवालं कुवलं कुवम्। धनिर्धन्याकधान्याके धान्यं धान्येयकं तथा॥
३. पत्रा पत्री पत्रिका च पत्रकं पत्रमुच्यते। मारुषो मरुषो मर्षो मारुषं मरुषं तथा॥
४. लोलुपो लोलुभो लोलो लम्पटो लालसोपि च। शेषश्शेषं च शिष्टञ्च शेषितश्चैव शेषिकः॥
५. शिवालं शैवलं शैवालं च शैवालशैवलौ। हसश्च हासिका हासो हसनं हास्यमित्यपि॥
इति पञ्चरूपपद्धतिस्समाप्ता।
इत्थं सत्कविराजराजिमकुटालङ्कारहीरायित श्रीहीरात्मभवेन नैषधमहाकाव्योज्ज्वलत्कीर्तिना।
उद्वृत्तप्रतिवादिमस्तकतटीविन्यस्तवामाङ्घ्रिणा श्रीहर्षेण कृतं चिरं विजयतां श्रीकोशरत्नं महत्॥ (कोशश्चायं समाप्तः)
श्रीहर्षसूरीरितनैकरूपकोशामरद्रुः कविलालनीयः।
जागर्ति यस्यैष मनस्यमुष्यशब्दप्रयोगादिरनर्गळस्स्यात्