पुस्तकस्य नाम - उपयुक्तांश-सङ्ग्रह-व्याख्या
मूलपुस्तकं तेलुगु-लिपौ - archive। DLI।
लेखकः - ताताचार्यः।
श्रीमन्महीशूरपुरी मध्यविद्योतमान दिव्यरत्नसिंहासनारूढ श्रीकृष्णराजेन्द्रास्थानपण्डित नल्लूरु श्री सज्जयाचार्यतनूज श्री ताताचार्यसाहायकेन परिशोध्य परिष्कृत्य विरचितः। तादृशश्रीकृष्णराजेन्द्रादेशेन धर्माधिकारि चक्रवर्त्यय्यङ्गार्येण महीशूरपुरी-मध्यविराजमानायां विद्यातरङ्गिण्याख स्वीयमुद्राक्षरशालायां मुद्रापितो विजयतेतमाम्। इदानीमेतन्मूल्यमेकरूप्यम्। वर्षम् - १८९६॥
अंशाः-
- अवतारकथास्तोत्रम्।
- हर्यष्टकम्।
- उपयुक्तश्लोकाः।
- लिङ्गानुशासनवृत्तिः।
- श्रुतबोधः।
- वृत्तरत्नाकरः।
- चन्द्रालोकः।
- समासशिखामणिः।
- स्वरूपकोशः।
- सुबन्तशब्दानुक्रमणी।
- सप्रमाणशब्दरूपाणि।
- बालरामायणम्।
- श्रीरामायणसङ्ग्रहः।
- क्रियानिघण्टुद्वयम्।
- सप्रमाणसमासचक्रवर्त्याख्यग्रन्थः।
- तत्तद्व्याख्योदाहृतकतिपयप्रमाणवचनानि, तत्तद्व्याख्योक्तकतिपयकोशवचनानि।
- श्रीकृष्णाष्टकञ्च, एतत्समुदायघटितः।