+उपयुक्तांशसङ्ग्रहः - परिचयः

पुस्तकस्य नाम - उपयुक्तांश-सङ्ग्रह-व्याख्या

मूलपुस्तकं तेलुगु-लिपौ - archiveDLI

लेखकः - ताताचार्यः।

श्रीमन्महीशूरपुरी मध्यविद्योतमान दिव्यरत्नसिंहासनारूढ श्रीकृष्णराजेन्द्रास्थानपण्डित नल्लूरु श्री सज्जयाचार्यतनूज श्री ताताचार्यसाहायकेन परिशोध्य परिष्कृत्य विरचितः। तादृशश्रीकृष्णराजेन्द्रादेशेन धर्माधिकारि चक्रवर्त्यय्यङ्गार्येण महीशूरपुरी-मध्यविराजमानायां विद्यातरङ्गिण्याख स्वीयमुद्राक्षरशालायां मुद्रापितो विजयतेतमाम्। इदानीमेतन्मूल्यमेकरूप्यम्। वर्षम् - १८९६॥

अंशाः-

  • अवतारकथास्तोत्रम्।
  • हर्यष्टकम्।
  • उपयुक्तश्लोकाः।
  • लिङ्गानुशासनवृत्तिः।
  • श्रुतबोधः।
  • वृत्तरत्नाकरः।
  • चन्द्रालोकः।
  • समासशिखामणिः।
  • स्वरूपकोशः।
  • सुबन्तशब्दानुक्रमणी।
  • सप्रमाणशब्दरूपाणि।
  • बालरामायणम्।
  • श्रीरामायणसङ्ग्रहः।
  • क्रियानिघण्टुद्वयम्।
  • सप्रमाणसमासचक्रवर्त्याख्यग्रन्थः।
  • तत्तद्व्याख्योदाहृतकतिपयप्रमाणवचनानि, तत्तद्व्याख्योक्तकतिपयकोशवचनानि।
  • श्रीकृष्णाष्टकञ्च, एतत्समुदायघटितः।