छन्दसां लक्षणं येन श्रुतमात्रेण बुद्ध्यते।तमहं सम्प्रवक्ष्यामि श्रुतबोधमविस्तरम्॥ १
संयुक्ताद्यं दीर्घं सानुस्वारं विसर्गसम्मिश्रं।विज्ञेयमक्षरं गुरुपादान्तस्थं विकल्पेन॥ २
आदिमध्यावसानेषु यरता यान्ति लाघवं।भजसा गौरवं यान्ति मनौ तु गुरुलाघवम्॥ ३
यस्याः प्रथमे पादे द्वादशमात्रा स्तथा तृतीयेऽपि। अष्टादश द्वितीये चतुर्थके पञ्चदश सार्या॥ ४
आर्या पूर्वार्थसमं द्वितीयमपि भवति यत्र हंसगते।छन्दोविदस्तदानीं गीतिं ताममृतवाणि भाषन्ते॥ ५
आर्योत्तरार्थतुल्यं प्रथमार्थमपि प्रयुक्तञ्चेत्। कामिनि,तामुपगीतिं प्रकाशन्ते महाकवयः॥ ६
आद्यचतुर्थं पञ्चमकञ्चेत्।यत्र गुरुस्स्यात्साक्षरपङ्क्तिः।अगुरुचतुष्कं भवति गुरू द्वौ घनकुचयुग्मे शशिवदानासा॥७
तुर्यं पञ्चमकं चेद्यत्र स्याल्लघु बाले। विद्वद्भिर्मृगनेत्रे,प्रोक्ता सा मदरेखा॥ ८
श्लोके षष्ठं गुरु ज्ञेयं सर्वत्र लघु पञ्चमं। द्विचतुष्पादयोर्ह्रस्वं सप्तमं दीर्घमन्ययोः॥ ९
पञ्चमं लघु सर्वत्र सप्तमं द्विचतुर्थयोः। षष्ठं गुरु विजानीयादेतत्पद्यस्य लक्षणम्॥ १०
आदिगतं तुर्यगतं पञ्चमकं चान्यगतं। स्याद्गुरुकं तत्कथितं माणवक कीडमिदम॥ ११ (कीडमिदमित्यत्र स्पष्टता नास्ति)
यथातथमुट्टङ्कितम्)
द्वितुर्यषष्ठमष्टमं गुरुप्रयोजितं यदा। तदा निवेदयन्ति तां बुधा नगस्वरूपिणीम्॥ १२
सर्वे वर्णा दीर्घा यस्यां विश्रामस्स्याद्वेदैर्वेदैः। विद्वद्बृन्दैर्वीणापाणि व्याख्याता सा विद्युन्माला॥ १३
तद्धि गुरु स्यादाद्य चतुर्थं पञ्चमषष्ठं चान्त्यमुपान्त्यं। इन्द्रियबाणैर्यत्र विराम स्सा कथनीया चम्पकमाला॥ १४
चम्पकमाला यत्र भवेदन्त्यविहीना प्रेमनिधे। छन्दसि दक्षा ये कवय स्तं मणिबन्धं ते ब्रुवते॥ १५
१६. चम्पकमाला यत्र भवेदन्त्यविहीना प्रेमनिधे। छन्दसि दक्षा ये कवयस्तं मणिबन्धं ते ब्रुवते॥
१७. ह्रस्वो वर्णो जायते यत्र षष्ठः कम्बुग्रीवे तद्वदेवाष्टमान्त्यः। विश्रामस्स्यात्तन्वि वेदैस्तुरङ्गैस्तां भाषन्ते शालिनीं छान्दसीयाः।
१८. मन्दाक्रान्तान्त्ययतिरहिता सालङ्कारे यदि भवति सा। तद्विद्वद्भिर्ध्रुवमभिहिता ज्ञेया हंसी कमलवदने॥
१९. आद्यचतुर्थमहीननितम्बे सप्तमकं दशमं च तथान्त्यं। यत्र गुरुप्रकटस्मरसारेतत्कथितं ननु बोधकवृत्तम्॥
२०. यस्यां त्रिषट्सप्तममक्षरं स्याद्ध्रस्वं सुजङ्घे नवमं च तद्वत्। गत्या विलज्जीकृतहंस कान्ते तामिन्द्रवज्रां ब्रुवते कवीन्द्राः॥
२१. यदीन्द्रवज्राचरणेषु पूर्वे भवन्ति वर्णा लघवस्सुवर्णे! अमन्दमाद्यन्मदने तदानीमुपेन्द्रवज्रा कथिता कवीन्द्रैः॥
२२. यत्र द्वयोरप्यनयोस्तु पादा भवन्ति सीमन्तिनि चन्द्रकान्ते! विद्वद्भिराद्यैः परिकीर्तिता सा प्रयुज्यतामित्युपजातिरेषा॥
२३. आख्यानकी स्यात्प्रकटीकृतोर्थे यदीन्द्रवज्राचरणःपुरस्तात्। उपेन्द्रवज्राचरणास्त्रयोन्ये विपर्योक्ता विपरीतपूर्वा॥
२४. आद्यमक्षरमतस्तृतीयकं सप्तमं च नवमं तथान्तिमं। दीर्घमिन्दुमुखि! यत्र जायते तां वदन्ति कवयो रथोद्धताम्॥
२५. अक्षरं च नवमं दशमं च व्यत्ययाद्भवति यत्र विनीते! प्रोक्तमेणनयने! यदि सैव स्वागतेति कविभिः कथिता स्यात्॥
२६. सतृतीयकषष्ठमनन्तरते नवमं विरतिप्रभवं गुरु चेत्। घनपीनपयोधरभारनते! ननु तोटकवृत्तमिदं कथितम्॥
२७. यदि तोटकस्य गुरुपञ्चमकं विहितं विलासिनि! तदक्षरकम्। रससङ्ख्यकञ्च गुरु तत्र न चेत्प्रमुखाक्षरेति कविभिःकथिता॥
२८. यदाद्यं चतुर्थं तथा सप्तमञ्चेत्तथैवाक्षरं ह्रस्वमेकादशाद्यं। शरच्चन्द्रविद्वेषि वक्त्रारविन्दे! तदुक्तं कवीन्द्रैः भुजङ्गप्रयातम्॥
२९. अणुकृशोदरि! यत्र चतुर्थकं गुरु च सप्तमकं दशमं तथा। विरतिगं च तथैव विलक्षणे! द्रुतविलम्बितमित्युपदिश्यते॥
३०. प्रथमाक्षरमाद्यतृतीययोः द्रुतविलम्बितकस्य च पादयोः। यदि नात्र तदा कमलेक्षणे! भवति सुन्दरि! सा हरिणप्लुता॥
३१. उपेन्द्रवज्राचरणेषु सन्ति चेदुपान्त्यवर्णा लघवो परे तथा। बुधास्तदा सुन्दरि! मानसं गते वदन्ति वंशस्थमराळकुन्तले! ॥
३२. यस्यामशोकाङ्कुरपाणिपल्लवे! वंशस्थपादा गुरुपूर्ववर्णकाः। तारुण्यलीलारतिरङ्गमानसे! तामिन्द्रवंशां कवयः प्रचक्षते॥
३३. आद्यं चेत्त्रितयमथाष्टमं नवान्त्यं चोपान्त्यं गुरु चरमं सुभाषिते! स्यात्। विश्रामो भवति महेशनेत्रदिग्भिर्विज्ञेया ननु मुदिते! प्रहर्षिणी सा॥
३४. आद्यं द्वितीयमपि चेद्गुरुतुर्यकञ्च यत्राष्टमं च दशमान्त्यमुपान्त्यमन्त्यम्। कामाङ्कुशाङ्कुशितकामिमतङ्गजेन्द्रे,कान्ते!
वसन्ततिलकां कवयो वदन्ति॥
३५. प्रथममगुरुषट्कं विद्यते यत्र कान्ते! तदनु च दशमं चेदक्षरं द्वादशान्त्यम्। करिभिरथ तुरङ्गैर्यत्र बाले! विरामः कविभि
रतिमनोज्ञे! मालिनी कीर्तिता सा॥
३६. सुमुखि! लघवः पञ्च प्राच्यास्ततो दशमान्तिमस्तदनु ललितालापे! वर्णा यदि त्रिचतुर्दशौ। भवति च पुनर्यत्रोपान्त्यस्फुरत्
करकङ्कणे! यतिरपि रसैर्वेदैरश्वैस्स्मृता हरिणीति सा॥
३७. यदि प्राच्यो ह्रस्वः कलितकमले! षष्ठकपरे ततो वर्णाः पञ्चप्रकृति सुकुमाराङ्गि! गदिताः। त्रयोन्ये चोपान्त्यास्सुतनुजघना
भोगसुभगे! रसैरश्वैर्यस्यां भवति विरति स्सा शिखरिणी॥
३८. द्वितीयमळिकुन्तले! गुरु षडष्टमं द्वादशं चतुर्दशमथ प्रिये! गुरुगभीरनाभिह्रदे! सपञ्चदशमन्तिमं तदनु चैव कान्ते यतिः
करीन्द्रफणभृत्कुवति सुभ्रू! पृथ्वीति सा॥
३९. चत्वारः प्राक्सुतनु! गुरवो द्वौ दशैकादशौ चेन्मुग्धे! वर्णौ तदनु कुमुदामोदिनि! द्वादशान्त्यौ। तद्वच्चान्त्यौ युगरसहयैर्यत्र
कान्ते! विरामो मन्दाक्रान्तां प्रवरकवयस्तन्वि! तां सङ्गिरन्ते॥
४०. आद्याश्चेद्गुरवस्त्रयः प्रियतमे! षष्ठस्ततश्चाष्टमः तन्व्यैकादशतस्त्रयः तदनु चेदष्टादशाद्यौ ततः। मार्तण्डैर्मुनिभिश्च यत्र विरतिः
पूर्णेन्दुबिम्बानने! तद्वृत्तं प्रवदन्ति काव्यरसिकाश्शार्दूलविक्रीडितम्॥\
४१. चत्वारो यत्र वर्णाः प्रथममलघवः षष्ठकस्सप्तमोऽपि द्वौ तावत् षोडशाद्यौ मृगमदमुदिते! षोडशान्त्यौ तथान्त्यौ। रम्भा
स्तम्भोरुकाण्डे! मुनिमुनिमुनिभिर्यत्र् कान्ते! विरामो बाले! वन्द्यैःकवीन्द्रैः सुतनु! निगदिता स्रग्धरा सा प्रसिद्धा॥
४२. मोभूमिस्त्रिगुरुश्श्रियं वितनुते भःपूर्वगुश्चन्द्रमाः,कीर्तिं योऽभ्युदयं पयःप्रथमलोनस्वश्चिरायुस्त्रिलः। वायुस्सोन्तगुरुर्विदेश-
गमनं शून्यं नभस्तोन्तलोरोग्निर्मध्यलघुर्मृतिं दिनमणिर्मध्ये गुरुर्जोरुजम्॥
इति श्री श्रुतबोधस्सम्पूर्णः।