प्रमाणवचनानि (तत्तद्व्याख्योदाहृतानि)

आसीदिदं तमोभूतमप्रज्ञातमलक्षणम्। अप्रतर्क्यमविज्ञेयं प्रसुप्तमिव सर्वतः॥(१)
ततस्स्वयम्भूर्भगवानव्यक्तो व्यञ्जयन्निदं महाभूतादिवृत्तौजाः प्रादुरासीत्तमोनुदः॥(२)
योसावतीन्द्रियग्राह्यस्सूक्ष्मोऽव्यक्तस्सनातनः। सर्वभूतमयोऽचिन्त्यस्स एव स्वयमुद्बभौ॥(३)
सोऽभिध्याय शरीरात्स्वात्सिसृक्षुर्विविधाः प्रजा॥
अप एव ससर्जादौ तासु वीर्यमपासृजत्॥(४)
तदण्डमभवध्धैमं सहस्रांशुसमप्रभम्। तस्मिन् जज्ञे स्वयं ब्रह्मा सर्वलोकपितामहः॥(५)
तस्मिन्नण्डे स भगवानुषित्वा परिवत्सरम्। स्वयमेवात्मनो ध्यानात्तदण्डमकर्रोद्द्विधा॥(६)
ताभ्यां सशकलाभ्यां च दिवं भूमिं च निर्ममे। मध्ये व्योमदिशश्चाष्टावपां स्थानं च शाश्वतम्॥(७)
सर्वेषां तु स नामानि कर्माणि च पृथक्पृथक्। वेदशब्देभ्य एवादौ पृथक्संस्थाश्च निर्ममे॥(८)
(मनुः) नाम रूपं च भूतानां कृत्यानां च प्रपञ्चनं। वेदशदेभ्य एवादौ देवादीनां चकार सः॥
स्मृतिः–आवहः प्रवहश्चैव संवहश्चोद्वहस्तथा। विवहाख्यः परिवहः परावह इति क्रमात्॥
सप्तैते मारुतस्कन्धाः महर्षिभिरुदाहृताः। आवहो वर्तयेद्वायुर्मेघोल्कावृष्टिविद्युतः। वर्तयेत्प्रवहश्चाथ तथा मार्ताण्डमण्डलम्।
वर्तयेदुद्वहश्चाथ तथा नक्षत्रमण्डलम्। संवहो मारुतस्कन्धस्तथा शीतांशुमण्डलम्। पञ्चमो विवहाख्यस्तु तथैव ग्रहमण्डलम्।
सप्तर्षिचक्रं स्वर्गङ्गां षष्ठः परिवहस्तथा। परावहस्तथा वायुर्वर्तयेद्ध्रुवमण्डलम्॥
ब्रह्माण्डपुराणम्॥
जम्बूप्लक्षाह्वयद्वीपौ शाल्मलश्चापरो द्विज! कुशःक्रौञ्चस्तथा शाकः पुष्करश्चैव सप्तमः। एते द्वीपास्समुद्रैस्तु सप्तसप्तभिरवृताः। लवणेक्षुसुरासर्पिर्दधिदुग्धजलै
स्समं। जम्बूद्वीपस्समस्तानामेतेषां मध्यमे स्थितः॥
विष्णुपुराणम्॥
–हिमवद्विन्ध्ययोर्मध्यो यःप्राग्विनशनादपि। प्रत्यगेव
प्रयागाच्च मध्यदेशस्स कीर्तितः॥
पुराणम्॥
–ग्रामणीयक्षभूतानि कुर्वतेऽभीशुसङ्ग्रहम्। वालखिल्या नयन्त्येनं परिवार्योदयद्रविं॥
कूर्मपुराणम्॥
—-विश्वकर्माभ्यनुज्ञातश्शाकद्वीपे विवस्वता भ्रममारोप्य तत्तेजश्शातयामास तक्षणात्। जपन्नासीत सावित्रीं
प्रत्यगातारकोदयात्॥
सन्ध्यां प्राक्प्रातरेवं हि तिष्ठेदासूर्यदर्शनात्॥
स्मृतिः॥
—-॥
श्वेतद्वीपप्रशंसायां कूर्मपुराणम्–शाकद्वीपं समाक्रम्य क्षीरोदस्सागरस्स्थितः। श्वेतद्वीपश्च तन्मध्ये नारायणपरायणाः। श्वेतास्तत्र नरा नित्यं जायन्ते विष्णुतत्पराः। केचिज्जपन्ति तप्यन्ते केचिज्जानन्तिनोपरे। एकान्तिनो निरालम्बा महाभागवताः परे। इति॥
अग्नौ प्राप्ताहुतिस्सम्यगादित्यमुपतिष्ठते। आदित्याज्जायते वृष्टिः वृष्टेरन्नं ततः प्रजाः॥
मनुः—रोचनं चन्दनं हेम मृदङ्गं
दर्पणं मणिं। गुरुमग्निं च गां सूर्यं प्रातःपश्येत्सदा बुधः।

मनुः॥
रोचनं चन्दनं हेम मृदङ्गं दर्पणं मणिं। गुरुमग्निं च गां सूर्यं प्रातः पश्येत्स्दा बुधः॥

स तु यद्यन्यजातीयः पतितः क्लीब एव वा। विकर्मस्थस्सगोत्रो वा दासो दीर्घामयोऽपि वा।
ऊढापि देया सान्यस्मै सप्रावरणभूषणा। कात्यायनः॥
पृथिवीं सलिलं तेजो वायुराकाशमेव च। सूर्याचन्द्रमसौ सोमयाजी चेत्यष्टमूर्तयः॥
गावः पश्यन्ति गन्धेन वेदैः पश्यन्ति पण्डिताः। चारैः पश्यन्ति राजानः चक्षुर्भ्यामितरे जनाः॥

स्मृतिः॥
आदित्यचन्द्रावनिलोऽनलश्च द्यौर्भूमिरापो हृदयं यमश्च। अहश्च रात्रिश्च उभे च सन्ध्ये धर्मश्च जानाति नरस्य वृत्तम्॥
हिरण्या कनका रक्ता कृष्णा चैवाथ पिङ्गळा। बहुरूपातिरिक्ताग्नेस्सप्तजिह्वाः प्रकीर्तिताः॥
अत्र जिह्वाशब्दश्शिखावाची॥
अहेरिव ऋणाद्भीतस्सन्मानान्मरणादिव। कुणपादिव च स्त्रीभ्यस्तं देवाः ब्राह्मणं विदुः॥
ब्राह्मणं कुशलं पृच्छेत् क्षत्रबन्धुमनामयं। वैश्यं क्षेमं सदा पृच्छेच्छूद्रमारोग्यमेव च॥

स्मृतिः॥
सर्वे देवास्तु पशवो ब्रह्मविष्ण्विन्द्रपूर्वकाः। प्रोक्तास्तेषां पतिर्यस्मादतः पशुपतिस्स्मृतः॥

शैवनिरुक्तिः॥
आत्मानः पशवः प्रोक्तास्सर्वे संसारवर्तिनः॥
विष्णुपुराणम्॥
गोभिर्विप्रैश्च वेदैश्च सतीभिस्सत्यवादिभिः। दातृभिर्धर्म
शीलैश्च सप्तभिर्धार्यते मही॥
अनुष्ठानासमर्थस्य वानप्रस्थस्य जीर्यतः। भृग्वग्निजलसम्पातैर्मरणं प्रविधीयते॥
सत्सन्निकर्षे
परिवर्तितव्यं विद्याधिकाश्चापि निषेवणीयाः। सवर्णतां गच्छति सन्निकर्षान्नीलः खगो मेरुमिवाश्रयन्वै॥
भारतम्॥
–प्रियोपि
भवति द्वेष्यः परुषामीरयन् गिरं। मधुरान्त्वीरयन्वाचमपि शत्रुः प्रियो भवेत्॥
कर्णस्त्वचं शिबिर्मांसं प्राणान् जीमूतवाहनः।
ददौ दधीचिरस्थीनि किमदेयं महात्मनाम्॥
रत्नशास्त्रम्॥
–करीन्द्रजीमूतवराहशङ्खमत्स्याहिशुक्त्युद्भववेणुजानि। मुक्ताफलानि प्रथितानि लोके तेषान्तु शुक्त्युद्भवमेव भूरि॥
॥जीमूतकरिमत्स्याहिशङ्खवंशवराहजाः। शुक्त्युद्भवाश्च विज्ञेया अष्टौ मौक्तिक
योनयः। सिंहळस्याकरोद्भूता महानीलास्तु ते स्मृताः। नीलीरसनिभाः केचिच्छम्भुकण्ठनिभाः परे॥
क्षीरमध्ये क्षिपेन्नीलं क्षीरं
चेन्नीलतां व्रजेत्। इन्द्रनीलस्स विज्ञेयस्सर्वसम्पत्प्रदायकः॥
अगस्त्यः॥
अमृतांशुकरस्पर्शाद्यःक्षरत्यमृतं क्षणात्। चन्द्रकान्तस्स
आख्यातः दुर्लभस्स्यात्कलौ युगे॥
स्कान्दे॥
गजानाम् उत्पत्तिः—–॥
सूर्यस्य अण्डकपाले द्वे समानीय प्रजापतिः।
परिगृह्य स्वहस्ताभ्यां सप्तसामान्यगायत।
गायतो ब्रह्मण
स्तस्मात्समं पेतुर्मतङ्गजाः।
अत एव सिन्धुरस्सामज इत्यमरोक्तिः——-भद्रश्रीहरितालगुग्गुलुशिलागन्धोऽतिशूरो रणे नानाशस्त्रनिपातवेगसहनस्तम्बेरमः क्षत्रियः॥
गजशास्त्रम्—-॥
त्वग्भेदाच्छोणितस्रावान्मांसस्य च्यवनादपि।
आत्मानं यन्न जानाति सा स्याद्गम्भीरवेदिता॥
राजपुत्रीये—–॥
चिरकालेन यो वेत्ति शिक्षां परिचितामपि।
गम्भीरवेदी विज्ञेयास्स गजो गजवेदिभिः॥

मृगधर्मीये॥
मोक्षात्परा गतिर्नास्ति,नास्ति वेदात्परा कृतिः।
नास्ति कृष्णात्परो देवो नास्ति यानं गजात्परम्॥
पृथिव्या भूषणं मेरुश्शर्वर्या भूषणं शशी।
नराणां भूषणं राजा,सैन्यानां भूषणं गजः॥
विभूतेर्भूषणं शान्तिर्वृत्तं स्यात्कुलभूषणम्॥
गृहस्य भूषणं स्त्री स्यात्सैन्यानां भूषणं गजः॥
शीलेन शोभते रूपं चारित्र्याच्छोभते कुलम्।
पुष्पितं शोभतेऽरण्यं सगजं शोभते बलम्॥

नासौ सुतो यत्र गुणा न सन्ति नासौ बुधो येन तपो न तप्तम्।
नासौ पुमान्यस्य वशा न भार्या नासौ नृपो यस्य वशा न
नागाः॥
—चन्द्रहीना यथा रात्रिः सस्यहीना यथा मही।
गजहीना तथा सेना भर्तृहीना तथाङ्गना॥
करात्कटाभ्यां नेत्राभ्यां मेढ्रा
च्चापि मदस्रुतिः।
पालकाप्यसंहिताः॥
करात् नासारन्द्राभ्यामित्यर्थः॥

अश्वशास्त्रम्—–द्वावुरस्यौ शिरस्यौ द्वौ द्वौ द्वौ रन्ध्रोपरन्ध्रयोः।
एकः फालेप्युदाने च दशावर्ताः प्रकीर्तिताः।
आवर्तसाम्यादावर्तो
रोमसंस्थानमङ्गिनाम्।
वक्षस्थाश्शुक्तयस्तिस्र ऊर्ध्वरोमाजयावहाः।
मुहुःपश्चिमपादाभ्यां भुवि स्थित्वाग्रपादयोः।
ऊर्ध्वप्रेरणया
स्थानमश्वानां पुरुषस्स्मृतः॥
गतिः पुलाचतुष्का च तद्वन्मध्यजवापरा।
पूर्णवेगा तथा चान्या पञ्च धाराः प्रकीर्तिताः॥
एकैका
त्रिविधा धारा हयशिक्षाविधौ मता।
लघ्वी मध्या तथा दीर्घा ज्ञात्वैता योजयेत्क्रमात्॥
दृश्यते यच्च हृदये रोमावर्तचतुष्टयम्
स तु श्रीवृक्ष इत्याहुः स स्याच्छ्रीवृक्षकी हयः॥
मल्लिकाक्षस्सितेनाक्ष्णा कृष्णेनेन्द्रायुधो हयः॥
इन्द्रायुधश्च नीलाक्षो मल्लिकाक्षस्सितेक्षणः॥
इति चाश्वशास्त्रम्।

विद्याः—–अङ्गानि वेदाश्चत्वारो मीमांसा न्यायविस्तरः।
पुराणं धर्मशास्त्रञ्च विद्याह्येताश्चतुर्दश।
आयुर्वेदो धनुर्वेदो गान्धर्वश्चेत्यनुक्रमात्।
अर्थशास्त्रं परं तस्माद्विद्याह्यष्टादश स्मृताः॥
मनुः—-॥
अल्पाक्षरमसन्दिग्धं सारवद्विश्वतोमुखम्।
अस्तोभमनवद्यं च सूत्रं सूत्रविदो विदुः॥
सूत्रस्थं पदमादाय वाक्यैस्सूत्रानुसारिभिः।
स्वपदानि च वर्ण्यन्ते भाष्यं भाष्यविदो विदुः॥
यतिस्सर्वत्र पादान्ते श्लोकार्थे तु विशेषतः।
समुद्रादिपदान्ते च व्यक्ताव्यक्तपदान्तिके।
नित्यं प्राक्पदसम्बन्धा च्चादयः प्राक्पदान्तवत्।
परेण नित्यं सम्बन्धात्प्रादय स्तु परादिवत्।

छन्दोरत्नहलायुधम्॥
——संहितैकपदे नित्या नित्या धातूपसर्गयोः।
नित्या समासे वाक्ये तु सा विवक्षामपेक्षते।
—-सर्गैरनति
विस्तीर्णैः श्लाघ्यवृत्तैस्सुसन्धिभिः।
सर्वत्र भिन्नसर्गान्तै रुपेतं लोकरञ्जनम्॥
कालभावाध्वगन्तव्याः कर्मसंज्ञाह्यकर्मणां।
देशश्चा
कर्मकाणाञ्च कर्मसंज्ञो भवेदिह।
कर्तुः क्यङ् सलोपश्चेति सूत्रे सलोपनियामकवचनम्।
ओजसोप्सरसो नित्यमितरेषां विभाषया।

ओजायते॥
अप्सरसायते॥
विद्वायते॥
विद्वन्यत इत्यादि॥
भित्तं शकलखण्डे वा पुंस्यर्धोऽर्धं समेंशुके इत्यत्र सुभूतिचन्द्रकृते व्याख्याने अर्धशब्दस्य त्रिलिङ्गतामङ्गीकृत्य अर्धा शाटी अर्धं वस्त्रं अर्धः कम्बळः इत्युदाहृतम्।
कलामिवार्धामकठोरधान्नः
इति यादवाभ्युदयप्रयोगश्च॥
दृष्टेर्धयाथापरे इति केशवदैवज्ञप्रयोगश्च॥
—॥
उत्कर्षवान् गुणः कश्चिदुक्ते यस्मिन् प्रतीयते।
तदुदाराह्वयं तेन सनाथौदार्यपद्धतिः॥
दण्डी—॥
श्लाघ्यैर्विशेषणैर्युक्तमुदारं कैश्चिदिष्यते।
प्रसिद्धार्थपरत्वं यत्प्रसादो निगद्यते।
ओजस्समासभूयस्त्वं।
बन्धपारुष्यरहिता शब्दकाठिन्यवर्जिता।
नातिदीर्घसमासा च वैदर्भीरीतिरिष्यते।
चान्द्रादयस्तु मन्यन्ते सर्वस्मादुभयपदं वामनः॥
रावणस्य चतुष्पात्त्वे प्रमाणानि॥
इत्युक्ता मुनिना तेन दुःखहर्षसमन्विता।
आदरेणैव कालेन सुषुवे पुत्रमद्भुतं।
दशास्यं विंशतिभुजं भिन्नाञ्जनचयोपमं।
पादैश्चतुर्भिरत्युग्रं ताम्रोष्ठं ताम्रमूर्धजं।
नारदीये जैमिनिरामायणे द्वादशेध्याये सप्तदशश्लोकः॥
रघुवंशे अष्टादशसर्गे॥
भुजमूर्धोरुबाहुळ्या देकोपि धनदानुजः इत्यष्टाशीतितमः श्लोकः जानकीपरिणयनाटके॥
शिरोदशकमग्रतः पदचतुष्टयं चान्यतः।
इति च॥
दशास्यो विंशतिभुजश्चतुष्टान्मानमन्दिरं इत्यभिधानरत्नमाला च॥
—॥
न शोभते तेन हि नो विना पुरं मरुत्वता वृत्रवधे यथा दिवं॥
इति दिवशब्दस्याकारान्तत्वे सुभूतिचन्द्रः॥
उपक्रमोपसंहारावभ्यासोपूर्वताफलं।
अर्थवादोपपत्ती च लिङ्गंतात्पर्यनिर्णये॥
इवेतीषदर्थोपमोत्प्रेक्षावाक्यालङ्कारे।
गणव्याख्यानं।
कल्पदेशीयदेश्याद्यास्स्पर्थिप्रतिभटादयः।
निभवद्वादयश्चापि क्वचित्सम्भावनापराः॥
कल्पतरुः॥
यो बिभर्ति जटाजूट गाढबद्धोरगोद्यतां।
आशीमिव कलामिन्दोर्गङ्गां तल्लयिनीमिव।
आशी शब्द ईकारान्तः प्रयुक्तः।
एकद्विप्रभृतीनां तु व्यञ्जनानां यथा भवेत्।
पुनरुक्तिरसौ नाम वृत्त्यनुप्रास इष्यते।
द्वयोर्द्वयोर्व्यञ्जनयोःयुग्मयोर्या निरन्तरा।
आवृत्तिश्श्रूयते सोयं छेकानुप्रास ईरितः।
सुपां तिङां च व्युत्पत्तिस्सौशब्द्यमिति कथ्यते।
आवर्त्यतेर्थभेदेन सस्वरव्यञ्जनावळीः।
यदा तदा स्याद्यमकं बहुधाद्यन्तमध्यगम्॥
अथ वैद्यकम्——-वसाशुक्लमसृङ्मज्जामूत्रं विट्कर्णविण्णखाः।
श्लेष्माश्रुदूषिकास्वेदो द्वादशैते नृणां मलाः—–चकोरस्य विरज्येते
नयने विषदर्शनात्॥
कामं—॥
भजेते विषरूपत्वं तुल्यांशे मधुसर्पिषी॥
अक्षिरोगोह्यपस्मारः क्षयः कुष्ठं मसूरिका।
दर्शनात् स्पर्शनाद्दानात्सन्क्रामन्ति नरान्नरम्॥
बाहटः—-॥
क्रुद्धैर्धातुभिराहते च मनसि प्राणी तमस्संस्पृशन् दन्तान् खादति फेनमुद्गिरति दोःपादं क्षिपन् मूढधीः।
पश्यन् रूपमसत्क्षितौ निपतति व्यर्थाः करोति क्रियाःबिभ्यत्सस्स्वयमेव शाम्यति गते वेगेत्वपस्माररुक्॥
नैदानिकाः——द्राक्षामधूकखर्जूरकाश्मर्यैश्च सपद्मकैः।
तुल्यांशैःकल्पितं पूतं शीतं कर्पूरवासितम्।
पानकं पञ्चधाराख्यं दाहतृष्णानिवर्तकं॥
वैद्यसङ्ग्रहः——मेषामिषांबुसंसेक स्तत्केशामिषधूपनम्।
स्थेयानयं प्रयोगो हि दाडिमीफलवृद्धये।
मत्स्याज्यत्रिफलालेपैःमांसैराजाविकोद्भवैः।
लेपिता धूपिता सूते फलं ताळीव दाडिमी।
अविक्वाथेन संसिक्ता धूपिता तस्य लोमभिः।
फलानि दाडिमी सूते सुबहूनि पृथूनि च॥
आहारं पचति शिखी दोषानाहारवर्जितः पचति।
दोषापचये धातून् पचति च धातुक्षये प्राणान्॥
नैदानिकाः—-॥
नाभोजनेन कायाग्निर्दीप्यते नातिभोजनात्।
यथा निरिन्धनो वह्निरल्पो वातीन्धनावृतः॥
बाहटः—–॥
अनिष्टदृक् कृपाहीनो लुब्धो गुरुविवर्जितः।
कृष्णरेखाङ्गुळिर्वैद्यो दग्धहस्तः प्रकीर्तितः॥
अगन्धमव्यक्तरसं शीतलं च तृषापहं।
अच्छं लघु च पथ्यं च तोयं गुणवदुच्यते॥
यथा विहन्यात् कूटेन मृगयार्थं वनेचरः।
तथा वातात्मको नागं हन्ति वै कूटपाकलः॥
—॥
मृगः कूटेन शबरैर्हन्यते दारुणं यथा।
तथा तेन द्विपस्सीदत्यतस्स्यात्कूटपाकलः॥

राजा—काककुक्षिस्तु या कन्या न्यग्रोधपरिमण्डला।
एकं जनयते पुत्रं स च राजा भविष्यति॥
सामुद्रिकम्॥
परिमण्डलमुदरं
श्लक्ष्णं षडङ्गुळोत्सेधं षोडशाङ्गुळविस्तृतम्।
द्वात्रिंशदङ्गुळायामं क्षीरिवृक्षसमुद्भवम्॥
पद्माङ्कितं भवेद्भद्रपीठं स्नपनकर्मणि॥

ब्राह्मं प्राप्तेन संस्कारं क्षत्रियेण यथाविधि।
सर्वस्यास्य यथा न्यायं कर्तव्यं परिरक्षणम्॥
इन्द्रानिलयमार्काणामग्नेश्च वरुणस्य च।
चन्द्रवित्तेशयोश्चैव मात्रा निर्हृत्य शाश्वतीः।
यस्मादेषां सुरेन्द्राणां मात्राभिर्निर्मितो नृपः।
तस्मादभिभवत्येष सर्वभूतानि तेजसा।
यस्य प्रसादे पद्मा श्रीर्विजयश्च पराक्रमे॥
मृत्युश्च वसति क्रोधे सर्वतेजोमयो हि सः॥
यस्तु तं द्वेष्टि संमोहात्स विनश्यत्यसंशयम्॥
तस्य ह्याशु विनाशाय राजा प्रकुरुते मनः।
तस्माद्धर्मं यमिष्टेषु संव्यवस्येन्नराधिपः।
अनिष्टं चाप्यनिष्टेषु तं धर्मं न विचालयेत्॥
मनुः—-परितापिषु वासरेषु पश्यन् तटरेखास्थितमाप्तसैन्यचक्रम्।
सुविशोधितनक्रमीनजालं व्यवगाहेत जलं सुहृत्समेतः॥
कामन्दकः॥
राज्ञां भगवदंशत्वे विष्णुपुराणम्॥
—-एते सर्वे प्रवृत्तस्य स्थित्यां विष्णोर्महात्मनः।
विभूतिभूता राजानस्तथान्ये मुनिसत्तमाः॥
इति॥
राज्ञां सृष्टिर्जगद्रक्षणार्थेत्युक्तं मनुना॥
स्वे स्वे धर्मे निविष्टानां सर्वेषामनुपूर्वशः।
वर्णानामाश्रमाणां च राजा
सृष्टोभिरक्षिता॥
इति॥
बालोपि नावमन्तव्यो मनुष्य इति भूमिपः।
महती देवताह्येषा नररूपेण तिष्ठति॥
नरेन्द्रास्सत्रिणो गङ्गा
सूर्याचन्द्रमसौ शिखी।
दृष्टमात्राः पुनन्त्येव किं पुनः परिसेविताः॥
मनुः—-आन्वीक्षकी त्रयी वार्ता दण्डनीतिश्च शाश्वती।
विद्याह्येता
श्चतस्रस्स्युः लोकस्य स्थितिहेतवः॥
कामं–॥
आन्वीक्षक्यां तु विज्ञानं धर्माधर्मात्रयीस्थितौ।
अर्थानर्थौ च वार्तायां दण्डनीत्यां
नयानयौ॥
मनुः—-आत्मानं सारथिं चाश्वान् रक्षन् युद्ध्येत यो नरः।
स महारथसंज्ञस्स्यात्तन्न्यूनोर्धरथस्स्मृतः—-मौलं भृतं
सुहृच्छ्रेणीद्विषदाटविकं बलम्।
गर्भदासादिस्थायिबलं मौलम्॥
१॥
वेतनावर्जितं भृतम्॥
२॥
सुहृत्प्रेषितं सुहृद्बलम्॥
३॥
जनपदेभ्यः
आनीतं श्रेणीबलम्॥
४॥
केनचिद्द्विषता सह युद्धे द्विषदन्तरेण प्रेषितं द्विषद्बलम्॥
५॥
आटविकं किरातादिबलम्॥
इति विवेकः॥

६॥
दुःखे विपदि सम्मोहे कार्यकालात्ययेपि च।
हितान्वेषी च हितकृद्यस्सुहृत्सोभिधीयते।
—सत्यवागार्जवरतिरुपकुर्वन् प्रियं
वदन्-भजते यस्स्वयं प्रीतिं प्रियस्स परिकीर्तितः॥
–समानशीलव्यसनो गुह्याख्यानैकभाजनम्।
विपत्प्रतिक्रियाभिज्ञो वयस्यः
परिकीर्तितः॥
–सदानुरक्तप्रकृतिः प्रजापालनतत्परः।
विनीतात्मा हि नृपतिः भूयसीं श्रियमश्नुते॥
कामं—-सर्वेषां तु विशिष्टेन
ब्राह्मणेन विपश्चिता।
मन्त्रयेत परं मन्त्रं राजा षाड्गुण्यसंयुतं॥
मनुः—साम दानं च भेदश्च दण्डश्चेति चतुष्टयम्।
मायोपेक्षेन्द्रजालं च सप्तोपायाः प्रकीर्तिताः॥
अदेशकालापरोक्ष्यं परोक्षस्यैव वस्तुनः।
मन्त्रौषधश्रियाभेदैः इन्द्रजालं प्रचक्षते॥
सान्ना दानेन भेदेन
समस्तैरथवा पृथक्।
विजेतुं प्रयतेतारीन्न युद्धेन कदाचन॥
मनुः–अद्रौ वनेऽथ राष्ट्रे सर्वजनावाससङ्कीर्णं।
क्रयविक्रयिकैर्युक्तं पुरमुदितं यत्तदेव नगरमिति॥
—चातुर्वर्ण्यसमेतं सर्वजनावाससङ्कीर्णं।
बहुकर्मकारयुक्तं यत्तन्नगरं समुद्दिष्टम्।
—राज्ञा सभासदःकार्याः रिपौ मित्रे च ये समाः।
परिच्छेद्यान् स्वयं पश्येत्स वै परिवृतोन्वहम्॥
कामं—नियुक्तकर्मनिष्पत्तौ विज्ञप्तौ यदृच्छया।
भृत्यान् धनैर्मानयंस्तु राजा ह्यक्षोभ्यतां व्रजेत्॥
बृह—–यस्तु भीतः परावृत्तः सङ्ग्रामे हन्यते परैः।
भर्तुर्यद्दुष्कृतं किञ्चित्तत्सर्वं प्रतिपद्यते।
यच्चास्य सुकृतं किंचिदमुत्र समुपार्जितम्।
भर्ता हरति तत्सर्वं परावृत्तपथे ध्रुवम्॥
मनुः—-द्वाविमौ पुरुषौ लोके सूर्यमण्डलभेदिनौ।
परिव्राड् योगयुक्तश्च रणे चाभिमुखो हतः॥
समाक्रान्तो बलवता कांक्षन्नभ्रंशिनीं श्रियं।
श्रयते वैतसीं वृत्तिं न भौजं गीं कदाचन।
नीतिः——उद्योगादनिवृत्तस्य सुसहायस्य धीमतः।
छायेवानुगता तस्य नित्यं श्रीस्सहचारिणी॥
तस्य राज्ञः—स्त्रीभिष्षण्ड इव
श्रीभिरलसः परिभूयते।
यत्तु सम्यगुपक्रान्तं कार्यमेति विपर्ययम्॥
पुमांस्तत्रानुपालभ्यो दैवान्तरितपौरुषः।
निष्फलं क्लेशबहुळं
सन्दिग्धफलमेव च।
न कर्म कुर्यान्मतिमान् सदा वैरानुबन्धि च॥
कामं—-राज्ञः परिजनस्यापि मङ्गळाचारशंसिनः।
मान्यै
र्मागधिकागीतैर्मागधा इत्युदीरिताः॥
तत्तत्प्रहरकयोग्यैःरागैस्तत्कालवादिभिः श्लोकैः।
सरभसमेकविचारं गायन्वैताळिको भवति॥
मनसो निर्विकारत्वं धैर्यं सत्स्वपि हेतुषु॥
चापलेनानुपहता सर्वार्थेष्वविकत्थना।
स्वाभाविकी चित्तवृत्तिर्धैर्यमित्यभिधीयते॥
—-विषादस्चेतसो भङ्ग उपायापायचिन्तनैः॥
सुखदुःखादिजनितो मोहश्चित्तस्य मूढता॥
—मनस्संकोचसंलज्जा ह्यनौचित्यप्रवर्तनात्।
अविषह्यो मनस्तापस्संज्वरः परिकीर्तितः॥
येनाङ्गारनदीमध्ये विलुठन्निव भात्यते॥
—॥
चापलं त्वनवस्थानं रागद्वेषादिसम्भवं।

ध्यानं चिन्तेप्सितानाप्तेश्शून्यताश्वासतापकृत्॥
—॥
क्रियास्वपाटवं जाड्यं चिन्तोत्कण्ठाभयादिभिः॥
वपुर्जलोद्गमस्स्वेदो रतिघर्मश्रमादिभिः॥
—॥
मनसो यद्दयार्द्रत्वं विषयेषु च तत्त्वतः।
भयशङ्कावसानात्मा स एष स्नेह उच्यते॥
–॥
रतिव्यायामसहनो मत्तेभस्येव मत्तता।
विद्यते युवभावो यस्तद्यौवनमुदाहृतम्॥
—॥
यस्य प्रभावादाकारा हर्षक्रोधभयादिषु भावेषु नोपलक्ष्यन्ते तद्गाम्भीर्यं प्रकीर्तितम्॥
—॥
भीशोकक्रोधहर्षेषु गाम्भीर्यं निर्विकारता॥
–॥
भूपालः॥
स वीरो यस्य वै वीर्यमरिणा युधि वर्ण्यते——एको रथो गजश्चैको नराः पञ्चपदातयः।
त्रयश्च तुरगास्तज्ज्ञैः पत्तिरित्यभिधीयते।
पत्तिं तु त्रिगुणामेतां विदुस्सेनामुखं बुधाः।
त्रीणि सेनामुखान्येको गुल्म इत्यभिधीयते।
त्रयो गुल्मा गणो नाम वाहिनी तु गणास्त्रयः।
स्मृता तिस्रस्तु वाहिन्यः पृतनेति विचक्षणैः।
चमूस्तु पृतनास्तिस्रः चम्वस्तिस्रस्त्वनीकिनी।
अनीकिनीं दशगुणामाहुरक्षौहिणीं बुधाः॥

भारतम्—-क्षीणाः प्रकृतयो लोभं लुब्धा यान्ति विरागताम्।
विरक्ता यान्ति शत्रुत्वं भर्तारं घ्नन्ति वा स्वयम्॥
कौटिल्यः— धर्महेतोन्तमादाय भृत्यानां रक्षणाय च।
अपदर्पं च संरक्ष्यः कोशः कोशवता सदा॥
कामंदकः—-प्रायेण सन्तो व्यसने रिपूणां
यातव्यमित्येव समादिशन्ति।
तन्नैषपक्षो व्यसनं ह्यनित्यं क्षमस्तु सन्नभ्युदितः प्रतीयात्॥
यदा क्षमन्तं प्रसभं निहन्तुं
पराक्रमादूर्जितमप्यमित्रम्।
तदाभियायादहितानि कुर्वन्नुपायतः कर्षणपीडनानि॥


कामन्दकः॥
गिरिपृष्ठं समारुह्य प्रासादं वा रहो गतः।
अरण्ये निश्शलाके वा मन्त्रयेताविभावितः॥
मनु॥
निस्तम्भे निर्गवाक्षे च
निर्भित्त्यन्तरसंश्रये।
प्रासादाग्रेत्वरण्ये वा मन्त्रयेताविभावितः।
सहायास्साधनोपायाः विभागो देशकालयोः।
विनिपातप्रतीकारस्सि
द्धिःपञ्चाण्ग्गमिष्यते॥
कामन्दकः॥
कर्मणामारम्भोपायः॥
पुरुषद्रव्यसम्पत्तिः॥
देशकालविभागः।
विनिपातप्रतीकरः कार्यसिद्धिश्चेति॥

राजमन्त्राङ्गपञ्चकम्॥
नाट्यम्॥
योसौ धनिविशेषस्तु स्वरवर्णविभूषितः।
रञ्जको जनचित्तानां स रागः कथितो बुधैः॥
क्रमात्
स्वराणां सप्तानामारोहश्चावरोहणम्।
मूर्छनेत्युच्यते तज्ज्ञैः॥
इति च सङ्गीतरत्नाकरः—-शृङ्गाररसभूयिष्ठैः भूरिभावतरङ्गितैः।

अङ्गैरनङ्गसर्वस्वशोभातिशयशालिभिः।
अन्वितो नृत्तभेदो य स्तल्लास्यमिति कथ्यते॥
सङ्गीतचूडामणिः॥
—॥
रङ्गं प्रसाध्य
निष्क्रान्ते सूत्रधारे सहानुगे।
तादृशःप्रविशेदन्यस्सूत्रधारगुणाकृतिः॥
दशरूपकं॥
अङ्गैरालम्बयेद्गीतं हस्तेनार्थं प्रदर्शयेत्।
चक्षुर्भ्यां
भावयेद्भावं पादाभ्यां तालनिर्णयः।
यतो हस्तस्ततो दृष्टिर्यतो दृष्टिस्ततो मनः।
यतो मनस्ततो भावो यतो भावस्ततो मतिः॥
—पुष्पाक्षी केशहीना च स्थूलोष्ठी लम्बितस्तनी।
कुब्जा च स्वरहीना च षडेता नाट्यवर्जिताः॥
भरतः॥
यन्नाट्यवस्तुनः पूर्वं रङ्गविघ्नोपशान्तये।
कुशीलवाः प्रकुर्वन्ति पूर्वरङ्गस्स कीर्तितः॥
वसन्तराजीये॥
–॥
पूर्वरङ्गं विधायादौ सूत्रधारे विनिर्गते प्रविश्य तद्वदपरः कार्यमास्थापयेन्नटः॥
प्रथमं पूर्वरङ्गस्स्यात्ततः प्रस्तावनेति च।
आरम्भे सर्वनाट्यानामेतत्सामान्यमिष्यते॥

प्रयाणोपक्रमे हर्षो मार्गे सर्वत्र सौख्यदः।
मनःप्रसादः प्रथमं प्रस्थाने सिद्धिकारणम्॥
१.वैन्यं पृथुं हैहयमर्जुनं च शाकुन्तलेयं
भरतं नलं च।
एतान्नृपान्यस्स्मरति प्रयाणे तस्यार्थसिद्धिःपुनरागमश्च॥
२॥
पूर्णकुम्भे तथादर्शे दध्नि मद्ये तथामिषे।
मीने शङ्खे ध्वजे छत्रे चामरे चारुयोषिति।
चाषे मृगे भरद्वाजे फलपुष्पाक्षतेषु च।
वृषभे समदे नागे सितवाहे द्विजोत्तमे।
सुवर्णे दिव्यरत्ने च वीणायां पटहेपि च।
बद्धे चैव पशौ दृष्टे यात्रा भवति सिद्धिदा॥
धृतातपत्रश्शुचिशुक्लवासाःपुष्पाञ्चितश्चन्दनचर्चिताङ्गः।
विप्रश्शिखावान् कृतभोजनश्च ददाति दृष्टः पथि सर्वसिद्धिम्॥


वसन्तराजीयम्॥
दक्षिणाक्ष्णः परिस्पन्दो दक्षिणस्य भुजस्य च।
हृदयस्य प्रसादश्च सद्यस्संसिद्धिसूचकाः॥
शकुनशास्त्रम्॥
—॥

दृष्ट्वा स्वप्नं शोभनं नैव सुप्यात् पश्चाद्दृष्टो यस्स पाकं विधत्ते।
शंसेदिष्टं तत्र साधु द्विजेभ्यस्ते चाशीर्भिः प्रीणयेयुर्नरेन्द्रम्॥

गार्ग्यः॥
न देवा दण्डमादाय रक्षन्ति पशुपालवत्।
यन्तु रक्षितुमिच्छन्ति बुद्ध्या संयोजयन्ति तम्॥


मनुः॥
नीत्वान्यत्र निशां प्रातरागते प्राणवल्लभे।
अन्या सम्भोगचिह्नैस्तु कुपिता खण्डिता मता॥
—-पुल्लिङ्गेनोच्यते स्त्री च
पुंवच्छक्तिमती क्वचित्।
इति श्रीमध्वभाष्ये॥
अत एव प्रतापरुद्रीये रुद्राम्बायां रुद्रदेव इति व्यवहारः॥
यद्गतागतविश्रान्ति-
वैचित्र्येण ववर्तनं।
तारकायाः कलाभिज्ञास्तं कटाक्षं प्रचक्षते॥
इति॥
आकुञ्चितपुटापाङ्गसङ्गतार्थनिमेषणी।
मुहुर्व्यावृत्ततारा च
दृष्टिराकेकरा मता।
इति च शार्ङ्गदेवः॥
—-॥
क्रोधाश्रुहर्षभीत्यादेस्सङ्करः किलिकिञ्चितं।
शृङ्गारचेष्टाः॥
—-दृङ्मनस्सङ्गसङ्कल्पौ जागरः कृशतारतिः।
ह्रीत्यागोन्मादमूर्छान्ता इत्यनङ्गदशा दश॥
—चक्षुःप्रीतिर्मनस्सङ्गस्सङ्कल्पोऽथ
प्रलापिता॥
जागरःकार्श्यमरतिः लज्जात्यागोथ संज्वरः।
उन्मादो मूर्छनं चैव मरणं चरमं विदुः॥
इत्यवस्था द्वादश॥
अङ्कुर
पल्लवकलिकाकोरकफलभोगभागयं क्रमशः।
प्रेमा मानःप्रणयस्स्नेहो रागोनुराग इति॥
रसार्णवः॥
ईषद्विकसितैर्गण्डैः कटाक्षै
स्सौष्ठवान्वितैः।
अलक्षितद्विजं धीरमुत्तमानां स्मितं भवेत्॥
भूपालः—यद्योषितस्सम्मुखमागताया अन्यापदेशाद्व्रजतो नरस्य।

गात्रेण गात्रं घटते तदालिङ्गनस्पष्टकमाहुरार्याः॥
रतिरहस्ये॥
यत्कुर्वते वक्षसि वल्लभस्य स्तनाभिघातान्निबिडोपगूढाः॥

परिश्रमार्थं शनकैर्विदग्धास्तं कण्ठसूत्रं प्रवदन्ति सन्तः॥
उरसि कमितुरुच्चैराविशन्ती वरांगी स्तनयुगमुपधत्ते चेत्स्तनालिङ्गनं
तत्॥
कण्ठसूत्रस्तनालिंगनशब्दौ पर्यायौ॥
—–॥
बाह्यमाभ्यन्तरं चेति द्विविधं रतमुच्यते।
तत्राद्यं चुम्बनाश्लेषनखदन्तक्षतादिकं।

द्वितीयं सुरतं साक्षान्नानाकरणकल्पितं।
इति॥
आदौ रतं बाह्यमिह प्रयोज्यं तत्रापि चालिंगनमेव पूर्वम्।
इति च रतिरहस्ये॥


विदुरनीतिः—– “एकया द्वे विनिश्चित्य त्रींश्चतुर्भिर्वशे कुरु।
पञ्च जित्वा विदित्वा षट् सप्त हित्वा सुखी भव॥
“(अर्थः)एकया
बुद्ध्या।
द्वे हिताहिते।
त्रीन् अरिमित्रोदासीनान्।
चतुर्भिः सामदानभेददण्डैः।
पञ्च इन्द्रियाणि।
षट् कामक्रोधलोभमोहमदमात्सर्याः॥

सप्त स्त्रीमद्यमृगयाक्षवाक्पारुष्यदण्डपारुष्यार्थदूषणानि सप्त व्यसनानि।

सामान्यम्—- ॥
आचरेत्सदृशीं वृत्तिमजिह्मामशठां तथा॥
स्मृतिः—- ऐश्वर्यरूपतारुण्यकुलविद्याबलैरपि।
इष्टलाभादिनान्येषामवज्ञा
गर्व ईरितः।
भूपालः—- आत्मनश्चरिते सम्यक् ज्ञातेन्यैर्यस्य जायते।
अपत्रपा महती स विलक्षण इति स्मृतः— ॥
विश्वामित्राहि
पश्पाशवारणेप्यप्सु कर्दमे।
वार्धके तमसि श्रान्तौ दण्डं दशगुणं भवेत्॥
आकर्षकास्त्वयस्कान्तविशेषाश्चुम्बकादयः॥
वैजयन्ती॥



दूरादाकर्षणे शक्तो यस्स आकर्षकस्स्मृतः।
सर्वेषां स्पर्शलोलत्वं कुरुते य स्स चुम्बकः।
कृतार्थयति यो दृष्ट्या स तु
सन्द्रावकस्स्मृतः।
भ्रामको मधुराभाषी संस्तवेद्द्वेषभाजनम्॥
भोजकारिकाः॥


असन्तुष्टा द्विजा नष्टाः सन्तुष्टाश्च महीभुजः।

सलज्जा गणिका नष्टा निर्लज्जा च कुलाङ्गना॥
सलिलमये शशिनि रवेर्दीधितयो मूर्छितास्तमो नैशं क्षपयन्ति दर्पणोदर-

निहिता इव मन्दिरस्यान्तः॥
क्षीणेन्द्वर्कार्किभूपुत्राः पापस्तत्संयुतो बुधः।
पूर्णचन्द्रबुधाचार्यशुक्रास्तेस्युश्शुभग्रहाः॥
वराहमिहिरः॥



अतिपातिषु कार्येषु राज्ञां तत्कर्मकारिणाम्।
विवाहादीनि कार्याणि मौढ्येपि गुरुशुक्रयोः॥
गर्गसंहिता—– मूलाश्लेषाविशाखासु
माहेन्द्रे चोदितः पुमान्।
न दोषकृद्विवाहे स्यात् स्त्रियस्त्वेतासु निन्दिताः॥


स्त्रीविषये—– सर्वेन्द्रियसुखास्वादो यत्रास्तीति
मनस्स्त्रियाः।
तत्प्राप्तीच्छां ससङ्कल्पामुत्कण्ठां कवयो विदुः॥
भूपालः—– गतागतकुतूहलं नयनयोरपाङ्गानधिस्मितं।
कुलनत
भ्रुवामधर एव विश्राम्यति।
वचःप्रियतमश्रुतेरतिथिरेवकोपक्रमःकदाचिदपि चेद्भवेत् मनसि केवलं मज्जति॥
पतिं या नाभिचरति
मनोवाक्कायकर्मभिः।
सा भर्तृलोकमाप्नोति सद्भिस्साध्वीति चोच्यते॥