तत्तद्व्याख्योक्तकोशेष्वजादिपदानि

अथ तत्तद्व्याख्योक्तकोशेष्वजादिपदानि—- यथा—-

अग्रमालम्बने प्राप्ये–
विश्वः— अङ्कस्समीप उत्सङ्गे चिह्ने स्थानापराधयोः, केशवः— मृताववसिते रम्ये समाप्तावन्त इष्यते-

शब्दार्णवः—- अर्धेन्दुश्चन्द्रशकले गळहस्तनखाङ्कयोः।
विश्वः–
अतिथिस्स्यात्प्राहुणिके कोपेकुशतनूभवे–
रत्नमाला–
अन्तो स्त्री
निश्चयेनाशेस्वरूपेग्रेन्तिकेऽन्तरे-
रत्नमाला–
यदवाच्यस्य वचनमवाच्यवचनं हि तत्।
भवेदनुशयोद्वेषे पश्चात्तापानुबन्धयोः-
विश्वः–
अन्यौ विभिन्नासदृशौ–
वै–
क्लीबेन्तरं चावकाशे तादर्ध्येवसरेऽवधौ।

वै–
अश्वस्तुरङ्गस्तुरगोहयस्सप्तिस्तुरङ्गमः।
शालिहोत्री व्रती
कुण्डीप्रोधीवारुःप्रकीर्णकः।
कुदरोघोटकस्तार्क्ष्यःक्रमणोगृहभोजनः।
,वै–
अर्थःप्रकारेविषयेव्यवहारेप्रयोजने–
रत्नमाला— ज्ञातहेतुविवक्षायामप्यादिकथमव्ययम्।
कथमादितथाप्यन्तं यत्नगौरवबाधयोः।
उत्पलमाला–
भवेदपचितिः पूजाव्ययहानिषुनिष्कृतौ।

वि-
श्रेष्ठोक्षाणौ तु पुङ्गवौ।
,वै–

अभिजातस्थिरे न्याय्ये कुलीनप्राप्तरूपयोः।
वि-
अरुणोर्कार्कसारथ्योररुणं लोहितेन्यवत्।

वि-
अस्रमश्रुणि शोणिते-
वि-
अमृतं यज्ञशेषे स्यात् पीयूषे सलिले स्मृतम्।

वि-
अङ्गदो बाहुवलयं–
वै॥
अक्षोरथाङ्ग आधानेव्यवहारे
विभीतके।

वै-
अरिष्टं तु शुभे क्लीबं निम्बवृक्षे पुमानयम्।

वै–
अपदानं पराक्रमे–
के–
अर्धचन्द्रस्तदाकारेबाणे बर्हे शिखण्डिनः।
अङ्गदं बाहुवलयेप्यङ्गदःपुंसिवासरे-
के–
अक्षोवरूथिन्यङ्गेनानयनादौ विभीतके।
उत्पलः–
अर्धचन्द्रस्तु चन्द्रके।
गळहस्ते बाणभेदे।

वि–
अनन्तोनागराड्विष्णुः–
वै— अजिनं पापमुच्यते।

त्रि।
षः–
अवस्कन्दः प्रपातश्च सौप्तिकश्च निगद्यते-
हला-
रात्रौ छलादाक्रमणमवस्कन्द इत्यर्थः।
अवगीतं तु निर्वादे मुहुर्दृष्टे च गर्हिते।

वि–
चारौ कुल्येभिजातस्स्यात्-
भा-
अनुभावः प्रभावे स्यात् निश्चये भावसूचके–
वि-
अवश्यायो हि मे गर्वे।
अषः।
अनुध्यानमनुग्रहः-
उत्पलमाला— अवपातस्तु हन्त्यर्थो गर्तः छन्नस्तृणादिभिः।

यादवः–
अहिर्बुध्न्योजटाटीरोजटाजूटोग्निलोचनः,पञ्चाशन्निघण्टुसारे— अङ्कूरोङ्कुरमस्त्रियाम्।

वैजयन्ती॥
अङ्कुरोस्त्रीनवोद्भिदि-
अमरशेषः।
अशनंकूरमाहारः-
अजयः-
असिताङ्गो विशसनः तरवारिश्च हुङ्कृतः।
करवालःकुठारश्च वालश्चन्द्रसुतोऽपि च-
अजयः—- अर्कोर्कपर्णे स्फटिके ज्येष्ठभ्रातरि भास्वति-
विद— अर्कोमघोनि स्फटिके ज्येष्ठभ्रातरि भास्करे,अ।
षः।

अगस्त्ये शुकनासस्स्यात् मार्जारोवङ्गसेनकौ।
अतसी।
विद–
अशनं कूरमाहारो वाजो वादी दिवि स्त्रियाम्।
,विद— स तु स्यादर्जुनो यस्तु मातुरेकस्तनूभवः,विद— सन्यादलंजः किंजश्च यस्य जन्म निरर्थकम्।
विद–
अङ्गजं रुधिरे व्योन्नि क्लीनापुत्रमनोजयोः।
,विद—- अकारादिपदानि समाप्तानि।

आभाप्रख्योपमाभिख्याप्रकारस्सन्निभोनिभः।
नीकाशाद्याश्च साम्यार्थाः समेस्स्युश्शब्दतःपरे,यादवः— आयल्लकमुत्कण्ठास्यादुत्कलिकारतिश्चरणरणकम्,यादवः— सीतायल्लकभल्लभग्नहृदयस्स्वस्थोनलङ्केश्वरः,महानाटके—– आभोगो वरणे छत्रे पूर्णतायत्नयोरपि,विश्वः–
आमिषं मांस उत्कोचे त्रिषु स्याद्भोग्यवस्तुनि।
आमिषं पलले क्लीबं त्रिषु स्याद्भोग्यवस्तुनि।
वि–
आर्यस्साधुकृतज्ञयोः-
विश्वः—- ॥
अस्त्याहकालसामान्ये तिङन्तं प्रतिरूपकम्॥
पुरुषोत्तमः॥


उवाचार्थे निपातस्स्यादाहतिङ्प्रतिरूपकः।


आवर्तोवर्तनेपि स्याच्चिन्तने पयसां भ्रमे।
विश्वः— ॥
आवेशिकः प्राहुणिकः आगन्तुरतिथिस्तथा।

हलायुधः— आगमश्शास्त्र आयतौ-
विश्वः— आयतिस्तूत्तरे काले संयमायामयोरपि–
शाश्वतः— आशयस्स्यादभिप्राये मानसाधारयोरपि–
विश्वः-
आहवस्सङ्गरेयागे,विश्वः— आकृतिःकथितारूपसामान्यवपुषोरपि–
विश्वः-
दोष आधीनवो मतः-
आमोरोगे रोगभेदे प्यामो पक्वे तु वाच्यवत्।
,विश्वः-
ऋजौ नामस्त्रिष्वपक्वेप्यामेत्यामन्त्रणे व्ययम्।
रत्न— आलिङ्गनमुपगूहनमाहुःपरिरम्भणं परिष्वङ्गम्॥
आश्लेषमङ्कपाळीं क्रोडीकरणं च तुल्यार्थं—- हला–
आसारस्स्यात्प्रसरणेवेगवृष्टौसुहृद्बले।
,वै— आशीरुरगदंष्ट्रायां शुभवाक्याभिलाषयोः,वै–

आहसोललितं क्रीडा–
अज— आपातस्स्यादुपक्रमे।

वै-
आलोचनं तु तत्प्राहुर्यत्तु बुद्ध्या निरेक्षणं-
वै–
स्थाणोर्धनुस्त्वाजगवमजगावमजीगवम्–
विदग्ध–
आवेष्टको वृतिर्वाटी-
विदग्ध–
आरक्षाः पुररक्षिणः-
विद–
आढकी स्यात्तुवरिका तोगिरी-
विद–
आमुष्यायण उत्पन्नो यःप्रख्यातकुलात्पितुः,विद— ॥
आनकः पटहे भेर्यां मृदङ्गे स्वनदम्बुदे–
विद— ॥
शब्दार्णवः॥
उपधानं विशेषे स्याद्गेन्दुकेप्रणयेपि च।

वि-
उद्ग्राहितमुपन्यस्तम्॥
वैज— अभ्यस्तेप्युदितं न्याय्ये,या–
उलपा बल्बजा प्रोक्ताः–
वि–
अस्योच्चूडावचूडौ द्वौऊर्ध्वार्धोमुखचूडकौ॥
ह॥
अस्य कुक्कुटस्य–
उर्वरासर्वसस्याढ्यभूमौ स्याद्भूमिमात्रके।

वि-
उत्कोचोस्त्रीकटपलः॥

वै–
उद्वर्त्तोत्तानिके समे— वै–
उत्सेकौ गर्वविद्वेषौ–
भागु— अथ मृद्भाण्डमुष्ट्रिकाः।

विद— ऊर्मिरुत्कलिकोल्लोलकल्लोलौ लहरी तथा।
हलायुधः— पङ्क्तीकृतानामश्वानां नमनोन्नमनाकृतिः।
अतिवेगसमायुक्ता गति
रूर्मिरुदाहृता॥
वै— ओं प्रश्नेङ्गीकृतौ रोगे।
विश्वः–
क्षेत्रं कळत्रे केदारे सिद्धस्थानशरीरयोः।
प्रतापमार्तण्डः— क्षणो व्यापारवैकल्ये
कालभेदाल्पकालयोः।
वैजयन्ती—- क्षेत्रं कळत्रे केदारे सिद्धस्थानकळत्रयोः।
विश्वः–
क्षेत्रं गात्रे च केदारे।
,वै–
क्षपणश्श्रमणोऽवासा
नग्नाटस्स्याद्दिगंबरः।
विद–
क–
कल्याणमक्षरे स्वर्णे कल्याणं मङ्गळेपि च,वि–
कठोरः कठिने पूर्णे–
रभसः–
कंकटीकः कटाटंकः
कटपूः परमेश्वरः।
विदग्धचूडामणिः— कर्णी रथः प्रवहणे मंचे राज्ञां स्वयंवरे।
अमरशेषः॥
कण्ठोगळेन्तिके शब्दे।
कलं त्रिषु रवेऽ
व्यक्तमधुरे हर्षिते तु वा।
वैजयन्ती–
कबन्धं सलिले दैत्येऽप्यपमार्थ्नि कळेबरे।
भास्करः— कथ्योद्गमकथार्हयोः।
उत्पलः–
कथास्स्याद्गमनेपि च।
अजयः— क्रोत्रकौन्तेययोः कर्णः।
रत्नमाला–
कटुस्तिक्ता प्रियाकार्यसुरभूषणमत्सरे।
वै–
गजगण्डेशवरदे किलंजे कुणपे कटः।
वै— कराळो दन्तुरे तुङ्गे विकृतोज्ज्वलयोरपि।
भागुरिः–
कषायो मधुरे स्निग्धे तिक्ते च सुरभिण्यपि।
वै—- कंकेळिःकरकेळिस्स्यादशोकः शान्तपादपः।
अज—- कठिनी वर्णलेखिनी।
वै–
शुक्लधातुशिलायान्तु कटिनी कर्कटीकरी।
बाणः—- ॥
क्लीबे कं शं सुखं शर्म निर्वाणं निर्वृतिः स्त्रियाम्।
अ।
षः।
कलहेन्त्ययुगे शोके कलिर्लोकहरेपि च।
केशवः— कपालःकर्परस्समौ।
कराळो दन्तुरे तुंगे विकृते भीषणेपि च।
वै— नीलोत्पलं तु कन्दोट्टं।
कदनं समरं युद्धं।
कंगुनी पीततण्डुलाः।
एकाक्षः केकरोक्षविकूणनं।
कायस्थःकरणस्समौ।
विद— कादम्बः कलहंसेक्ष्सोः।
वि–
काळिकास्स्यान्नवाम्बुदे।
अ।
षः।

कान्ता नार्यां प्रियंगौ स्त्री शोभने त्रिषु
नाधवे।
लोहे च चन्द्रसूर्यायःपर्यायान्तश्शिलासु च।
मेदिनी–
अधःपटः काण्डपटः।
वै— कांची स्यान्मेखलादान्नि प्रभेदे नगरस्य च।
काहळी तु तरुण्यां स्यात्काहळं भृशशुष्कयोः।
वाद्ये भाण्डविशेषे तु काहळा काहळः खले।
वि–
नित्ययात्रः कार्पटिकः।
भागुरिः— कार्मुकं तु चतुर्हस्तं।
वै— कान्तारो दुर्गमे मार्गे दुर्भिक्षे पातकेपि च।
अजयः— अळीकेपि किल स्मृतम्।
किंकिरातः पीतभद्रः पीतपुष्पो मृदुद्रुमः।
प्रतापमार्ताण्डः—- किरातस्त्वभिधेयवत्।
स्त्रियां चामरधारिण्यां।

वि— किंपुनरर्थेऽतिशये प्रश्ने पक्षान्तरे किमुत।
गणरत्नमहोदधिः।
किं वितर्के परिप्रश्ने क्षेपे/क्षेमे निन्दापराधयोः।
वि–
किराती
चामरधरा यवनी परिचारिका।
शब्दार्णवः— की— कीलालमसृगम्भसोः।
वि— कीनाशः कर्षकक्षुद्रकृतान्तपशुघातिषु।
वि–
कु–
कुकीलो भूधरःकुण्डः कुण्डीरस्सानुमानपि।
कुटुम्बं तु सुतादिकम्।
धान्यकोशः कुसूलोऽस्त्री।
विद–
रामस्नुषायां च तथा कुमुदिन्यां कुमुद्वती।
रभसः— कुमुदं कैरवे रक्तपङ्कजे कुमुदः कपौ॥
वि–
दर्भेपि कुशमस्त्रीस्स्याद्द्वीपे रामसुतेपि वा।
अयोविकारे तु कुशी कुशा वा स्यात्कुशं जलम्।
कुम्भीरस्तस्करे नक्रे पथिच्छाया हरेऽपि सः।
कुटस्तु घटवेश्मनोः।
कुटिस्त्रीकुम्भदास्यामल्पवेश्मनि चापि सा।
कुटीरौकर्कटालयौ।
रत्नमाला—- कुलं जनपदे गृहे।
वि— कुम्भीनसःफुल्लरिको लेलिहानश्च कञ्चुकी।
अज— कू–
कूर्परःकटहोऽस्त्रियाम्।
कटाहः।
विद— कूटोऽस्त्री गिरिशृङ्गेयन्त्रेराशावयोघनेव्याजे।
अनृते मायायामपि।
कण्डूकःकण्डनं चेति तण्डुलस्य मले द्वयम्।
कठुर्निद्धे करुदिः।
कठेरो किञ्चनोडुस्थः।
करम्बःकरबो मिश्रः।
कथाप्रसङ्गस्तु विषवैद्येवार्ताहरेपि च॥
विद–
कदळी वैजयन्त्यां च रम्भायां हरिणान्तरे।
वि— कदळी केतुरम्भयोः।
पुरुषोत्तमः कदळःकदळी रम्भा।
यादवः— पायंपायंकळाचीकृतकदळदळानारिकेळीफलाम्भः।
इति बालरामायणे— ॥
निवातकदळप्रख्यैरिति यादवाभ्युदये।
कर्णिकारःकंचुकारःकोकःकनकपुष्पकः।
कक्षःकाननवीरुधोः।
विश्वः— कक्षे वानिकुञ्जेतृण्यायां।
अज— कन्दळीमृगभेदे स्यात्कन्दळन्तु नवाङ्कुरे।
करकस्तु कमण्डुलौ।

दाडिमे पक्षिभेदे च द्वयोरेष घनोपले।
रत्नमाला— दिग्दष्टं वर्तुलाकारं करिका नखरेखिका।
वै— कटकं वलयेसानौ प्राकारे नगरे कटौ।
भास्क— कटकं वलये सानौ राजधानीनितम्बयोः॥
वि— कटुतिक्तकषायास्तु सौरभ्येपि प्रकीर्तिताः।
के— कटाहःकर्तरःस्तूपः।

वै–
कल्पश्शास्त्रे विधौ माने संवर्ते ब्रह्मणो दिने।
मेदिनी–
कल्कः पापाशये पापे दम्भे।
वि— कराळो भीषणेऽन्यवत्।
वि— करो
नभोंशुहस्तेषु राजदेये घनोपले।
अज— कङ्कस्तुरङ्गे गृध्रे च वार्तायां प्रवरेपि च।
भागुरिः— रागेक्वाथेकषायोऽस्त्री।
यादवः— अस्त्री कषायो निर्यासे सौरभे रसरागयोः।
क्वाथे विलेपने चाथ द्रव्ये स्यादेष वाच्यवत्।
भास्करः— कंसोऽस्त्री लोहभाजनम्।

शाब्दिकमण्डनम्— करुणस्तु रसे वृक्षे कृपायां करुणा मता।
वि— कालेशिल्पेनृत्तवृद्धौ चन्द्रांशे कलनेकला।
वै–
कछं क्लीबेबृहन्मत्स्यस्कंधकूर्चेषु कथ्यते।
गोपालः— कच्छो जलप्रायदेशे मध्यबन्धनपट्टयोः।
विश्वप्रकाशः–
कबरःकर्बुरश्शारः।
हलायुधः—- का— कालेयकं कुंकुमं स्यात्काश्मीरं घुसृणं समम्॥