पत्त्रम् १
१. सदृशं त्रिषु लिङ्गेषु सर्वासु च विभक्तिषु।
वचनेषु च सर्वेषु यन्नव्येति तदव्ययम्॥
२. यल्लिङ्गं यद्वचनं या च विभक्तिर्विशेष्यस्य।
तल्लिङ्गं तद्वचनं सा च विभक्तिर्विशेषणस्यापि॥
३. लिङ्गसङ्ख्याविभेदेऽपि विशेषणविशेष्यता।
विभक्तिः पुनरेकैव विशेषणविशेष्ययोः॥
४. नस्यान्नियतलिङ्गेषु तेषु लिङ्गं विशेष्यवत्।
त्यदादिषु क्वचिल्लिङ्गं विधेयोद्देश्यगं भवेत्॥
५. विशेषणं पुरस्कृत्य विशेष्यं तदनन्तरं।
कर्तृकर्मक्रियायुक्तम् एतदन्वयलक्षणम्॥
६. विशेष्यं तु प्रधानं स्यादप्रधानं विशेषणम्।
द्वाभ्यां युग्ममिति प्रोक्तं त्रिभिश्श्लोकैर्विशेषकम्॥
७. कलापकं चतुर्भिस्स्यात्तदूर्ध्वं कुलकं मतम्।
लळयोर्लडयोस्तद्वज्जडयोर्वबयोस्तथा॥
८. रलयोर्नणयोश्चान्ते सविसर्गाविसर्गयोः।
सबिन्दुकाबिन्दुकयोस्स्यादभेदेन कल्पनम्॥
९. इदमस्तु सन्निकृष्टं समीपतरवर्तिचैतदोरूपम्।
अदसस्तु विप्रकृष्टं तदिति परोक्षे विजानीयात्॥
१०. ईषदर्धे क्रियायोगे मर्यादाभिविधौ च यः।
एतमातङितं विद्याद्वाक्यस्मरणयोरङित्॥
११. षष्टिवागुरिरल्लोपमवाप्योरुपसर्गयोः।
आपञ्चैव हलन्तानां यथा वाचा निशा दिशा॥
१२. वगाहः।
अवगाहः।
पिधानम्।
अपिधानमित्यादि।
“उपसर्गेण धात्वर्थो बलादन्यत्र नीयते।
प्रहाराहारसंहारविहारपरिहारवत्॥
१३. धात्वर्थं बाधते कश्चित्, कश्चित्तमनुवर्तते।
तमेव विशिनष्ट्यन्य उपसर्गगतिस्त्रिथा॥
१४. कवचं मुञ्चति-त्यजतीत्यर्थः।
अमुञ्चति-बध्नातीत्यर्थ।
एवं तिष्ठति।
प्रतिष्ठते-इत्यादौ धात्वर्धबाधः।
आगच्छतीत्यतः
अध्यागच्छति।
पर्यागच्छतीत्यादौ न विशेषः।
युनक्तीत्यतः संयुनक्तीत्यादौ विशेषः।
क्रमेणोदाहरणम्।
उपसर्गाः—प्र-परा-अप-सं-अनु-अव-निस्-निर्-दुस्-दुर्-वि-आङ्-नि-अधि-अपि-अति-सु-उत्-अभि-प्रति-परि-उप-एते प्रादयो
द्वाविंशतिरुपसर्गाः।
१५. लड्वर्तमाने लेड्वेदे भूते लुङ्,लङ्,लिटस्तथा।
विध्याशिषोस्तु लिङ् लोटौ लृङ् लृटौ, लुट् भविष्यति॥
पत्त्रम् २
अकर्मकस्सकर्मा च द्विकर्मा च द्विकर्तृकः।
चतुर्था धातवस्तेभ्यः प्रायशो लादयोष्टधा।
(१)
विवक्षाभेदतोऽन्येऽपि प्रयोगास्स्युरनेकधा।
धातोरकर्मकात्कर्तृभावयोस्स्युर्लडादयः॥ (२)
सकर्मकात्कर्तरि च कर्मण्यपि लडादयः।
द्विकर्मकात्कर्तरि च गौणे मुख्ये च कर्मणि॥ (३)
प्रयोजके कर्तरि च कर्मणि स्युर्द्विकर्तृकात्।
एतेऽष्टधा प्रयोगास्स्युरन्ये वैवक्षिका यथा॥ (४)
क्रियमाणं तु यत्कर्म स्वयमेव प्रसिद्ध्यति।
सुकरैस्स्वगुणैर्यस्मात्कर्म कर्तेति तं विदुः॥ (५)
सौकर्यद्योतने कर्तुर्व्यापारस्याविवक्षया।
कर्मणः कर्तृतास्याच्चेत्प्रयोगः कर्मकर्तरि॥ (६)
एवं करणकर्त्रादिप्रयोगा अथ लक्षणम्।
कर्मशून्यः क्रियाकर्तृयुक्तोऽकर्मक ईरितः॥ (७)
कर्तृकर्मक्रियायुक्तप्रयोगस्स्यात्सकर्मकः।
कर्मद्वयक्रियाकर्तृसंयुक्तस्स्याद्विकर्मकः॥ (८)
यत्र कर्तृतृतीयास्यात्कर्मणि प्रथमो भवेत्।
सकर्मणि प्रयोगस्स्यात्क्रियावाचकसंयुतः॥ (९)
तृतीयाकर्तृयुग्भावे प्रयोगस्स्यात्क्रियायुतः।
प्रथमान्तद्वितीयान्तकर्मभ्यां क्रियया सह॥ (१०)
यत्र कर्तृतृतीया स्यात्सद्विकर्मककर्मणि।
प्रथमान्ततृतीयान्तकर्तृभ्यां क्रियया सह॥ (११)
यत्र कर्म द्वितीयान्तं सद्विकर्तृककर्तरि।
कर्तृद्व्यं तृतीयान्तं प्रथमा यत्र कर्मणि॥ (१२)
क्रियायुतः प्रयोगोऽयं स्याद्द्विकर्तृककर्मणि।
एवमष्टप्रयोगास्स्युरधस्यात्कर्मकर्तृकः (१३)
प्रयोगोऽयं क्रियाकर्तृयुक्तो कर्मक ईरितः ।
कर्तृत्वे करणादीनां प्रायशस्स्यात्सकर्मकः॥ (१४)
रामो विराजते रामो भूमण्डलमपालयत्।
रामचन्द्रो द्शग्रीवं परलोकमनीनयत्॥ १५)
रामेणालभ्यत यशो रामेणाभूयत क्षितौ।
रामेण कुम्भकर्णः प्रागनीयतसुरालयम्॥ (१६)
नळेन राघवस्सेतुं बन्धयामास वारिधौ।
रामेण कपिभिस्सेतुरकार्यत जलाशये (१७)
रामसंस्पर्शनाच्चैवं स्वयं धनुरभज्यत।
रामस्सप्तसालान् तरसा स्वयमच्छिनत्॥(१८)
वृद्धिक्षयभयजीवितमरणं लज्जासत्तास्थितिजागरणं।
शयनक्रीडारुचिदीप्त्यर्थं धातुगणं तमकर्मकमाहुः॥ (१९)
उदाहरणानि क्रमेण यथा—–वर्धते।
क्षीयते।
बिभेति।
जीवति।
म्रियते।
लज्जते।
अस्ति।
तिष्ठति।
जागर्ति।
शेते।
क्रीडति।
रोचते।
दीप्यते।
इति तत्तदर्थकानि बोद्धव्यानि।
धातोरर्थान्तरे वृत्तेर्धात्वर्थेनोपसङ्ग्रहात्।
प्रसिद्धेरविवक्षातः कर्मणोकर्मिका क्रिया॥ (२०) उदाः-वहति भारम्।
अर्थान्तरे नदी
वहति।
स्यन्दत इत्यर्थः।
धात्वर्थेन सङ्ग्रहे–नृत्यति–गात्रं विक्षिपति।
जीवति–प्राणान् धारयतीत्यादिप्रसिद्धौ।
मेघो वर्षतीत्यादि कर्मणोऽविवक्षणे—हितान्न यस्संशृणुते स किं प्रभुरित्यादि।
पत्त्रम् ३
उपयुक्तश्लोकाः————-पूर्वतोऽनुवर्तन्ते———–(३)
१. विकिरन् श्रितसर्वस्वं कटाक्षान् कलशोदरात्।
दर्व्यादायाम्बुधेस्तीरे सुरेभ्योऽदात्सुधां हरिः॥
२. कर्ता च कर्म करणं सम्प्रदानं तथैव च।
अपादानाधिकरणे इत्याहुः कारकाणि षट्॥
३. कर्ता भवति धात्वर्थे स्वातन्त्र्येण विवक्षितः।
कर्म स्यात्क्रियया कर्तुराप्तुमिष्टतमं हि यत्॥
४. करणं स्यात्क्रियासिद्धौ प्रकृष्टमुपकारकम्।
कर्मणा यमभिप्रैति सम्प्रदानं स उच्यते॥
५. अपादानमपाये यद्धृवं तदचलं चलं।
क्रियाधारोऽधिकरणं कर्तृकर्ममुखेन यः॥
६. एतेषां क्रियया योगे संज्ञाकर्त्रादिका भवेत्।
विवक्षातः कारकाणि भवेयुः क्वचिदन्यधा॥
७. दुह्यात्पच्दण्ड्रुधिप्रच्छिचिञ्च्ब्रूञ्शासुजिषध्मुषाम्।
कर्मयुक्स्यादकथितं तथा स्यान्नीहृकृष्वहाम्॥
८. दुहादीनां द्वादशानां तथा नीप्रभृतीनां चतुर्णां कर्मणा यद्युज्यते तदेवाकथितं कर्मेति परिगणनं कर्तव्यमित्यर्थः॥
उदाः–गां दोग्धि पयः।
बलिं याचते वसुधाम्।
तण्डुलानोदनं पचति।
गर्गान् शतं दण्डयति।
व्रजमवरुणद्धि गाम्।
माणवकं
पन्थानं पृच्छति।
वृक्षमपचिनोति फलानि।
माणवकं धर्मं ब्रूते शास्ति वा।
शतं जयति देवदत्तम्।
सुधां क्षीरनिधिं मध्नाति।
देवदत्तं शतं मुष्णाति।
ग्राममजां नयति।
हरति।
कर्षति।
वहति वा।
अर्थनिबन्धनेयं संज्ञा।
बलिं भिक्ष सुधाम्।
माणवकं धर्मं
भाषते।
अभिधत्ते, वक्तीत्यादि।
९. गौणे कर्मणि दुह्यादेः प्रधाने नीहृकृष्वहाम्।
बुद्धिभक्षार्थयोश्शब्दकर्मणाञ्च निजेच्छया॥
१०. प्रधानकर्मण्याख्ये ये लादीनाहुर्द्विकर्मणाम्।
अप्रधाने दुहादीनां ण्यन्ते कर्तुश्च कर्मणः॥
उदाः–अजा ग्रामं नीयते-ह्रियते-कृष्यते-उह्यते इत्यादि।
गौर्दुह्यते पयः-बलिर्याच्यते वसुधामित्यादि।
वटुरन्नमश्नाति-वटुमन्नमाशयति-वटुरन्नमाश्यते इत्यादि।
सू॥ अधि शीङ् स्थासां कर्म।
अधिपूर्वाणामेषामाधारः कर्म स्यात्।
अतिशेते।
अधितिष्ठति।
अध्यास्ते वा वैकुण्ठं हरिः।
(सू) उपान्वध्वाङ्वसः।
उपाधिपूर्वस्य वसतेराधारः कर्म स्यात्।
उपवसति।
अनुवसति।
अधिवसति।
आवसति वा वैकुण्ठं हरिः।
अभुक्त्यर्थस्य न।
वने उपवसति।
११. उभसर्वतसोः कार्याधिगुवर्यादिषु त्रिषु।
द्वितीयाम्रेडितान्तेषु ततोन्यत्रापि दृश्यते॥यथा–उभयतः कृष्णं गोपाः।
सर्वतः कृष्णम्।
परितः कृष्णम्।
धिक्कृष्णाभक्तम्।
उपर्युपरि लोकम्।
अध्यधिलोकम्।
अधोधोलोकम्।
अभितःपरितस्समयानिकषा हा प्रतियोगेपि-यथा–अभितः कृष्णं-परितः कृष्णं-समया ग्रामं-निकषा लङ्काम्-हा कृष्णाभक्तम्-(तस्य शोच्यते)इत्यर्थः।
ऋभुक्षितं न प्रतिभाति किञ्चित्।
(सू) अन्तरान्तरे युक्ते-आभ्यां ओगे द्वितीया स्यात्।
यथा-अन्तरा त्वां मां वा हरिः।
अन्तरेण हरिं न सुखम्-(वा) अकर्मकधातुभिर्योगे देशः कालो भावो गन्तव्यो ध्वा च कर्मसंज्ञक इति वाच्यम्।
यथा–
कुरून् स्वपिति।
मासमास्ते।
गोदोहमास्ते।
क्रोशमास्ते।
इत्यादि क्रमेणोदाहरणम्।
(सू) गतिबुद्धिप्रत्यवसानार्थ शब्दकर्माकर्म
काणां चाणौ यः कर्तापणौ कर्म स्यात्।
प्रत्यवसानं-भक्षणम्।
शत्रूनगमयत्स्वर्गम्।
वेदार्थं स्वानवेदयत्।
आशयच्चामृतं देवान्,
वेदानध्यापयद्विधिम्।
आसयत्सलिले पृथ्वीं स मे श्रीहरिर्गतिः।