पात्राणि

साधारणनियमाः

  • उत्साहपूर्णं कार्यम्।
  • महामारीम् अभिलक्ष्य - प्रायेण गृहादेव कार्यम्।
  • कार्यदिने प्रवेशविधिः
    • attendance login (via app/ site)
  • कार्यदिने निर्गमनविधिः
    • attendance logout
  • कार्याभाव-प्राक्सूचना - सोमवासरादारभ्य शुक्रवासरं यावद् वर्तमानेषु दिवसेषु कार्याभावः पूर्वमेव सूचनीयः (यथा दिनारम्भे पूर्वेद्युर् वा)। तेन +अनावश्यकनिरीक्षं वार्यते।
  • संस्कृतेनैव व्यवहारः।

विद्वन्मन्त्री

कार्याणि

एवंविधम् भवन्ति प्रायेण -

  • यथापेक्षं ग्रन्थपाठानाम् उट्टङ्कनम्, उट्टङ्कितस्य शोधनम् वा,
  • महाभारतादेर् ध्वनिसञ्चिकानाम् परीक्षणं,
  • तादृक्कार्याणि कुर्वतां सङ्ग्रहणं निरीक्षणं वापि यथा।

तदन्तरा यथानिर्देशं बालपाठने यत्नो वा ऽल्पकार्यान्तरं वा संस्कृतादिविशिष्टज्ञानानपेक्षम् अपि स्यात्।

अर्हता

  • broadband (अपेक्षितो वेगः - >10Mbps download, >2.5Mbps, preferably >5Mbps upload) व्यवस्था स्वव्येयेन स्यात्।
    • अन्तर्जालसेवाया अतिमन्दतायां, यावद् जालपृष्ठोद्घाटन-सञ्चिकावारोपणादिकं कार्यं यन्त्रं साधयति, तावद् अस्मत्कार्यान्तरं साधयितुम् प्रयतताम्।
  • यदि बॆङ्गळूरुनगरस्थो मन्त्री, तर्हि- सुखेन कार्यं कर्तुं सङ्गणक-यन्त्रं सुव्यवस्थितं दातुं क्षमा वयम्। अन्यथा स्वव्ययेन सङ्गणकव्यवस्था यत्र उटङ्कनम् अन्तर्जालमेलनादिकं च सुशकं स्यात्।

अग्रणीः

कार्याणि

  • कार्यक्षेत्र-सङ्गणकयन्त्रादि-सौकर्याणां व्यवस्था।
  • भृत्यसङ्ग्रहः।
  • कार्यनिर्देशः। तत्-परीक्षणञ् च।