दोषसूचना-निरीक्षा Awaiting corrections
- नित्यं सकृद् अधः सूचितया रीत्या आकर्षणाभ्यर्थनम् (pull request) प्राप्य, आद्यन्तम् परीक्ष्य, यथापेक्षं दोषान् परिहृत्य, प्रतिसूत्रं स्वोत्तराणि प्रेषयतु।
- अवधेयम् - दोषपरिष्कार-नोदनात् (push-करणात्) परम् एव प्रत्युत्तराणि लेख्यानि। अन्यथा परिष्कृतं परीक्षितुम् अत्र न लभ्यते।
- इत्थं करणात् परम्, प्रत्येकस्मिन् दोष-सूत्रे भवद्-उत्तरम् एवान्ते दृश्येत । ततः परम् एव कार्यान्तरम् आरब्धुम् अर्हति।
- स्वीकृताकर्षणाभ्यर्थनेष्व् अपि दोषेषु परिहृत्य प्रत्युक्तेष्व् एव +अग्रे वर्तनीयम्।
आकर्षणाभ्यर्थन-प्राप्तिः Going to recent pull requests
साक्षाज् जालक्षेत्रतः
निर्देश-समीक्रिया (द्रष्टुं नोद्यम्)
- अधः XYZ इति यद् अस्ति, तस्य स्थाने स्वीयं github-नाम प्रयुङ्क्ताम्।
- अथवैतत् प्रयुज्यतां यन्त्रम्:
- Back to Git workflow
- Go to: https://github.com/vishvAsa/REPO/issues?q=is%3Apr+author%3AXYZ
- Click on your latest few pull requests to check for comments awaiting responses.
Via Email
आकर्षणाभ्यर्थने (pull request इत्यस्मिन्) केचिद् दोषा दृष्टाश् चेद् github-द्वारा सूचयिष्यन्ते। विपत्रसन्देशः+++(=email)+++ प्राप्तः स्यात्।
विपत्रपेटिकायाम् Github इत्य् अन्विष्य तादृशान् सन्देशान् लभताम्।
तादृशं विपत्रम्+++(=email)+++ एवं किञ्चिद् दृश्येत -
images
कस्मिंश् चिद् अपि सूचितस्य दोषस्य विषये विचार-विनिमयार्थम्, परिहार-सूचनार्थं चायं क्रमः।
प्राप्ते विपत्रसन्देशे ऽधो वर्तमानम् “view it on GitHub” इति सङ्केतस्योपरि नुदतु। ततः किञ्चिद् जालक्षेत्रम् उद्घाटयिष्यते। तत्र, उचितस्थाने स्वदन्देशं लिखतु।
दोषावगतिः Context
दोषः कस्मिन् विषयय् उक्त इति स्पष्टम् अवगन्तुम् अयं क्रमः -
- आकर्षणाभ्यर्थनं गत्वा “Files changed” इति नोदनीयम्।
- तत्र दोषसूत्रस्य सञ्चिका, पङ्क्ति-स्थानं सर्वं दृश्यते।
सावधानम् - अन्यत्र “Files changed” इत्यस्य स्थाने “Conversation” इत्यत्र दृष्टं चेत्,
“Load more” इत्यादि नुदित्वा प्रत्येकं सूत्रं प्रतिवाच्यम्।
दोषपरिहारः Correction
दोषान् परिहृत्य, नुत्त्वा (commit+push कृत्वा),
(दोष-मार्जनादिकं साधितं चेद् अध उक्तया रीत्या github-सूत्रेण सूचयितुं न विस्मरतु - अन्यथा परस्परप्रतीक्षया कार्यं विलम्ब्येत।)
प्रतिवचनम् Response
पूर्वोक्तरीत्या आकर्षणाभ्यर्थन(pull-request)-जालपुटे गत्वा,
प्रतिदोषसूत्रम् (“परिहृतम्” इति वा) किञ्चत् समाधानं प्रश्नं वा लिखित्वा प्रेषयेत्॥
एवं च, यथासम्भवम्, किमिति परिष्कृतम् इत्य् अपि सन्देशे हि वाच्यम् (यथा - समाहितम्। "नास्त्य् एव" इति कृतम्।), येन श्रमं विना परीक्षितुं शक्नुयाम्।
दोषसूत्रेषु “Resolve conversation” इति कीलकं दृश्येत - तत् कदापि न नोद्यम् - अहम् एव प्रत्युत्तरम् परीक्ष्य तत्-प्रयोगं करोमि।
Pending comments
कदाचिद् उत्तराण्य् एवं दृश्येरन् -
ऊर्ध्वं “Pending” इत्यस्ति खलु - तस्यार्थो - न प्रेषितवान् इति।
आकर्षणाभ्यर्थनम् उद्घाट्य, “Files changed” इत्यत्र गत्वा “Review changes” इत्यस्मिन् कुत्रचित् “Submit” कीलकं स्यात् - अन्विष्य नुदतु।
यावत् “Submit” इति न करोति, अहम् उत्तराणि न लभे।
उत्तरावकाशाभावः
कदाचिद् एतन् न सम्भवतीति सन्देहो भवेत् - उत्तरोट्टङ्कनावकाशाभावात् (यथा ऽधो दर्श्यते)।
अत्र कारणम् - भवता प्रविष्टम् (sign in इति) न स्यात् github-जालक्षेत्रे। sign-in द्वारा प्रविष्टं चेद् अप्य् एवं दृश्यते चेत् उपेक्षताम्। प्राग् एव तेषां यथासूत्रं दर्शनम् भवति, तत्रैव तदुत्तरदानावकाशो भवति।