5 सूचित-दोष--परिहार-प्रतिवचन-प्रक्रिया

दोषसूचना-निरीक्षा Awaiting corrections

  • नित्यं सकृद् अधः सूचितया रीत्या आकर्षणाभ्यर्थनम् (pull request) प्राप्य, आद्यन्तम् परीक्ष्य, यथापेक्षं प्रतिसूत्रं स्वोत्तराणि प्रेषयतु।

दोषपरिहारः Correction

दोषान् परिहृत्य, नुदित्वा (commit+push कृत्वा),

(दोषमार्जनादिकं साधितं चेद् अध उक्तया रीत्या github-सूत्रेण सूचयितुं न विस्मरतु - अन्यथा परस्परप्रतीक्षया कार्यं विलम्ब्येत।)

आकर्षणाभ्यर्थन-प्राप्तिः Going to the pull request

निर्देश-समीक्रिया (द्रष्टुं नोद्यम्)
  • अधः XYZ इति यद् अस्ति, तस्य स्थाने स्वीयं github-नाम प्रयुङ्क्ताम्।
    • अथवैतत् प्रयुज्यतां यन्त्रम्:
  • Back to Git workflow
Via Email

आकर्षणाभ्यर्थने (pull request इत्यस्मिन्) केचिद् दोषा दृष्टाश् चेद् github-द्वारा सूचयिष्यन्ते। विपत्रसन्देशः+++(=email)+++ प्राप्तः स्यात्।

तद् विपत्रम्+++(=email)+++ एवं किञ्चिद् दृश्येत - images

github-review-notification
github-review-notification

कस्मिंश् चिद् अपि सूचितस्य दोषस्य विषये विचार-विनिमयार्थम्, परिहार-सूचनार्थं चायं क्रमः।

प्राप्ते विपत्रसन्देशे ऽधो वर्तमानम् “view it on GitHub” इति सङ्केतस्योपरि नुदतु। ततः किञ्चिद् जालक्षेत्रम् उद्घाटयिष्यते। तत्र, उचितस्थाने स्वदन्देशं लिखतु।

प्रतिवचनम् Response

github-pull-request-thread-conversation
github-pull-request-thread-conversation

पूर्वोक्तरीत्या आकर्षणाभ्यर्थन(pull-request)-जालपुटे गत्वा,
प्रतिदोषसूत्रम् (“परिहृतम्” इति वा) किञ्चत् समाधानं प्रश्नं वा लिखित्वा प्रेषयेत्॥

Pending comments

कदाचिद् उत्तराण्य् एवं दृश्येरन् -

pull-request-comment-pending
pull-request-comment-pending

ऊर्ध्वं “Pending” इत्यस्ति खलु - तस्यार्थो - न प्रेषितवान् इति।
आकर्षणाभ्यर्थनम् उद्घाट्य, “Files changed” इत्यत्र गत्वा “Review changes” इत्यस्मिन् कुत्रचित् “Submit” कीलकं स्यात् - अन्विष्य नुदतु।
यावत् “Submit” इति न करोति, अहम् उत्तराणि न लभे।

files-changed review-changes
files-changed review-changes

उत्तरावकाशाभावः

कदाचिद् एतन् न सम्भवतीति सन्देहो भवेत् - उत्तरोट्टङ्कनावकाशाभावात् (यथा ऽधो दर्श्यते)।

pull-request-comment cant-respond
pull-request-comment cant-respond

अत्र कारणम् - भवता प्रविष्टम् (sign in इति) न स्यात् github-जालक्षेत्रे। sign-in द्वारा प्रविष्टं चेद् अप्य् एवं दृश्यते चेत् उपेक्षताम्। प्राग् एव तेषां यथासूत्रं दर्शनम् भवति, तत्रैव तदुत्तरदानावकाशो भवति।