Spacing, paragraph-विवेकः

अस्मत्परिभाषा

  • वाक्यम् = sentence
  • पङ्क्तिः = line
  • निरन्तर-पङ्क्ति-सङ्ग्रहः = paragraph
  • रिक्ता पङ्क्तिः = empty line, obtained by pressing Enter key twice.
  • रिक्तस्थानम् = space, obtained by pressing “space bar” key.

पदानि

पदेषु नियमा अन्यत्रोक्ताः

Paragraphs

  • Paragraphs are separated by empty lines. Please remove empty spaces at the beginning of lines. निरन्तर-पङ्क्ति-चयानां (paragraph इत्येषां) विवेकः सम्यक् स्यात् - रिक्तपङ्क्ति-रिक्तस्थानादियोजनैः।
  • Of course, some paragraphs have multiple lines (example - halves of a shloka). In such cases, there should be TWO SPACES at the end of each line.

line 1 ending with 2 spaces  
line 2 in same paragraph.

Different paragraph.

Another paragraph.

परिष्कारोदाहरणम्

परिष्कारोदाहरणम् अत्र

पद्य-विन्यासः

समप्रायं विभक्ता अक्षरसमूहाः पद्य-भागा इत्य् अवगन्तव्यम्। तेषां विन्यासः पादशो वा श्लोकार्धशो वा समान-पाठखण्ड(paragraph)-अन्तर्गतेषु भिन्नासु पङ्क्तिषु स्यात्।


सुमुखश्चैकदन्तश्च कपिलो गजकर्णकः ।    
लम्बोदरश्च विकटो विघ्नराजो गणाधिपः ॥  
धूम्रकेतुर्गणाध्यक्षो भालचन्द्रो गजाननः ।  
द्वादशैतानि नामानि यः पठेच्छृणुयादपि ॥  
विद्यारम्भे विवाहे च प्रवेशे निर्गमे तथा ।  
सङ्ग्रामे सर्वकार्येषु विघ्नस्तस्य न जायते ॥  
शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् ।  
प्रसन्नवदनं ध्यायेत्सर्वविघ्नोपशान्तये ॥  

वाक्य-खण्ड-पङ्क्तयः

अत्रोक्तं पटुतरे ह्य् अन्वेति।
वाक्यस्य विदुषा स्वाभाविकं सुबोधं वचनं यथा भवति,
तथा लेखनम् इष्यते।
यत्र यत्र विरामः स्वीक्रियते,
तत्र तत्र पङ्क्तिभेद इष्यते (न paragraph/परिच्छेद-भेदः)।
सन्धि-च्छेदो ऽपि तत्र क्वचिद् युक्तः।
यथात्रोक्ते हि।
अपरं चोदाहरणम् -

1
2
3
4
5
6
7
8
9
इह खलु भगवान् श्रियः-पतिः  
स्वभावतो निरस्तनिखिलदोषः  
अनवधिकातिशयासंख्येय-कल्याणगुणः सर्वेश्वरः परमकारुणिकः  
अपार-दुस्तर-भवपयोधि-निमग्नान् पुरुषान् उद्दिधीर्षुः  
अतिगहन-गम्भीर-- वेदान्त-कदम्ब-पदवी-स्थित-- परमतत्त्व-परमहित-परमपुरुषार्थ-गोचर-- निखिल-प्रतिपत्तिं प्रापय्य  
तान् अनुग्रहीतुकामः  
श्रीमतः पराशरात्  
कृष्णद्वैपायन-रूपेणावतीर्य  
वेदोत्तंसेति-कर्तव्यता-भूतं शारीरकं शास्त्रं निबबन्ध।

तत्र तन्त्राणि -
क्वान्त-ल्यबन्तादि-वाक्यखण्डसूचक-पदाभिज्ञानम्,
समान-विभक्तिक-पद-सङ्ग्रहम् …।

1
2
3
एतेषां च सर्वेषां वाक्यानां  
सर्व-शाखा-प्रत्यय-न्यायेन सर्व-वेदान्त-प्रत्यय-न्यायेन वा  
एक-वाक्यत्वं व्यवस्थितम्।