Spacing, paragraph-विवेकः

अस्मत्परिभाषा

  • रिक्ता पङ्क्तिः = empty line, obtained by pressing Enter key twice.
  • रिक्तस्थानम् = space, obtained by pressing “space bar” key.

Paragraphs

  • Paragraphs are separated by empty lines. Please remove empty spaces at the beginning of lines. पाठखण्डानां (paragraph इत्येषां) विवेकः सम्यक् स्यात् - रिक्तपङ्क्ति-रिक्तस्थानादियोजनैः।
  • Of course, some paragraphs have multiple lines (example - halves of a shloka). In such cases, there should be TWO SPACES at the end of each line.

line 1 ending with 2 spaces  
line 2 in same paragraph.

Different paragraph.

Another paragraph.

परिष्कारोदाहरणम्

paragraph-spacing-errors
paragraph-spacing-errors
paragraph-spacing-errors fixed
paragraph-spacing-errors fixed

परिष्कारोदाहरणम् अत्र

पदम्

सुप्-तिङन्तम् पदम् इति पदसंज्ञा ऽवगन्तव्या। यथा रामः, हरिहरः, लोकेशः इति पदानि। हरिह, रा इति न पदे। पदमध्ये रिक्तावकाशो न स्यात्। यथा रा मः, हरि हरः इति न लेख्यम्।

कदाचित् पदमध्ये ऽनुचित रिक्तस्थानाभावो दृश्येत। यथा

मणिबन्धनिमग्नेनहस्तेनादायवैजलम् इत्य् अत्र

मणिबन्धनिमग्नेन हस्तेनादाय वै जलम्

इति स्यात्।
एवं रिक्तस्थानाभावे समीकार्यम्।

पदमध्ये रिक्तस्थानयोजने कदापि वर्णव्यत्यासः न कार्यः।
सन्धिविघागो नैव कार्यः। (म → म् अ इति तु न सन्धिविभागः । यत्र व्याकरणशास्त्रोक्त-विभागः, तत्रैव “सन्धि-विभाग"संज्ञा।)
सन्धिर् नाम व्याकरण-विधितो वर्णव्यत्यासः।
यथा “ह्यस्तु” इत्यस्य विभागे “ह्य् अस्तु” इति लेखनम् अभ्युपगतम्, न तु “हि अस्तु” इति

समस्त-पदानि

समस्त-पदेषु रिक्तावकाशा न युज्यन्ते।

“लक्ष्मी चारुकुचद्वन्द्व कुङ्कुमाङ्कित वक्षसे सर्गस्थित्यन्त लीलाय वेङ्कट ब्रह्मणे नमः ॥”

इति रिक्तस्थानानि दृष्टानि चेत् -

“लक्ष्मी-चारु-कुच-द्वन्द्व-कुङ्कुमाङ्कित-वक्षसे सर्ग-स्थित्यन्त-लीलाय वेङ्कट-ब्रह्मणे नमः ॥”

इति समस्तपद-योजनं -चिह्नैः कार्यम्।

रामानुजः - अत्र सवर्णदीर्घ-सन्धिर् अस्ति, ततः -चिह्नस्यावकाशो नास्ति। एवम् अन्यत्र गुणसन्धिवद् एकादेश-स्थानेषु। (सुध्युपास्यः) इत्यत्र (सुध्य्-उपास्यः) इति कर्तुं युक्तम् - यतस् तत्र सन्धिविग्रहं विना -चिह्नयोजने ऽवकाशोऽस्ति।।

उप-समस्त-पदानि

समस्तपदेषूपपदं किञ्चिद् यदि स्वयं समस्तपदम्, तस्य पार्श्वे –चिह्नम् प्रशस्तम्। यथा - ब्रह्म-हत्या–गो-वध–गुरु-तल्प-गमन–पापानि।

दोषाः

सहोत्-पन्न इत्येवम् उपसर्गे -चिह्नम् मा भूत्।

उपपदमध्ये -चिह्न-योजने कदापि वर्ण-व्यत्यासः न कार्यः।
सन्धिविघागो नैव कार्यः।
सन्धिर् नाम व्याकरण-विधितो वर्णव्यत्यासः।

श्रोत्रियस्स्वयमाहरेत् एवं विद्यमाने सति - श्रोत्रियः-स्वयम्-आहरेत् इति न कार्यम् - न तत् समस्त-पदम्। श्रोत्रियस् स्वयम् आहरेत् इति स-रिक्त-स्थानं लेखितुं तूचितम्।

पद्य-विन्यासः

समप्रायं विभक्ता अक्षरसमूहाः पद्य-भागा इत्य् अवगन्तव्यम्। तेषां विन्यासः पादशो वा श्लोकार्धशो वा समान-पाठखण्ड(paragraph)-अन्तर्गतेषु भिन्नासु पङ्क्तिषु स्यात्।


सुमुखश्चैकदन्तश्च कपिलो गजकर्णकः ।    
लम्बोदरश्च विकटो विघ्नराजो गणाधिपः ॥  
धूम्रकेतुर्गणाध्यक्षो भालचन्द्रो गजाननः ।  
द्वादशैतानि नामानि यः पठेच्छृणुयादपि ॥  
विद्यारम्भे विवाहे च प्रवेशे निर्गमे तथा ।  
सङ्ग्रामे सर्वकार्येषु विघ्नस्तस्य न जायते ॥  
शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् ।  
प्रसन्नवदनं ध्यायेत्सर्वविघ्नोपशान्तये ॥