प्रदीपसिंहाचार्यः

mugshot
mugshot

परिचयः

  • नाम - सि आर् प्रदीपसिंहः, आचार्यः, चतुर्वेदी।
  • पिता- सि.आर् रघुनन्दनाचार्यः। माता- सि.आर् वैदेही। 17-04-1980- जननम्।
  • प्रादेशिकभाषाज्ञानम्- कन्नड, संस्कृतम्, हिन्दी, तेलुगु, तुळु
  • लिपिज्ञानम्- कन्नड, संस्कृत, नन्दिनागरी, हिन्दी, तेलुगु, तुळु

विद्याभ्यासः

2004- 2010 भागवतपुराणाध्याययनम् अध्यापकाः श्रीश्रीविश्वनन्दनतीर्थश्रीपादाः 2001 तात्पर्यचन्द्रिकाध्ययनम्- अध्यापकाः श्रीश्रीविश्वेशशतीर्थश्रीपादाः 2001 सामवेदाध्ययनम्- अध्यापकाः श्रीश्रीविश्वप्रसन्नतीर्थश्रीपादाः 1999-2000 श्रीमन्न्यायसुधाध्ययनम्- अध्यापकाः श्रीश्रीविश्वेशशतीर्थश्रीपादाः 1990-1998 वर्षपर्यन्तम् पूर्णप्रज्ञविद्यापीठे द्वैतवेदान्तशास्त्राध्ययनम् । 1998- अथर्ववेदाध्ययनम्- अध्यापकाः श्रीश्रीविश्वप्रसन्नतीर्थश्रीपादाः 1997- यजुर्वेदाध्ययनम् - अध्यापकाः श्रीश्रीविश्वप्रसन्नतीर्थश्रीपादाः 1996 वर्षे ऋग्वेदाध्ययनम् - अध्यापकः श्रीविठ्ठलदासभट्टाचार्यः ।

कार्याणि

  • २०२०-तः द्युगङ्गायां विद्वन्मन्त्री।
  • विष्णुपुराण-सन्धि-समासच्छेदः (हैदराबाद्)
  • 1999 वर्षादारभ्य हस्तलिखितग्रन्थानाम् अन्वेषणम्, अध्ययनं, संग्रहः, संशोधनम् ।

संशोधितग्रन्थाः

  • तन्त्रसारसंग्रहः (अप्रकटितवेदवेद्यशिष्यकृतव्याख्यासहितः)- पूर्णप्रज्ञसंशोधनमन्दिरम्
  • मुक्तितत्वम् - पूर्णप्रज्ञसंशोधनमन्दिरम्
  • घर्मसूक्तम्-मन्युसूक्तं च (सव्याख्यम्) पूर्णप्रज्ञसंशोधनमन्दिरम्
  • गीताभाष्यम् (श्रीराघवेन्द्रतीर्थकृतटिप्पणीसहितम्) पूर्णप्रज्ञसंशोधनमन्दिरम्
  • अद्वैतसारखण्डनम् - सत्यतीर्थप्रतिष्ठानम्
  • रामगुणतारावली. (स्तोत्रकाव्यम्) मन्त्रालयश्रीराघवेन्द्रस्वामिमठः
  • तत्वसंख्यानम्- (कन्नडानुवादः) मन्त्रालयश्रीराघवेन्द्रस्वामिमठः
  • यतिप्रणवकल्पः (व्याख्यासहितः) मन्त्रालयश्रीराघवेन्द्रस्वामिमठः
  • न्यायामृतव्यजनम् मन्त्रालयश्रीराघवेन्द्रस्वामिमठः

पत्रिकासम्पादनम् (सम्पादकमण्डली)

  • 1-गुरुसार्वभौमः (संस्कृतमासपत्रिका ) 2005-2016
  • 2-तत्वचन्द्रिका (कन्नडमासपत्रिका 2015-2017

प्रशस्तिः

  • मान्यविद्याप्रशस्तिः -पुत्तिगोमठ. उडुपि.
  • विद्यारश्मिप्रशस्तिः श्रीभण्डारकेरेमठः बेङ्गलूरु.
  • श्रीविश्वज्ञयुवविद्वत्प्रशस्तिः -श्रीहनसोगे मठः.